________________ जमालि 1413 - अभिधानराजेन्द्रः - भाग 4 जमालिअज्झयण ननु दह्यमानदग्धवादिनोऽप्यञ्चलमात्रदेशे दह्यमाने सड्घाटी कथं दग्धेति व्यपदिश्यते? इत्याहसमए समए जो जो, देसोऽगणिभावमेइ डज्झमाणस्स। तं तम्मि डज्झमाणं,द8 पि तमेव तत्थेव / / 2330 / / यो यो दाह्यस्य पटादेर्देशस्तन्त्वादिः समये समयेऽग्निभावमेति दात इत्यर्थः / तत्तद्देशरूपं वस्तुतस्मिन् समये दह्यमानं भण्यते, तथा दग्धमपि तदेव वस्तु तस्मिन्नेव समये भण्यते, अतो 'दह्यमानमेव दग्धम्' यत्तु देशमात्रेऽपि दग्धे सङ्घाटी मे दग्धेति त्वं वदसि, तत्सङ्घाट्येकदेशेऽपि संघाटीशब्दोपचारादिति मन्तव्यमिति // 2330|| ततः किमिह स्थितम्? इत्याहनियमेण डज्झमाणं, दटुंदढ तु होइ भयणिज्जं / किंचिदिह डज्झमाणं, उवरयदाहं च होजाहि॥२३३१।।। व्याख्या प्रागुक्तानुसारेण कार्येति // 2331 / / इत्यादिढङ्को क्तयुक्तिभिः संबुद्धा प्रियदर्शना, शेषसाधवश्च 'आर्य! इच्छामः सद्भूतमिदं त्वदीयसंबोधनम्' इत्येवढङ्काभिमुखमभिधाय एकाकिनं जमालिनं मुक् त्वा सर्वाण्यपि गतानि जिनसमीपमिति एतदेवाहइच्छामो संवोहण-मजो! पियंदसणादओ ढंकं / वोत्तुं जमालिमेकं, मोत्तूण गया जिणसगासं // 233|| उक्तार्थव / इति पञ्चविंशतिगाथार्थः / / 2332 / / विशे०। आ० म० आ०चूला ''तएणं जमालिस्स एवमाइक्खमाणस्स अत्थेगइया निग्गंथा एयनत्थं सद्दहति, अत्थेगइया णो सद्दहति' (उत्त०) इत्यस्योपरि उत्तराध्ययनवृत्तिगत विवरण प्रदर्श्यत-तत्र येन श्रद्दधति, ते एवमाहुःभगवन् ! भवतोऽयमाशयः- "यथा घटः पटो नैव, पटो वा नघटो यथा / क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम्" ||1|| प्रयोगश्चयौ निश्चितभेदी, न तयोरैक्यं, यथा घटपटयोनिश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतुः, तथाहि-कृतक्रियमाणे किमेकान्तेन निश्चित भेदे, अथ कथञ्चित् यद्येकान्तेनतत्किं तदेक्ये सतोऽपिकरणप्रसङ्गतः उत क्रियाऽ-नुपरमप्राप्तेराहोस्वित्प्रथमादिसमयेष्वपि कार्योपलम्भप्रशक्तेः, अथ क्रियावैफल्यापत्तितो दीर्घक्रियाकालदर्शनानुपपत्तेर्वा तत्र न तावत्सतोऽपि करणप्रसङ्ग इति युक्तम- सत्करणे हि खपुष्पादेरेव करणमापद्यत इति कथञ्चित्सत एव करणमस्माभिरभ्युपगतम्, न चाभ्युपगमार्थस्य प्रसञ्जनं प्रयुज्यते। नाऽपि क्रियानुपरमप्राप्तेः, यत इह क्रिया किमेकविषया, भिन्नविषया वा ? यद्येकविषया न दोषः। / तथाहि-यदि कृतं क्रियमाणमुच्यते, तदा तन्मतेन निष्पन्नमेव कृतमिति, तस्यापि क्रियमाणतायां क्रियाऽनुपरमप्राप्तिलक्षणो दोषः स्यात् न तु क्रियमाणं कृतमिति उक्तौ तत्र क्रियावेशसमय एव कृतत्वाऽभिधानात्। उक्तं हि-क्रियाकालनिष्ठाकालयोरैक्यमिति। अथैवमपि कृतक्रियमाणयोरैक्ये कृतस्य सत्त्वात्सतोऽपि करणे तदवस्थः प्रसङ्गः। तदसत्। पूर्व हि लब्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात् न तु क्रियासमकालसत्तावाप्तौ अथ भिन्नविषया क्रिया तदा सिद्धसाधनं, प्रतिसमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमनेनभिन्नविषयक्रियानुपरमस्यास्माक सिद्धत्वात् / अथ प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्तेरिति पक्षे क्रियमाणस्य हि कृतत्वप्रथमादिसमयेष्वपि सत्वादुपलम्भः प्रसज्यत इति, तदपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यन्त एव / उक्तं च विशेषावश्यके- “अन्नारंभे अन्नं, कह दीसउ जह घडो पडारंभे। सिवगादओ न कुंभो, किह दीसउ सो तदद्धाए" // 2316 / / घटगताऽभिलापतया च मूढः शिवकादिकरणेऽपि घटमहं करोमीति मन्यते / तथा चाह- "पइसमयकज्जकोडी, निरवेक्खंघडगयाभि-लासो सि। पइसमयकज्जकालं, थूलमई घडम्मि लाएसि // 2318|| (विशे०) नापि क्रियावैफल्यापत्तितः, यतः प्रागवाप्तसत्ताकस्य करणे क्रियावैफल्यं स्यात्, न तु क्रियमाणकृतत्वे, तत्र हि क्रियमाणं क्रियापेक्षमिति तस्याः साफल्यमेव अनेकान्तवादिनां च केनचिद्रूपेण प्राग् सत्त्वेऽपि रूपान्तरेण करण न दोषाय, दीर्धक्रियाकालदर्शनानुपपत्तिरित्यपि न युक्तम् / यतः शिवकाद्युत्तरोत्तरपरिणामविशेषविषय एव दीर्घक्रियाकालोपलम्भो, न तु घटक्रियाविषयः / उक्त हि-- "पतिसमयउप्पण्णाणं, परोप्परविलकखणाण सुबहूणं / दीहो किरियाकालो, जइ दीसइ किं च कुंभस्स / / 2315 / / '' (विशे०) अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे तत्तीर्थकृदुक्तमेव निश्चयव्यवहारानुगतत्वात् तद्वचसः, तत्र च निश्चयनयाश्रयणेन कृतक्रियमाणयोरभेदः / यदुक्तम्-"क्रियमाणं कृतं दग्ध, दह्यमानं स्थितं गतम् / तिष्ठच गम्यमानं च, निष्ठितत्वात् प्रतिक्षणम् // 1 // '' व्यवहारनयमतेन तु नानात्वमप्यनयोः, तथा च क्रियमाणं कृतमेव, कृतं तु क्रियमाणमेव स्यात्, क्रियमाणं क्रियावेशसमये क्रियोपरमे पुनरक्रियमाणमिति / उक्तं च- "तेणेह कजमाणं, नियमेण कयं कयं तु भयणिज्ज / किंचिदिह कज्जमाणं, उवरयकिरिवं च होजाहि" / / 2320 / / (विशे०) किं च--भवतो मतिः क्रियाऽन्त्यसमय एवाऽभिमतकार्यभवन, तत्राऽपिप्रथमसमयादारभ्य कार्यस्य कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा कथम-कस्मादन्त्यसमये सा भवेत्। उक्तम्"आद्यतन्तुप्रवेशे च, नो तं किञ्चिद्यदा पटे। अन्त्यतन्तुप्रवेशे च, नो तं स्यान्न पटोदयः'' ||1|| तस्माद्यदि द्वितीयादि-तन्तुयोगात्प्रतिक्षणम्। किश्चित्किञ्चिदुतं तस्य, यदुत तदुतं हि तत्॥२॥ इह प्रयोगः, यद्यस्याः क्रियायाः आद्यसमये न भवति तत्तस्या अन्त्यसमयेऽपि न भावि, यथा घटक्रियादिसमये अभवन् पटोन भवति च कृतक्रियमाणयोर्भेदे क्रियादिसमये कार्यम्, अन्यथा घटान्तसमयेऽपि पटोत्पत्तिः स्यात् / एवं च-"यथा' 'वृक्षो धवश्चेति', न विरुद्धं मिथो द्वयम्। 'क्रियमाणं कृतं चेति', न विरुद्धं तथोभयम् / / 1 / / प्रयोगश्च-यद् येनाविनाभूतं न तत् एकान्तेन भिद्यते, यथा-वृक्षत्वाद् धवत्वं, कृतत्वाविनाभूतं च क्रियमाण-त्वमिति सकललोकप्रसिद्धत्वाच्च घटपटयोस्तदाश्रयेणैवमुक्तं संस्तारकादावपि योज्यम। तत्प्रतिपद्यस्व भगवन् ! 'चलमाणे चलिए'' इत्यादि तीर्थकृता चात्यन्तमवितथ्यमिति, स चैवमुच्यमानोऽपि न प्रतिपन्नवान् / उत्त०३ अ० जमालेः कियन्तो भवा इति प्रश्नस्योत्तरम्-यथा भगवतीमूलकर्णिकावृत्तिवीरचारित्राद्यनुसारेणजमालेः पञ्चदश भवा ज्ञायन्ते। ही०३प्रका०। *जमालिन् पुं०। महावीरजिनप्रथमनिहवे, विशे०) जमालिअज्झयण न०(जमाल्यध्ययन) वाचनान्तरापेक्षया अन्तकृद्दशाध्ययनानां षष्ठेऽध्ययने, इदानीं तनम् अन्तकृद्दशासु तदनुपलब्धः। स्था०१० ठा०।