SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जमालि 1412 - अभिधानराजेन्द्रः - भाग 4 जमालि अथोपसंहरस्तात्पर्यमाहतेणेह कञ्जमाणं, नियमेणं कयं कयं तु भयणिज / किंचिदिह कज्जमाणं, उवरयकिरियं च होज्जाहि / / 2320|| तेन उक्तप्रकारेण क्रियमाणं वर्तमानक्रियाक्षणभावि कार्य नियमेन कृतमेवोच्यते यत्तु कृतं तद्भजनीय विकल्पनीयम् / कथम? इत्याहकिंचिदिह कृतं क्रियाप्रवृत्तिकालभावि क्रियमाणमुच्यत, अन्यत्तूपरतक्रिय चक्रापाकाद्युत्तीर्ण कृतं घटाद्विकार्य न क्रियमाणमुच्यते, उपरतक्रियत्वादिति // 2320 / / तदेवं सामान्येन प्रतिपाद्य प्रस्तुते जमालिसंस्तारकेऽमुं सक लमपि स्थविरोक्तं युक्तिकलापमायोजयन्नाहजं जत्थ नभोदेसे, अत्थुवइ जत्थ जत्थ समयम्मि। तं तत्थ तत्थ मत्थुय, मत्थुव्वंतं पितं चेव / / 2321 / / आस्तीर्यमाणसंस्तारकस्य यद्यावन्मात्रं नभोदेशे यत्र यत्र समये (अत्थुव्वइ) आस्तीर्यते तत् तावन्मानं तस्मिन्नभोदेशे तत्र तत्र समये आस्तीर्णमेव भवति, आस्तीर्यमाणमपि च तदेवोच्यते। इदमुक्तं भवतिसर्वोऽपि संस्तारक आस्तीर्यमाणो नास्तीर्ण इति क्रियमाणं कृतम्' इत्यादि महावीरवचनं व्यलीकमेव जमालिमन्यते / एतच्चायुक्तम्, भगवद्वचनाभिप्रायापरिज्ञानात्। सर्वनयात्मकं हि भगवद्वचनम् / ततश्च 'क्रियामाणमकृतम्' इत्यपि भगवान् कथंचिद् व्यवहारनयमतेन मन्यत एव, परम् "चलमाणे चलिए, उईरिजमाणे उईरिए'' इत्यादिसूत्राणि निश्चयनयमतेनैव प्रवृत्तानि / तन्मतेन च क्रियमाणं संस्तृतम्, इत्यादि सर्वमुपपद्यत एव। निश्चयो हि मन्यते-प्रथमसयादेव घटः कर्तुं नारब्धः, किं तु मृदानयनमर्दनादीनि प्रतिसमयं परापरकार्याण्यारभ्यन्ते.तेषां च मध्ये यद्यत्र समये प्रारभ्यते तत्तत्रैव निष्पद्यते, कार्यकालनिष्ठाकालयोरेकत्वात्, अन्यथा पूर्वोक्तदोषप्रसंगात्। ततः क्रियमाणं कृतमेव भवति / एवं प्रस्तुतः संस्तारकोऽपि नाद्य समयात्सर्वोऽपि संरतरीतुमारभ्यते, किंत्वपरापरे तदवयवाः प्रतिसमयमास्तीर्यन्ते, तेषा च मध्ये यो यत्र समयेऽवयवः संस्तरीतुमारभ्यते स तत्रैवास्तीर्यते, परिपूर्णस्तु संस्तारकश्चरमसमय एव संस्तरीतुमारभ्यते तत्रैव च निष्पद्यत इति। संस्तीर्यमाणं संस्तीर्णमेव भवतीति।।२३२१॥ "दीसइ दीहो यजओ"(२३११) इत्यत्राहवहुवत्थत्तरणविभिण्ण-देसकिरियाइकज्जकोडीणं / मन्नसि दीहं कालं, जइ संथारस्स किं तस्स / / 2322 / / यदि नाम बहुवस्त्रास्तरणविभिन्नदेशक्रियादिकार्यकोटीना संबन्धिन दीर्घकालं मन्यसे जानासि त्वं, ततः संस्तारकस्य तस्य किमायातम? इत्यक्षरघटना। विभिन्नो देशो यासा ता विभिन्नदेशाः, ताश्च ताः क्रियाश्च विभिन्नदेशक्रियाः, वस्त्रस्योपलक्षणत्वात् कम्बलानां चास्तरण वरखकम्बलास्तरण, तस्य विभिन्नदेशक्रिया वरखकम्बलास्तरणविभिन्नदेशक्रियाः, तदादयश्च ताः कार्यकोट्यश्च तास्तथा, बढ्यश्च ता वस्त्रकम्बलास्तरणविभिन्नदेशक्रियादिकार्यकोटयश्च बहुवस्त्रकम्बलास्तरणविभिन्नदेशक्रियादिकार्यकोटय इति समासः, तासामिति / आदिशब्दः स्वगतानेकभेदख्यापकः, कार्यणां च कोटिसंख्यत्वमिहापि पूर्ववद्भावनीयमिति // 2322 // ननु यदि पूर्वमराषराणि कार्याणि निष्पद्यन्ते, संस्तारकस्तु पर्यन्तसमय एवारभ्यते, निष्पद्यते च कार्यक्रियाकालनिष्ठाकालयोरभेदात् तर्हि / कथं संस्तारकस्यैव मदीर्घः क्रियाकालो मयाऽनुभूयते ? इत्याहपइसमयकजकोडी-विमुहो संथारयाहिकयकजो। पइसमयकञ्जकालं, कहं संथारम्मि लाएसि? ||2323 / / गतार्था, नवरं संस्तारकेणाधिकृतं प्रस्तुत कार्य यरयासौ संस्तारकाधिकृतकार्य इति समासः // 2323|| तदेवं स्थविरैर्युक्तिभिः संबोध्यमाने तस्मिन् किं संजातमित्याहसो उज्जुसुयनयमयं, अमुणंतो न पडिवजए जाहे। ताहे समणा केई, उवसंपण्णा जिणं चेव / / 2324 / / पियदंसणा विपइणो-ऽणुरागओ तम्मयं चिअपवण्णा। ढंकोवहियागणिद-ढवत्थदेसा तयं भणइ // 2325 / / सावय ! संघाडी मे, तुमए दड्ड त्ति सो वि अतमाह / नणु तुज्झ डज्झमाणं, ददुति मओ न सिद्धंतो / / 2326 / / दडं न डज्झमाणं, जइ विगएडणागए व का संका ? काले तयभावाओ, संघाडी कम्मि ते दड्डा? ||2327 / / चतस्रोऽपि गाथा गतार्थाः, नवरम् ऋजुसूत्रो निश्चयनयविशषः / (पियदसणा वित्ति) आहननु पूर्वं 'सुदर्शना' इति तस्या नाम प्रोक्तं, कशमिदानीं प्रियदर्शनेत्युच्यते? सत्यं, किं त्विदमपि तस्या नाम द्रष्टव्यम् / तथा चोक्तम्-"तेयसिरिंच सुरूवं, जणइय य पियदसणं धूयं " इति। "ढकोवहिय" इत्यादि / स्वाध्यायपौरुषी कुर्वत्यास्तस्या आपाकाद् गृहीत्वा ढङ्केनोपहितः क्षिप्तो योऽग्निस्तेन दग्धो वस्त्रदेशो यस्याःसा ढकोपहिताग्निदग्धवस्त्रदेशा सती तं ढाई भणति, सोऽपि तां प्रियदर्शनामाह- "दई'' इत्यादि चतुर्थगाथाया अयं भावार्थः / ननु यदि दह्यमानं दाहक्रियाक्षणे वर्तमाने वस्त्र न दाधमिति भवद्भिरुच्यते, ततो विगते उपरते, अनागते वा भविष्यति दाहक्रियाकाले का शङ्का वस्त्रदाहविषया? तदभावाद्-दाहक्रियाया विनष्टानुत्पन्न वेन सर्वथा अभावादित्यर्थः / अतो वर्तमानातीतानागतलक्षणे कालत्रये प्युक्तयुक्तितोऽदग्धत्वात् कस्मिन् काले आर्ये ! ते तव सङ्घाटी मया दग्धेत्युच्यताम् ? इति // 2324 // // 2325||2326||2327|| अथ आर्ये ! त्वमेवं मन्यसे, किम्? इत्याह-- अहवा न डज्झमाणं, द४ दाहकिरियासमत्तीए। किरियाऽभावे दडं, जइ दढे किं न तेलुकं ? ||2328|| अथ चैवं ब्रूषे-दह्यमानं न दग्धं, किंतु दाहक्रियासमाप्तौ दग्धम्। नन्वेवं सति दाहक्रियाऽभावे दग्धमित्युक्तं भवति / एतच्चायुक्त म.यतो यदि दाहक्रियाऽभावे दग्ध, तर्हि त्रैलोक्यमपि किं न 'दग्धम्' इत्यत्रापि संबध्यते, यथा वस्त्रे तथा त्रैलोक्ये ऽपि दाह क्रियाऽभाव-स्य तुल्यत्वादिति / / 2328 / / ततः किमिह स्थितमित्याहउज्जुसुयनयचमयाओ, वीरजिणिंदवयणावलंबीणं। जुज्जेज डज्झमाणं, दटुं वोत्तुं न तुज्झ त्ति / / 2326 / / उत्तानार्था // 2326 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy