SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ जमालि 1411 - अभिधानराजेन्द्रः - भाग 4 जमालि वा। विद्यमाने हि वस्तुनि पर्यायविशेषाधानद्वारेण कथञ्चित्करणब्रियाद्युपथतएव, यथा- "आकाशं कुरु, पादौ कुरु, पृष्ठ कुरु'' इत्यादि। अविद्यामाने तु सर्वथा नायं न्यायः संभवति, सर्वथा असत्त्वात् खरविषाणवदिति / यदि च पूर्व कारणावस्थायामभूत-मसत् कार्य जायते, तर्हि मृत्पिण्डाद्घटवत् खरविषाणमपि जायमानं किं न दृश्यते, असत्त्वाविशेषाद् ? अथ खरविषाणं भवन्न दृश्यते, तर्हि घटोऽपि तथैवास्तु, विपर्ययो वेति / / 2314|| यदुक्तम्-"दीसइ दीहो य जओ''(२३११) इत्यादि, तत्राहपइसमउप्पन्नाणं, परोप्परविलक्खणाण सुबहूणं। दीहो किरियाकालो, जइ दीसइ किं त्थ कुंभस्स // 2315 / / यदि नाम प्रतिसमयोत्पन्नानां परस्परविलक्षणस्वरूपाण सुबह्वीनां शिवकस्थासकोशकुशूलादिकार्यकोटीनां क्रियाकलनिष्ठाकालयोरेकत्वेन प्रतिप्रारम्भसमयनिष्ठाप्राप्तानां दीर्घक्रियाकालो दृश्यते, तर्हि कुम्भस्य घटस्य किमत्रायातम्? इदमुक्तं भवतिमृदानयनमर्दनपिण्डविधानादिकालः सर्वोऽपि घटनिर्वर्तनक्रियाकाल इति तवाभिप्रायः / अयं चायुक्त एव / अतः तत्र प्रतिसमयमन्यान्येव कार्याण्यारभ्यन्ते, निष्पाद्यन्ते च, कार्यस्य कारणकालनिष्ठाकालयोरेकत्वात् / घटस्तु पर्यन्त समय एवारभ्यते, तत्रैव च निष्पद्यत इति कोऽस्य दी? निर्वर्तनक्रियाकालः? इति / / 2315|| अथान्यप्राक्तनकालसमयेष्वपि घटः किं न दृश्यते? इत्याहअन्नारभे अन्नं, किह दीसउ जह घडो पडारंभे / सिवकादओ न कुंभो, किह दीसऍ सो तदद्धाए॥२३१६|| अन्यस्य शिवकादेरारम्भे अन्य घटलक्षणं कार्य कथं दृश्यते? न हि पटारम्भे घटः कदाचिदपि दृश्यते / अतः किमुच्यते- 'नारंभे चिय दीसई' त्ति / शिवकादयोऽपि कुम्भरूपा न भवन्ति,किं तु ततोऽन्य एवेति कथं तदद्धायामप्यसौ कुम्भो दृश्यते? अतएवतदप्यज्ञतया प्रोच्यते "न सिवादद्धाए" इति // 2316 / / यत्तूक्तम्-"दीसइ तदंते' इति, तत्राहअंते चिअ आरद्धो, जह दीसइ तम्मि चेव को दोसो ? अकयं व संपइ गए, कह कीरउ कह व एस्सम्मि? // 2317|| अन्त एव क्रियाक्षणे प्रारब्धो घटो यदि तत्रैव दृश्यते तर्हि को दोषः? न कश्चिदित्यर्थः / यदुक्तम्- "तो न हि किरियाकाले' इत्यादि। तत्राह"अकयं वा'' इत्यादि / यदि च संप्रति वर्तमान-क्रियाक्षणे न कृतं कार्यमितोष्यते तदा गते अतिक्रान्ते, एष्यति-अनागते च क्रियाक्षणे कथं नाम तत्कार्य क्रियताम्? न कथञ्चिदित्यर्थः / तथाहि-नातीतभविष्यत्क्रियाक्षणी कार्यकारको, विनष्टानुत्पन्नत्वेनासत्त्वात् / खरविषाणवत्, अतः कथं क्रियान्ते कार्य स्यात्? तस्मास्क्रियामाणमेव कृतमिति / यदि च क्रियमाणमपि न कृतं. कतर्हि कृतमिति वक्तव्यम् ? क्रियाविगम इति चेत्। तदयुक्तम् / तदानीं क्रियाया असत्त्वात्तदसत्त्वेऽपि च कार्योत्पताविष्यमाणायां क्रियारम्भात्प्रागपि कार्योत्पत्तिः स्यात्, क्रिया - सत्त्वाविशेषाद् / अथ संप्रतिसमयः क्रियमाणकालः, सदनन्तरस्तु कृतकालो, नचं क्रियमाणकाले कार्यमस्ति, इत्यतः खल्वकृतं क्रियते, | नतु कृतमित्यभिधत्से।नन्येतदिह प्रष्टव्योऽसि-किं भवतः कार्य क्रियया क्रियते, उत तामन्तरेणाऽपि भवति? यदि क्रियया, तर्हि कथं साऽन्यत्र समये, अन्यत्र तु कार्यम्? न हि खदिरे छेदनक्रियायां पलाशे छेदः सदुपजायते। किं च- "क्रियोपरमे कार्य भवति, न तु क्रियासद्भावे" इति वदता प्रत्युत कार्योत्पत्तेर्विघ्नहेतुः क्रियेति प्रतिपादितं भवति / ततश्च कारणमप्यकारणमिति प्रत्यक्षादिविरोधः। अथ क्रियामन्तरेण कार्यमुपजायते इत्यभ्युपगम्यते, तर्हि घटादिकार्यार्थिनां निरर्थकः सर्वोऽपि मृन्मर्दनपिण्डविधान-चक्रारोपणभ्रमणादिक्रियारम्भः, अतोन कर्तव्यं मुमुक्षुभिरपि तपः संयमादिक्रियानुष्ठानं, तदनन्तरेणापि मुक्तिसुखसिद्धेः / न चैवम्, तस्मात् क्रियाकाल एव कार्य , न पुनस्तदुपरम इति / / 2317|| पुनरप्याह-ननु मृदानयनतन्मर्दनादिकश्चक्रादिच्छिन्नताकरणकार्यपर्यन्तो दीर्घ एव मया घटनिवर्तनक्रियाकालोऽनुभूयते, नतु यत्रैव समये प्रारभ्यते तत्रैव निष्पद्यत इत्यनुभूयते, तदेतत्कथ-मित्याहपइसमयकज्जकोडी-निरवेक्खो घडगयाहिलासो सि। पइसमयकजकालं, थूलमई ! घडम्मि लाएसि // 2318|| हन्त ! यद्यपि प्रतिसमयमन्यान्यरूपाः कार्यकोटयः तत्रोत्पद्यन्ते, तथाऽपि तन्निरपेक्षस्त्वम्-निष्प्रयोजनत्वेनाविवक्षितत्वादुत्पद्यमाना अपितास्त्वं न गणयसीत्यर्थः / कुतः? यस्माद् घटगताऽभिलाषोऽसि, सप्रयोजनत्वेन तस्यैव प्रधानतया विवक्षितत्वात्। 'घट इहोत्पत्स्यते' इत्येवं तत्रैव तवाभिलाषः, अतः प्रतिसमयकार्यकोटीनामदर्शकत्वेन स्थूलमते ! प्रतिसमयकार्यसंबन्धिनमपि कालं सर्वमपि घटे लगयसि'सर्वोऽप्ययं घटोत्पत्तिकालः' इत्येवमध्य-वस्यसि, त्वमित्यर्थः, अतो मिथ्यानुभवोऽयं तवेत्यभिप्रायः, एकसामयिक एव घटोत्पत्तिकाले बहुसामयिकत्वग्रहणेन प्रवृत्तेः। अत्राह-ननु प्रतिसमयं कार्यकोटय उत्पद्यमानास्तत्र न काश्चन् संवेद्यन्ते, किं त्वपान्तराले शिवकस्थासकोशादीनि कानिचिदेव कार्याणि संवेद्यन्ते। सत्यम्, किं तु स्थूलान्येव शिवकादिकार्याणि, यानि तु प्रतिसमयभावीनि सूक्ष्मकार्याणि तानि छद्मस्थो व्यक्त्या नावधारयितुं शक्नोति, परं प्रतिसमयकार्याणां ग्राहकाण्यनन्त-सिद्धकेवलिना ज्ञानान्युत्पद्यन्ते, तान्यपि तत्रापान्तराले कार्या–ण्येव, इति घटन्त एव प्रतिसमयं कार्यकोटय इति॥२३१८|| अत्र प्रेरकः प्राहको चरमसमयनियमो, पढमे चिय तो न कीरए कजं / नाकारणं ति कजं, तं चेवं तम्मि से समए / / 2319 / / ननु यदि कार्यस्य दीर्घः क्रियाकालो नेष्यते, किं त्वेकसामायिक एव, तर्हि कोऽयं चरमसमयनियमो, येन तत्रैवोत्पद्यते घटादिकार्यम्-नघटत एवायं नियम इत्यर्थः / तत एतन्नियमाभा-वात् किं प्रथमसमय एव कार्य न क्रियते ?-अपितु क्रियत एवेति काक्वा नीयते। अत्रोत्तरमाह-अकारणं कार्य न भवति, तचान्त्यसमये, एव (से) तस्य घटस्य कारणमस्ति, न तत्प्रथमसमये, अतः कथं तत्रोत्पद्यते? अन्वयव्यतिरेकसमधिगम्यो हि कार्यकारणभावः, अन्वयव्यतिरेकाभ्यां चान्त्यसमय एव घटादेः कारण लक्ष्यत इति तत्रैव तदुत्पद्यत इति युक्त एव घरमसमयनियम इति // 2316 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy