SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ तिगिच्छा 2238 - अभिधानराजेन्द्रः - भाग 4 तिगिच्छा तत्र सूक्ष्मा औषधविधिवैद्यज्ञापनेन / बादरा स्वयं चिकित्साकरणेन, अन्यस्मात्कारणेन च। तत्र कश्विज्जराऽऽदिरोगाऽऽक्रान्तो गृही भिक्षाऽऽद्ययं गृहे साधुं प्रविष्ट दृष्ट्वा पृच्छति-भगवन् ! एतस्य मदीयव्याधेर्जानीषे कमपि प्रतीकारमिति। स प्राऽऽह-भोः श्रावक! यादृशस्तवाऽयं रोगस्तादृशो ममाऽप्येकदा संजात आसीत् / स चामुकेनौषधेन ममोपशमं गत इति / एवं चाज्ञस्य गृहस्थस्य रोगिणो भैषज्यकरणाभिप्रायोत्पादनादौषधसूचनं कृतम् / अथवा रोगिणा चिकित्सां पृष्टो वदति- 'किमह वैद्यो, येन रोगप्रतीकारं जाने?" इति। एवं चोक्ते रोगिणोऽनभिज्ञस्य सतोऽस्मिन् विषये वैद्य पृच्छेति सूचनं कृतमिति सूक्ष्मचिकित्सा / यदा तु स्वयं वैद्यभूय साक्षादेव वमनविरेचनक्वाथाऽऽदिकं करांति, कारयति वा अन्यस्मात्तदा बादरा चिकित्सेति / एवमुपकृतो हि प्रमुदितो गृही मम भिक्षां प्रकृष्टां दास्यतीति यतिरिमा द्विविधामपि कुरुते, न चैव तुच्छपिण्डकृते व्रतिनां कर्तुमुचितम्, अनेकदोषसंभवात् / तथाहिचिकित्साकरणकाले कन्दफलमूलाऽऽदिजीववधेन वाथकथनाऽऽदिपापव्यापारकरणादरायमो भवेत् / तथा-नीरुक कृतो गृहस्थः तप्तायो-गोलकसमानः प्रगुणीकृतदुर्वलान्धव्याघ्रवदनेकजीवघात कुर्यात् / तथा यदि देवदुर्योगात्साधुना चिकित्स्यमानस्थाऽपि रोगिणो व्याधेराधिक्य जायते, तदा कुपितस्तत्पुत्राऽऽदिराकृप्य राजकुला-- ऽऽदौ ग्राहयेत / तथाऽऽहाराऽऽदिलुब्धा एते इत्थमित्थं च वैद्यकाऽऽदि कुर्वन्ति, इति प्रवचनमालिन्यं स्यादिति / / 6 / / प्रव०६७ द्वार / पिं०। पञ्चा०। विशे०। द्रव्योषधाऽऽधुपयोगतः पीडापशमे, आचा०१ श्रु०६ अ०४ उ० ग०। चिकित्सया पिण्डोत्पादनम् / उत्पादनादोषभेदे, स्था०३टा०४उ०। पञ्चा०। चउव्यिहा तिगिच्छा पण्णत्ता। तं जहा-विझा, ओसहाई, आउरे, परियारए / ''चउव्विहा'' इत्यादि कण्ठ्यम् / नवरं चिकित्सा रोगप्रतीकारस्तस्याश्चातुर्विध्यं कारणभेदादिति। ___एतत् सूत्रसम्वादकमुक्तमपरैरपि"भिषग्द्रव्याण्युपस्थाता, रोभी पादचतुष्टयम्। चिकित्सितस्य निर्दिष्टं, प्रत्येक तचतुर्गुणम् / / 1 / / दक्षो विज्ञातशास्त्रार्थो दृष्टकर्मा शुचिभिषक। बहुकल्पं बहुगुणं, सम्पन्न योग्यमोषधम् / / अनुरक्तः शुचिर्दक्षो. बुद्धिमान परिचारकः / आढ्यो रोगी भिषग्वश्यो, ज्ञापकः सत्त्ववानपि // 3 / / इति / इयं / द्रव्यरोगचिकित्सा। भावरोगचिकित्सा त्वेवम्"निव्विगइ निब्बलोमे, तवउव्वट्ठाणमेव उभामे। वेयावच्चाहिंडण-मंडलिकप्पट्टियाऽऽहरणं / / 1 / / " इति। निलं बल्लाऽऽदि, अवममूनम्, उद्धामो भिक्षाप्रमणम्, आहिण्डन देशेषु, मण्डलो सूत्रार्थयोः (कप्पट्टिया) श्रेष्ठियधूरिति। स्था० 4 04 उ०। जे भिक्खू तिगिच्छापिंडं भुंजइ, भुजंतं वा साइजइ // 64 / / रोगावणयणं तिगिच्छा, तं जोगं करेति गिहिस्स / तरस आणादिणी दोसा, चउलहु च पच्छित्तं। जे भिक्खु तिगिच्छपिंडं, भुंजेज सयं तु अहव सातिज्जे / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे / / 170 / / नि०चू० 13 उ०। चिकित्साद्वारमाहभणइ य नाहं विद्धो, अहवा वि कहेइ अप्पणो किरियं / अहवा वि वेज्जयाए, तिविह तिगिच्छा मुणेयव्वा / / इह चिकित्सा रोगप्रतीकारो, रोगप्रतीकारोपदेशो वा विवक्षिता / ततः साधूनधिकृत्य त्रिविधा त्रिप्रकारा चिकित्सा ज्ञातव्या। तद्यथा-केनापि रोगिणा रोगप्रतीकारे साधुः पृष्टः सन्नाह-किमहं वैद्यः? एतावताच किमुक्तं भवति? वैद्यस्य समीपे गत्वा चिकित्सा प्रष्टव्या, इत्यबुधबोधनादेका चिकित्सा। अथवा रोगिणा पृष्टः सन्नेवमाह-ममाप्येवंविधोव्याधिरासीत्, स चामुकेन भेपजेनोपशान्तिमगमत्, एषा द्वितीया चिकित्सा / अथवावैद्यतया वैद्यीभूय साक्षात चिकित्सां करोति, एषा तृतीया। इहाऽऽद्ये द्वे चिकित्से सूक्ष्मे, तृतीया तु बादरा। तत्राऽऽद्यां व्याचिख्यासुराहभिक्खाइगओ रोगी, किं विजोऽहं ति पुच्छिओ भणइ। अत्थावत्तीऍ कया, अबुहाणं बोहणा एवं / / भिक्षाऽऽदो भिक्षाऽऽदिनिमित्त गतः सन् (रोगी इति) अत्र तृतीयार्थ प्रथमा, रोगिणा पृष्टः सन्नाह-किमहं वैद्यो येन कथयामि? एवं चोक्ते सति अर्यापत्त्या सामर्थ्यात, अबुधानां वैद्यस्य पार्श्वे गत्वा चिकित्सा कार्यत' इत्यजानता, बोधना अनन्तरोक्तस्यार्थस्य ज्ञापना कृता भवति। द्वितीयां व्याख्यानयतिएरिसयं चिय दुक्खं, भेसज्जेण अमुगेण पउणं मे / सहसुप्पन्नं व रुयं, वारेमो अट्ठमाईहिं। एतादृशमेव दुःखं दुःखकारणभूतं गण्डाऽऽदि, अगुकेन भेषजेन प्रगुणं नष्टवेदनमभूत्। तथा वयं सहसोत्पन्नामकस्मादुत्पन्नां रुजमष्टमाऽऽदिभिरियामः। "तत्थोप्पन्न रोग, अट्टण निवारए'' इत्यादिपरममुनिवचनप्रामाण्यात् / तस्मात् भवताऽपि तथा कर्तव्यमिति भावः / तृतीयां चिकित्सा प्रपञ्चयितुमाहसंसोधण संसमणं, नियाणपरिवजणं च जं तत्थ। आगंतु-धाउखोभे, य आमए कुणइ किरियं तु / / आगन्तुके धातुक्षोभे च सूचनात्सूत्रमिति कृत्वा धातुक्षोभजे च आमये रोगे समुत्पन्ने सतितत्र यत्क्रियां करोति। तद्यथा-संशोधन हरीतक्यादिदानेन, पित्ताऽऽद्युपशमनं संशमनं, तथा निदानपरिवर्जन रोगकरेण परिवर्जन च। एषा तृतीया चिकित्सा। अत्र दोषानाहअस्संजमजोगाणं, पसाधणं कायघाओं अयगोलो। दुब्बलवग्घाऽऽहरणं, अब्भुदए गेण्हणुड्डाहो / / असंयमयोगानां सावद्यव्यापाराणां प्रसाधन सातत्येन प्रवर्तनम्दिं चिकित्साकरण, ततो गृहस्थस्तप्तायोगोलकसमानः, ततस्तेन नीरोगीभूतेन ये कायघाता यावज्जीव प्रवत्यन्ते, ते सर्वेऽपि साधुचिकित्साप्रवर्तिता इति / चिकित्साकरणंसातत्यनासंयमयोगानां निवन्धनम्। तथा चात्रदुर्वलव्याभदृष्टा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy