________________ तावक्खेत्त 2232 - अभिधानराजेन्द्रः - भाग 4 तावक्खेत्त स्वशिष्याणां स्पष्टावबोधनार्थ भूयः पृच्छति-(तत्थेत्यादि) तत्र तस्यामेवंविधायामनन्तरोदितायां वस्तुव्यवस्थायां को हेतुः का उपपत्तिरिति भगवान् वदेत्? एवमुक्ते भगवानाह- (ता अयं णमित्यादि) इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण स्वयं परिभावनीयन / (ता जया णमित्यादि) तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चार चरति, तदा "उद्धीमुहकलंबुयापुप्फ' इत्यादि प्राग्वव्याख्येयम्। यावत्सर्वाभ्यन्तरा बाहा, सर्वबाह्या च बाहा। (तीसे णमित्यादि) तस्यास्तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुपर्वतसमीपे, साचपरिक्षेपेण मन्दरपरिक्षेपगततया नव योजनसहस्राणि चत्वारि योजनशतानि पडशीतानि षडशीत्यधिकानि नव च दश भागा योजनस्य 6486 -6/10, आख्याता मया इति वदेत्। एवमुक्ते भगवान् गौतमः प्रश्नयति-(ता से णमित्यादि) 'ता' इति प्राग्वत् / स तापक्षेत्रसंस्थितेः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपेण विशेषः कुतः कस्मात्कारणादेवंप्रमाण आख्यातः, नोनोऽधिको वेति वदेत्? भगवानाह-(ता जे णमित्यादि) 'ता' इति पूर्ववत / यो, णमिति वाक्यालड़कारे / मन्दरस्य मेरोः पर्वतस्य परिक्षेपपरिरयो गणितप्रसिद्धः, तंपरिक्षेपं त्रिभिर्गुणयित्वा तदनन्तरं च दशभिश्छित्त्वा विभज्य / अथ कस्मादेवं क्रियत इति चेदुच्यते-इह सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो जम्बूद्वीपगतस्य चक्रवालस्य यत्र तत्र प्रदेशे तत्तच्चक्रवालक्षेत्रप्रमाणानुसारेण त्रीन् दशभागान प्रकाशयति / एतच प्रागेवोक्तम / सम्प्रति च मन्दरसमीपे तापक्षेत्रे चिन्ता क्रियमाणा वर्तते, ततो मन्दरपरिरथसुखावबोधार्थ प्रथमतस्विभिर्गुण्यते. गुणयित्वा च दशभिर्विभज्यत इति, दशभिश्च भागैर्हियमाणे यथोक्तं मन्दरसमीपे तापक्षेत्रपरिमाणमागच्छति / तथाहि-मन्दरपर्वतस्य विष्कम्भो दशसहस्राणि 10000 / तेषां वर्गो दश कोट्यः 100000000 / तासां दशभिर्गुणने कोटिशतम्- 1000000000 / अस्य वर्गमूलानयने लब्धानि एकत्रिंशत्सहस्राणि षट्शतानि किञ्चिन्न्यूनत्रयोविंशत्यधिकानि,परं व्यवहारतः परिपूर्णानि विवक्ष्यन्ते 31623 / एष राशिरि भिगुण्यते, जातानि चतुर्नवतिसहस्राणि अष्टौ शतानिएकोनसप्तत्यधिकानि 14866 / एतेषां दशभिर्भागहारे लब्धानि नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा योजनस्य, तत एप एतावाननन्तरो दितप्रमाणः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत् स्वशिष्येभ्यः / अयं चार्थो ऽन्यत्राप्युक्तः-''मन्दरपरिरयरासी, तिगुणो दसभाइयम्मि ज लद्धं / तं होइ तावखेत्तं, अभिंतरमंडले रविणो // 1 // तदेयं सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये मन्दरसमीपेतापक्षेत्रसंस्थितिः सर्वाभ्यन्तरवाहाविष्कम्भपरिमाणमुक्तम् / इदानी लवणसमुद्रदिशि जम्बूद्वीपपर्यन्त या सर्वबाह्या बाहा, तस्या विष्कम्भपरिमाणमाह-(तीसे णमित्यादि) तस्यास्तापक्षेत्रसंस्थितेलवणसमुद्रान्ते लवणसमुद्रसमीधे सर्ववाह्या बाहा सा परिक्षेपेण जम्बूद्वीपपरिरय-परिक्षेपेण चतुर्नवतियोजनसहस्राणि अष्टो च अष्टषष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान योजनस्य 64868-4/10 यावदाख्याता इति वदेत्। अत्रैव स्पशवोधनाय प्रश्न करोति-(ता एस णमित्यादि) ता' इति पूर्ववत / स एतावान परिक्षेपविशेषस्तापक्षेत्रसंस्थितेः कुतः कस्मात् कारणादाख्यातः, नोनोऽधि.. | को वेति वदेत्? भगवानाह-(ता जे णमित्यादि) 'ता' इति पूर्ववत्। योजम्बूद्वीपस्य परिक्षेपपरिरयो गणितप्रसिद्धः, तंपरिक्षेपं त्रिभिर्गुणयित्वा तदनन्तरं दशभिश्छित्त्वा दशभिर्विभज्य, अत्रार्थे कारणं प्रागुक्तमेवानुसरणीयम्। दशभिर्भाग ह्रियमाणे यथोक्तं जम्बूद्वीपपर्यन्ते तापक्षेत्रपरिमाणमागच्छति / तथाहि-जम्बूद्वीपस्य परिक्षेपस्त्रीणि लक्षाणि. पोडश सहस्राणि, द्वे शते, सप्तविंशत्यधिके 316227, त्रीणि गव्यूतानि 3 अष्टाविंशं धनुःशतं 128, त्रयोदश अडलानि 13 एकम ङ्गुलम्? एतावता च योजनमेकं किल किञ्चिन् न्यूनमिति व्यवहारः, तत् परिपूर्ण विवक्ष्यते, ततो वे शते अष्टाविंशत्यधिके वेदितव्ये 316228, एतत् त्रिभिर्गुण्यते, जातानि नव लक्षाणि, अष्टाचत्वारिंशत्सहस्राणि, षट शतानि चतुरशीत्यधिकानि६४८६८४। एतेषां दशभिर्भागा हियते. लब्धं यथोक्तं जम्बूद्वीपपर्यन्ते सर्वबाह्याया बाहाया विष्कम्भपरिमाणम् / तत (एस णमित्यादि) एष एतावाननन्तरोदितप्रमाणः परिक्षेपविशेषो जम्बूद्वीपपरिरयपरिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत् / उक्त चैतदन्यत्रापि-''जंबूदीवपरिरए, तिगुणे दसभाइयम्मि ज लद्धं / त होइ तावखितं, अभिंतर मंडले रविणो" ||1|| तदेवं जम्बूद्वीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरायाः सर्वबाह्यायाश्च बाहाया विष्कम्भपरिमाणगुक्तम्। सम्प्रति सामस्त्येनाऽऽयामतस्तापक्षेत्रपरिमाण जिज्ञासुस्तद्विषय प्रश्नसूत्रमाह-(ता से णमित्यादि) 'ता' इति पूर्ववत्। तापक्षेत्रमायामतः सामस्त्येन दक्षिणोत्तराऽऽयततया कियत्किप्रमाणमाख्यातम, इति वदेत्? भगवानाह-(ता अट्टत्तरिमित्यादि) 'ता' इति पूर्ववत्, अष्टसप्ततिर्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि त्रयस्त्रिशदधिकानि योजनविभागं च यावत् आयामेन दक्षिणोत्तराऽऽयततया आख्यातमिति वदेत्। तथाहि-सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य तापक्षेत्र दक्षिणोतराऽऽयततया मेरोरारभ्य तावद्वर्द्धत यावल्लवणसमुद्रस्य षष्ठो भागः। उक्तं च - "मेरुस्स मज्झभागा, जाव लवणसमुदस्स छन्भागो। तावाऽऽयागो एसो, सगडुद्धीसंठिओ नियमा / / 1 / / " अत्र-(एसो इत्यादि) एष तापो नियमात शकटोरांस्थितन, शेष सुगमम् / तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्ते यावत् पञ्चचत्वारिंशद्योजनसहस्राणि लवणस्य विस्तारो द्वे योजनलक्षे तयोः षष्ठो भागस्त्रयस्त्रिंशद्योजनसहखाणि त्रीणि योजनशतानि, त्रयस्त्रिंशदधिकानि योजनस्य च त्रिभागः, तत उभयमीलने यथोक्तमायामप्रमाणं भवति। इह सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य लेश्या अभ्यन्तरं प्रविशति, मेरुणा प्रतिस्खल्यते, यदि पुनर्न प्रतिस्खल्यते, ततो मेरोः सर्वमध्यभागगतं प्रदेशमवधीकृत्याऽऽयामतो जम्बूद्वीपस्य पञ्चाशत योजनसहस्राणि प्रकाशयेत् / अत एवेत्थं जम्बूद्वीपस्य पञ्चाशतं योजनसहस्राणि प्रकाश्यानि संभाव्यन्ते, सर्वाभ्यन्तरेऽपि मण्डले वर्तमाने सूर्य तापक्षेत्रस्याऽऽयामप्रमाणं ज्योतिष्फरण्डकडूलटीकायां श्रीपादलिप्तसूरिभिः त्र्यशीतियोजनसहसाणि त्रीणिशतानि त्रयस्त्रिंशदधिकानियोजनस्य च त्रिभाग इत्युक्तम् / युक्तं चैतत्संभावनया तापक्षेत्राऽऽयामपरिमाणम्, अन्यथा जम्बूद्वीपमध्ये तापक्षेत्रस्य पञ्चचत्वारिंशत्सहस्रपरिमाणाभ्युपगमे यथा सूर्यो बहिर्निष्कामति तथा तत्प्रतिबद्धं तापक्षेत्रमपि, ततो यदा सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चार चरति, तदा सर्वथा मन्दरसमीपे प्रकाशोनप्राप्नोति। अथथ