________________ तारा 2226 - अभिधानराजेन्द्रः - भाग 4 तारा रापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश / तया च विह्नः प्रत्यभिज्ञाय निवेदितो जम्बुवदादिमन्त्रिमण्डलस्य / तत्र सुग्रीवद्वयमुपलभ्य किमिदमाश्चर्यमिति विस्मयं जगाम / ततश्च- "निराडिया य दोन्नि वि. पुरओ ते मंतिवग्गवयणेण / जुज्झाति मच्छरण य, वलिता एस अलियसुग्गीवो / / 1 / / " ततश्चासौ सत्य-सुग्रीवो हनुमदभिधानस्य महाविद्याधरराजस्य नत्वा निवेदयति स्म। स त्वागत्य तयार्विशेषमजानन्नकृतोपकारः स्वपुरमगमत् / ततश्च लक्ष्मणविनाशितखरपणसंबन्धिनि पाताललवापुरे राज्यावस्थं राममेवमालोक्य शरणं प्रपन्नः / मनग्न सह गतः सलक्ष्मणो रामः किष्किन्धापुरे स्थितो बहिः। कृतश्व सुग्रीवेल बाहुशब्दः, तमुपश्रुत्य समागतोऽसावलीकसुग्रीवा रथाधिरूढो रणरसिकः सन्। तयोर्विशेषमजानन् तरलं च रामश्च स्थित उदारीनः / कदर्थितः सुग्रीव इतरेण / रामस्य गत्वा निवेदितं सुग्रीवेणदेव ! तरा पश्यतोऽप्यह कदर्थितः। तेन रामेणोक्ता-कृतचिह्नः पुनर्युदयस्व / ततोऽसौ पुनर्युङ्ग्यमानो रामेण शरप्रहारेण पशत्वमाणदितः सुग्रीवश्व सारवा सह भोगान् बुभुजे: प्रश्न०४ आश्रद्वार। दर्शा ज्योतिष्क दे, स्था०५ ठा०१उ०। सा ज्योतिर्विमानरूपे. कृत्तिकाऽदिषु च नक्षत्रेषु, (ताराप्रमाणं णक्खतं' शब्दे चाऽरिमन्नेव भागे 1771 पृष्ठ, 'चर' शब्द तृतीय भागे 1064 पृष्ठ उक्तम् ) "छप्पंच तिन्नि एगं, घउ तिग रस वेय जुयल जुयल च। इंदिय एग एणं, विसवग्गि उ समुद्द वारसग / / 1 / / चउरा तिय तिय पंच य, सत्त ये वे भवे तिया तिन्नि / रिक्खे तारपमाण, जइ तिहितुल्लं हयं कर्ज / / 2 / / " इति। इह चैकरथानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽग्रेतनाध्ययनेषु तद्वक्ष्यति, यस्तु छचिद्विसंवादस्ताराप्रमाणस्य तथाविधप्रयोजनेपु तिथिविशेषस्य नक्षत्रविशेषयुक्त--स्याशुभत्वसूचनाथत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न वाधक इति ! स्था०१ ठा०। "तारारुवे चलेजा।'' स्था०३ ठा०१३०। अश्वि-यादिनक्षत्रेषु, (सत्र०) नक्षत्रे,सूत्र०१श्रु०६अ। तिहिं ठाणेहिं तारारूवे चलेजा-विकुव्वमाणे वा, परियारेमाणे वा, ठाणाओ वा ठाणं संकममाणे तारारूवे चलेजा / / (तिहिं इत्यादि) (तारारूवे त्ति) तारकमात्रम, (चलेआ) स्व-स्थान त्यजेत्, वैक्रियं कुर्वद्वा (परिचारेमाणे धा) मैथुनार्थ संरम्भयुक्तमित्यर्थः / स्थानकाद्वैकस्मात् स्थानान्तरं संक्रामद् गच्छदित्यर्थः / यथा धातकीखण्डाऽऽदि गेरुं परिहरदित्यर्थः / अथवा क्वचिन्महर्दिक देवाऽऽदी चमरवद्वैकियाऽऽदि कुर्धति सति तन्मार्गदानार्थ चलेदिति / उक्तश"तत्थ णं जे से वाघाइए अंतरे से जहण्णेणं दोन्नि छावट्ठिजोयणसए, उकोसेण वारसजोयण-सहस्साइं / '' इति / तत्र व्याधातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति। स्था०३ ठा०१३०। परशुराममारितस्य कार्तवीर्यस्य भार्यायामष्टमचक्रवर्तिनः सुभूमस्य मातरि, आ०म०१ अ०२ खण्ड। स०! आव०। जम्बूद्वीपे मन्दरस्योत्तरे रक्तानदीसड़तायां महानद्याम्, स्था०१० ठा०ा योगदृष्टिभदे. द्वा०। तारायां तु मनाक् स्पृष्टं, दर्शनं नियमाः शुभाः। अनुद्वेगो हिताऽऽरम्भे, जिज्ञासा तत्त्वगोचरा / / 1 / / (तारायाभिति) तारायां पुनर्दृष्टौ मनागीषत् स्पृष्ट मित्रापेक्षया दर्शन शुभाः प्रशस्ता नियमा वक्ष्यमाणा इच्छाऽऽदिरूपाः। तथा-हिताऽऽरम्भे पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणेऽनुद्वेगः / ता-तत्त्वगोचरा तत्त्वविषया, जिज्ञासा ज्ञातुमिच्छा। अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यात्॥१॥ नियमाः शौचसन्तोषी, स्वाध्यायतपसी अपि। देवताप्रणिधानंच, योगाऽऽचार्य रुदाहृताः।।२।। (नियमा इति) शौच शुचित्वं, तद् द्विविधम्-बाहाम्, आभ्यन्तरं च / वाहां मृजलाऽऽदिभिः कायप्रक्षालनम्, आभ्यन्तरं मैत्राःऽदि-भिश्चित्त - गलप्रक्षालनम्। सन्तोषः सन्तुष्टिः, स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः, तपः कृच्छ्चान्द्रायणाऽऽदि, देवताप्रणिधानमीश्वरप्रणिधानमसर्वक्रियाणां फलनिरपेक्षतयेश्वरसमर्पणलक्षणम् / एते योगाऽऽचार्य : पतञ्जल्यादिभिर्नियमा उदाहृताः / यदुक्तम्-'"शौचसन्तोपतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः।" (2-32) इति // 2 / शौचभावनया स्वाङ्ग-जुगुप्साऽन्यैरसङ्गमः। सत्त्वशुद्धिः सौमनस्यैकाण्याऽक्षजययोग्यताः / / 3 / / (शौथेति) शौचस्य भावनया स्वाङ्गस्य स्वकायस्य कारणरूपपर्यालोयनद्वारेण जुगुप्सा घृणा भवति, "अशुचिरय कयो नात्राऽऽग्रहः कर्तव्यः / '' इति / तथा चान्यैः कायवद्भिरसङ्गमस्तत्सपर्कपरिवर्जनमित्यर्थः / यः किल स्वयमेव कायं जुगुप्सते, दरोंदवद्यदर्शनात्, स कथं परकीयस्तथाभूतः कार्यः ससर्गमनुभवति? तदुतम्-'शौचात स्वाङ्गजुगुप्सा परैरसंसर्गः।" (2-40) इति। तथा स्त्वस्य प्रकाशसुखाऽऽत्मकस्य ,शुद्धीरजस्तमोभ्यामनभिभवः। सौमनस्यं रखेदानन्भयेन मानसी प्रीतिरैकाग्य नियते विषये चेतसः स्थैर्यम्, अक्षाण मिन्द्रियाणां जयो विषयपराङ्मुखानां स्वात्मन्यवस्थान, योग्यता चान्मदर्शने विवेकख्यातिरूपे समर्थत्वम्। एतावन्ति फलानि शौचभा धनयव भवन्ति / तदुक्तम- 'सुसत्त्वशुद्धिसौमनस्यैकाग्येन्द्रियजयाऽऽत्मदर्शन-योग्यस्वानि चेति।" (2-41) ||3|| संतोषादुत्तमं सौख्यं, स्वाध्यायादिष्टदर्शनम्। तपसोङ् गाक्षयोः सिद्धिः, समाधिः प्रणिधानतः॥४|| (संतोषादिति) संतोषात् स्वभ्यस्ताद्द्योगिन उत्तममतेशयितं सौख्य भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनापि न लमम् / तदाह"संतोषादनुत्तमः सुखलाभः" (2-42) स्वाध्यायात् स्वभ्यस्तादिष्टदर्शनं जप्यमानमन्त्राभिप्रेतदेवतादर्शनं भवतितदाह-"स्वाध्यायादिष्टदेवतासंप्रयोगः (2-44) तपसः स्वभ्यस्तात् क्लेशाऽऽद्यशुचिक्षयद्वाराऽङ्गाक्षयोः कायेन्द्रिययोः सिद्धिः, यथेत्थमणुत्वमहत्त्वाऽऽदिप्राप्तिसूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यत् / यथोक्तम्''कायेन्द्रियसिद्धिरशुचिक्षयात् तपसः / " (2-43) / प्रणिधानात् ईश्वरप्रणिधानात् समाधिः स्याद, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान क्लेशान परिहत्य समाधिमुद्बोधयतीति। यथोक्तम्- "समाधिसिद्धिरीश्वरप्रणिधानादिति / " (2-45) तपः स्वाध्याये श्वरप्रणिधानानां त्रयाणामपि च शोभनाध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिवन्धद्वारा समाध्यनुकूलत्वमेव श्रूयते / यधोक्तम् -- 'तपः