________________ तसकाय 2216 - अभिधानराजेन्द्रः - भाग 4 तसकाय राभिधानात्त्रसकाये नियुक्तिः कीर्तितैषा सकला भवतीत्यवगन्तव्येति। साम्प्रतं सूत्रानुगमेऽस्खलिताऽऽदिगुणपेतं सूत्र मुचारणीयम् / तत्रेदम्संतिमे तसा पाणा। तं जहा-अंडया, पोयया, जराउया, रसया, संसेयया, संमुच्छिमा, उन्भियया, उववाइया / / 63 / / सन्ति विद्यन्ते त्रस्यन्तीति उसाः प्राणिनो द्वीन्द्रियाऽऽदयः / ते च कियद्भेदाः किंप्रकाराश्चेति दर्शयति-तद्यथेति वाक्योपन्यासार्थः / यदि वा-तत्प्रकारान्तरमर्थतो यथा भगवत्प्रऽभिहितं तथाऽहं भणामीति / (आचा०) एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निपतन्ति, नैतद् व्यतिरेकेणान्ये सन्ति / एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनाऽऽदिजनप्रत्यक्षप्रमाणसमधिगम्याः, सन्ति चानेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते सानाम्। नकदाचिदेतैर्विरहितः संसारः संभवतीत्येतदपि दर्शयतिएस संसार त्ति पवुचइ, मंदस्स अवियाणओ निजाइत्ता, पडिले हित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिंजीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महन्भयं दुक्खं ति बेमि // 2 // एष अण्डजाऽऽदिप्राणिकलापः संसारः प्रोच्यते, नाऽतोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति / कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह-(मंदस्सावियाणओ) मन्दो द्विधाद्रव्यभावभेदात्। तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिलः, कुशास्त्रवासितबुद्धिर्वा। अयमपि सदबुद्धेरभावाबालएव। इह भावमन्देनाधिकारःमन्दस्येति बालस्याविशिष्ट बुद्धः, अत एवाविजानतो हिताहितप्राप्तिपरिहारशून्यमनस इत्येषोऽनन्तरोक्तः संसारो भवतीति। यद्येवं ततः किमित्याह- (निजाइत्तेत्यादि) एवमिमं त्रसकायमार्ग बालाङ्ग नाऽऽदिप्रसिद्धं निश्चयेन ध्यात्वा निर्व्याय, चिन्तयित्वेत्यर्थः / क्त्वाप्रत्ययस्योत्तरक्रियापेक्षया ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति पूर्ववत्। मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति-(पडिलेहित्त त्ति) प्रत्युपेक्ष्य दृष्ट्वा यथावदुपलभ्येत्यर्थः / किं तदिति दर्शयतिप्रत्येकमित्येकमेकं त्रसकायं प्रति परिनिर्वाणं सुखं, प्रत्येकसुखभाजः सर्वेऽपि प्राणिनो नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः / एष च सर्वप्राणिधर्म इति दर्शयतिसर्वेषां प्राणिनां द्वित्रिचतुरिन्द्रियाणा, तथा सर्वेषां भूतानां प्रत्येकसाधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां गर्भव्युत्क्रान्तिकसंमूर्छनजौपपातिकपशेन्द्रियाणां, तथा सर्वेषां सत्त्वानां पृथिव्यायेकेन्द्रियाणामिति / इह च प्राणाऽऽदिशब्दानां यद्यपि परमार्थतोऽभेदः, तथापि उक्तन्यायेन भेदो द्रष्टव्यः / उक्तं च- ''प्राणा द्वित्रिचतुश्चोक्तः, भूतास्तुतरवः स्मृतः। जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्वा उदीरिताः" // 1 / / इति / यदि वाशब्दव्युत्पात्तद्वारेणं समभिरूढनयमतेन भेदो द्रष्टव्यः। तथा-सततप्राणधारणात्प्राणाः, कालत्रयभावनाद् भूताः, त्रिकालजीवनात् जीवाः, सदाऽस्तित्वात्सत्त्वा इति / तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येक परिनिर्वाणं सुखं, तथा प्रत्येकमसातमपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि / तत्र दुःखयतीति दुःखम, तद्विशेष्यतेकिंविशिष्टमसातमसातवेद्यं कर्म, संविपाकजमित्यर्थः। तथा--अपरिनिर्वाणमितिपरिनिर्वाणं समन्तात् सुखं, न परिनिर्वाणमपरिनिर्वाणं. समन्तात् शरीरमनः पीडाकरमित्यर्थः / तथा-महाभयमितिमहच तद्भय च महाभयं, नाऽतः परमन्यदस्तीति महाभयम् / तथाहि-सर्वेऽपि शारीरान्मानसाच दुःखादुद्विजन्ते प्राणिन इति इतिशब्द एवमथें। एवमह ब्रवीमि सम्यगुपलब्धतत्वो यत्प्रामुक्तमिति। एतच्च ब्रवीमीत्याहतसंति पाणा पदिसो दिसासु य, तत्थ तत्थ पुढो पास आतुरा परितावंति संति पाणा पुढो सिया।। (संतीत्यादि) एवंविधन चासाताऽऽदिविशेषणविशिष्ट न दुःखेनाभिभूतास्त्रस्यन्त्युद्विजन्ति, प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयतिप्रगता दिक् प्रदिग्विादिश इत्यर्थः / ततः प्रदिशः सकाशादुद्विजन्ति। तथाहि-प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात् / ततश्चायमर्थः प्रतिपादितो भवति काक्वा, न काचिद्दिगनुदिग्वा, यस्यां न सन्ति त्रसाः, त्रस्यन्ति वा यस्यां स्थिताः, कोशिकारकीटवत् / कोशिकारकीटो हि दिग्भ्योऽनुदिग्भ्यश्च बिभ्यदात्मसंरक्षणार्थ वेष्टनं करोति शरीरस्येति / भावदिगपि न काचित्तादृश्यस्ति, यस्यां वर्तमानो जन्तुर्न त्रस्येत्, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकाऽऽदिषु जयन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः। एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृह्णीमः। दिग्विदिव्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तम्। कुतःपुनस्वस्यन्ति? यस्मात्तदारम्भवदिस्ते व्यापाद्यन्ते, किं पुनः कारणं ते तानारभन्त इत्याह-(तत्थ तत्थेत्यादि) तत्र तत्र तेषु तेषुकारणेघूत्पन्नेषु वक्ष्यमाणेष्वजितशोणिताऽऽदिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति / शिष्यचोदना कि तत्पश्येति दर्शयति-मांसभक्षणाऽऽदिगृद्धा आतुराः अस्वस्थमनसः परि समन्तात्तापयन्ति पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्त्रसानिति, येन केनचिदारम्भेण प्राणिनां संतापनं भवतीति दर्शयन्नाह-(संतीत्यादि) सन्ति विद्यन्ते प्रायः सर्वत्रैव प्राणाः प्राणिनः पृथक् विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाऽऽश्रिताः पृथिव्याद्याश्रिता। एतच ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः। अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाहलज्जमाणा पुढो पास अणगारा मो त्ति एगे पवयमाणा जमिणं विरूवरू वेहिं सत्थेहिं तसकायसमारंभेणं तसकायसत्थं समारभमाणा अण्णे अणे गरूवे पाणे विहिंसति, तत्थ खलु भगवया परिण्णा पवेइया-इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्ख पडिघायहेउं, से सयमेव तसकायसत्थं समारभति, अण्णे हिं वा तसकायसत्थं समारंभावेइ, अण्णे वा तसकायसत्थं समार