________________ तसकाय 2215 - अभिधानराजेन्द्रः - भाग 4 तसकाय से किं तं तसकाइया? तसकाइया चउव्विहा पण्णत्ता / तं / जहा-वेइंदिया, तेइंदिया, चउरिंदिया, पंचिंदिया। से किं तं बेइंदिया? बेइंदिया अणेगविहा पण्णत्ता / एवं जहेव पण्णव-- णाए तहेव निरवसेसंभाणियव्वंजाव सव्वट्ठसिद्धगादेवा सेत्तं अणुत्तरोववाइया, सेत्तं पंचिंदिया, सेत्तं तसकाइया।। उक्ता प्ररूपणा / जी०३ प्रति०४३० तदनन्तरं लक्षणद्वारमाहदसणनाणचरित्ते, चरियाचरिए य दाणलाभे य। उवभोगभोगवीरिए, इंदियविसए य लद्धीए॥५५।। उवओगजोग अज्झव-साणे वीसुं च लद्धिउदई य। अट्ठविहोदय लेसा, सण्णा उस्सासें कसाए य / / 56 / / (दंसणेत्यादि) दर्शन सामान्योपलब्धिरूपं, चक्षुरचक्षुरवधिकेवलाऽऽण्यं, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः ज्ञानाऽऽवरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः साकायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि, चारित्रं चारित्राचारित्रं देशविरतिस्थूलप्राणातिपाताऽऽदिनिवृत्तिलक्षणं श्रावकाणाम्, तथा दानलाभभोगोपभोगवीर्याः श्रोत्रचक्षुणिरसनस्पर्शनाऽऽख्याः देशलब्धयः जीवद्रय्यव्यभिचारिण्यो लक्षणं भवन्ति। तथोपयोगः साकारोऽनाकारवाऽष्टचतुर्भेदः, योगो मनोवाकायाऽऽख्यस्त्रिधा. अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग् पृथग्लब्धीनामुदयाः प्रादुर्भावाः क्षीरमध्वास्रवाऽऽदयः, ज्ञानाऽऽवरणाऽऽद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः कृष्णाऽऽदिभेदा अशुभाः शुभाश्व कषाययोगपरिणामविशेषसमुत्थाः , संज्ञास्त्वाहारभयपरि-- ग्रहमैथुनाऽऽख्याः / अथवा-दशभेदा अनन्तरोक्ताश्चतस्त्रः, क्रोधाऽऽद्याश्चतस्त्रः, तथौघ संज्ञा, लोकसंज्ञाचा उच्छ्रासनिःश्वासौ प्राणापानौ, कषायाः-कषं संसारः, तस्यायाः क्रोधादयोऽनन्तानुबन्ध्यादि भेदात षोडशविधाः। एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियाऽऽदीना लक्षणानि यथासंभवमवगन्तव्यानीति, नैवंविधलक्षणकलासमुचयो घटाऽऽदिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्थन्ति विद्वांसः। अभिहितलक्षणकलापोपसंजिहीर्षया तथा परिमाणप्रति पादनार्थ गाथामाहलक्खणमेयं चेव उ, पयरस्स असंखभागमेत्ता ते / निक्खमणे य पवेसो, एगा वीया वि एमेव // 57 / / (लक्खणमित्यादि) तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियाऽऽहिजीवाना लक्षणं लिङ्ग मेतावदेव दर्शनाऽऽदिपरिपूर्ण, नान्यदधिकमस्तीति / परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिप्रमाणावसकायपर्याप्तकाः / एते च बादरतेजस्कायपर्याप्तकेभ्योऽसंख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असंख्येयगुणाः, तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति। तथा चागमः- "पडुप्पन्ना तसकाइया केवतिकालस्स निल्लेवा सिया? गोयमा ! जहन्नपए सागरोपमसयसहस्सपुहत्तस्स, उक्कोसपदे वि सागरोवमसयसहस्सपुहत्तस्स / " उद्वर्तनोपपातौ गाथाशकलेनाभिदधातिनिष्क्रमणमुद्वर्तन, प्रवेश उपपातः, जघन्येनैको द्वौ त्रयो वा, उत्कृष्टतस्त्येवमेवेति--प्रेतरस्यासंख्येयभागप्रदेशपरिमाणा एवेत्यर्थः। साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाहनिक्खमपवेसकाले, समयाई एत्थ आवलियभागो। अंतोमुहुत्त विरहो, उदहिसहस्साइँ जे दोणि // 58|| निक्खमेत्यादि) जघन्येन अविरहिताः सन्ततास्त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वित्रित्वेत्यादि(?) उत्कृष्ट नात्रावलिका असंख्येयभागमात्र कालं, संततमेव निष्क्रमः प्रवेशो वा एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धन-विरहः सातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्त्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषूत्पद्यते, प्रकर्षणाधिकं सागरोपमसहस्रद्वयं त्रसभावेनावतिष्ठते सन्तमिति / उक्तं प्रमाणद्वारम्॥ साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाऽऽहमंसादी परिभोगो, सत्थं सत्थाइयं अणेगविहं। सारीरभाणसावेयणाय दुविहा बहुविहा य॥५६॥ मांसचर्मकेशरोमनखपिच्छदन्तस्नाय्वस्थिविषाणाऽऽदिभिस्त्रसकायसंबन्धिभिरुपभोगो भवति, शस्त्रं पुनः शस्त्राऽऽदिकमिति खङ्ग तोमरक्षुरिकाऽऽदि तदादिर्यस्य जलानलाऽऽदेस्तच्छवाऽ5दिकमने कविध स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकार त्रसकायस्येति / वेदना चात्र प्रसङ्गेनोच्यते सा च शरीरसमुत्था, मनः समुत्था च द्विविधा यथासंभवम् / तत्राऽऽद्याशल्यशलाकाऽऽदिभेदजनितेतरप्रियविप्रयोगाप्रियसंप्रयोगाऽऽदिकृता। बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदाकीलकाऽऽदिसमुत्था तीव्रति। पुनरप्युपभोगप्रपञ्चाभिधित्सयाऽऽहमंसस्स केइ अट्ठा, केई चम्मस्स केइ रोमाणं / पिच्छाणं पुच्छाणं,दंताणऽट्ठा वहिजंति॥६०॥ केई वहंति अट्ठा, केइ अणट्ठा पसंगदोसेणं। कम्मपसंगपसत्ता, बंधंति हणंतिमारंति॥६१।। मांसाथ मृगशूकशऽऽदयो बध्यन्ते, चर्मार्थ चित्रकाऽऽदयः, रोमार्थ मूषिकाऽऽदयः, पिच्छार्थं मयूरगृद्धकपिवुरुकाऽऽदयः, पुच्छार्थ चमर्यादयः, दन्तार्थ वारणवराहाऽऽदयः। वध्यन्त इति सर्वत्र संबध्यते। तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य हन्यन्ते, केचित्तु प्रयोजनमन्तरेणाऽपि क्रीडया हन्यन्ते / तथा परे प्रसङ्ग दोषाद् मृगलक्ष्यक्षिप्तेषुलेलुकाऽऽदिना तदन्तरालव्यवस्थितानेककपोतकपिजलशुकसारिकाऽऽदयो हन्यन्ते। तथा कर्मकृष्याद्यनेकप्रकारं, तस्य प्रसङ्गोऽनुष्ठानम्, तत्र प्रसक्तास्तन्निष्ठाः सस्तस्त्रसकायिकान् बहून घ्नन्ति, रज्वादिना बघ्नन्ति, कशलकुटाऽऽदिभिस्ताडयन्ति, मारयन्ति प्राणैर्वियोजयन्तीति। एवंविधानाऽऽदिद्वारकलापमुपवर्ण्य सकल निर्युक्त्यर्थोपसंहारायाऽऽहसेसाई दाराई, ताइं जाहं हवंति पुढवीए। एवं तसकायम्मी, निञ्जुत्ती कित्तिया एसा॥६२।। (सेसा इत्यादि) उक्त व्यतिरिक्तानि शेषाणि द्वाराणि, तान्येव यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि, अत एवमशेषद्वय