________________ तस 2214 - अभिधानराजेन्द्रः - भाग 4 तसकाय घटवत् / आह--इदं त्रसकायनिगमनमनभिधायास्थाने सर्वे प्राणिनः परमधर्माण इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थम्? उच्यतेनिगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम् / तथाहित्रसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरेऽजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मोवक्तव्यः / दश० ४अ01 *त्रसधा० गतौ, ग्रहे, निषेधेच। चुरा०-उभ०-सक०-सेट्। उसयति। त्रसयते। अतित्रसत्। वाचला भये, भ्वादि०-फणा०-पर०-अक०सेट्। वाचा "त्रसेर्डर-वोज्ज-वजाः"||४|१६|| सेरेतेत्रय आदेशा वा भवन्ति। 'डरइ.' 'वोज्जइ,' 'वज्जई। पक्षे-'तसई' / प्रा०४ पाद। तसकाइय पुं०(त्रसकायिक) वसनशीलास्त्रसाः, त्रसाः कायाः शरीराणि येषां ते त्रसकायाः, उसकाया एव त्रसकायिकाः / दश०४ अ०॥ जङ्गमप्राणिनि, स०३ सम०। तसकाय पुं०(त्रसकाय) त्रसनामकर्मोदयात्त्रस्यन्तीति त्रसाः, तेषां कायो राशिस्वसकायः / स्था०२ ठा०१ उ०॥ त्रसनशीलास्त्रसाः, साः कायाः शरीराणि येषां ते त्रसकायाः। जगमजीवभेदे, स०१० समला "तसकाए दुविहे पण्णत्ते। तं जहा भवसिद्धिए चेव, अभवसिद्धिए चेव।" स्था०२ ठा०१ उ०। (व्याख्या स्वस्वस्थाने) अथ त्रसकायोद्देशमाहतसकाए दाराई, ताई जाइं हवंति पुढवीए। नाणत्तओ विहाणे, परिमाणुवभोगसत्थे य॥५१।। बसन्तीति त्रसाः, तेषां कायः, तस्मिन्, तान्येव द्वाराणि भवन्ति, यानि पृथिव्याः प्रतिपादितानि / नानात्वं विधानपरिमाणोपभोगशस्वद्वारेषु, चशब्दाल्लक्षणे च प्रतिपत्तव्यमिति। तत्र विधानद्वारमाहदुविहा खलु तसजीवा, लद्धितसा चेव गतितसा चेव / लद्धी य तेउवाऊ, तेणऽहिगारो इहं नत्थि / / 5 / / (दुविहेत्यादि) द्विविधा द्विभेदाः, ख नुरवधारणे, सत्वं प्रति द्विभेदत्वमेवत्रसनात् स्पन्दनात् त्रसाः, जीवनात् प्राणधारणाजीवाः / त्रसा एव जीवास्त्रसजीवाः-लब्धित्रसाः, गतित्रसाश्च / लब्धी तेजोवायू त्रसौ, लब्धिस्तच्छक्तिधात्रम् / लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद, वायोश्चाभिधास्यमानत्वात्, अतः सामर्थ्याद् गतित्रसा एवाधिक्रियन्ते। के पुनस्ते कियझेदा इत्याहनेरइयतिरियमणुया, सुरा गइतसा चउव्विहा एए। पज्जत्ताऽपज्जत्ता, नेरझ्याई उनायव्वा / / 53|| (नेरइयेत्यादि) नारकाः-रत्नशर्कराऽऽदिमहातमःपृथ्वीपर्यन्तनरकलासिनः सप्तभेदाः,तिर्यचोऽपि-द्वित्रिचतुः पञ्चेन्द्रियाः, मनुष्याःसंमूर्छनजाः, गर्भव्युत्क्रान्तयश्च; सुराः-भवनपतिव्यन्त-रज्योतिष्कवैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिर्वृत्तगतिलाभादतित्रसत्वम् / एते च नारकाऽऽदयः पर्याप्ता-पर्याप्तभेदेन द्विविधा भवन्ति; तत्र पर्याप्तिः पूर्वोक्तव षोढा, तेषा यथासंभवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहूर्त्तकालमिति / इदानीमुत्तरभेदानाह तिविहा तिविहा जोणी, अंडा पोया जराउया चेव। वेइंदिय तेइंदिय, चउरो पंचिंदिया चेव / / 5 / / (तिविहत्यादि) अत्र हि शीतोष्णमिश्रभेदात्, तथा-सचित्ताचित्तमिश्रभेदात्, तथा-संवृतविवृततदुभयभेदात्, तथा-स्त्रीपुन्नपुंसकभेदाचेत्यादीनि बहूनि योनीनां त्रिकाणि संभवत्ति, तेषां सर्वेषा संग्रहार्थ त्रिविधा त्रिविधेति वाचा निर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः, चतुर्णामुपरितननरकेषु शीता, अधस्तननरकेषूष्णा, पञ्चमीषष्ठीसप्तमीषूष्णैव, नेतरे, गर्भव्युत्क्रान्तिकतिर्यड्मनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसम्मूछेनजतिर्यड् मनुष्याणां त्रिविधाऽपि योनिः- शीता, उष्णा, शीतोष्णाचेति तथा-नारकदेवानामचित्ता, नेतरे, द्वीन्द्रियाऽऽदिसंमूछजपञ्चेन्द्रियतिर्यड् मनुष्याणां सचित्ताचित्त-मिश्रयोनिर्नेतरे.....(?) तथा-देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्च्छनजपञ्चेन्द्रियतिर्यङ्मनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यड्मनुष्याणां संवृतविवृता योनिर्नेतरे। तथा-नारकानपुंसकजपञ्चेन्द्रियतिर्यड्मनुष्याणां विवृता योनिनेंतरे। गर्भयोनय एव तिर्यश्च स्वविधाः स्त्री-पुनपुंसकयोनयः, मनुष्या अप्येवं त्रैविध्यभाजः, देवाः स्त्रीपुंयोनय एव, तथा परं मनुष्ययोनेस्वैविध्यम् / तद्यथा-कूर्मोन्नता। तस्यां चाहत् चक्रपया॑दिसत्पुरुषाणामुत्पत्तिः / तथा-शङ्खाऽऽवर्ता / सा च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां संभवो नास्तीति न निष्पत्तिः। तथा–वंशीपत्रा। सा च प्राकृतजनस्येति। तथा परं त्रैविध्यं नियुक्तिकृदर्शयति / तद्यथा-- अण्डजाः, पोतजाः, जरायुजाश्चेति / तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलींगजकलभाऽऽदयः, जरायुजा गोमहिषीमनुष्याऽऽदयः / तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच भिद्यन्ते। एवमेते त्रिविधास्त्रसा योग्यादिभेदेन प्ररूपिताः। एतद्योनिसंग्राहिण्यो गाथाः"पुढविदगअगणिमारुय-पत्तेयनिओयजीवजोणीणं / सराग सत्तग सत्तग, सत्तग दस चोइस य लक्खा / / 1 / / विगलिंदिएसु दो दो, चउरो चउरो यनारयसुरेसु। तिरिया सत्तऽट्टनव य, पणवीसा एगिदिया ...... ||2|| ....... हों ति चउरो, चोद्दस मणुयाण लक्खाई॥" एवमेत चतुरशीतियोनिलक्षा भवन्ति / तथा कुलपरिमाणम्"कुलकोडिसयसहस्सा, वत्तीसऽऽट्ट नव य पणवीसा। एगिहिय वितिइदिय, चउरिदिय हरियकायाणं / अट्ठत्तेरस बारस, दस नव चेव कोडिलक्खाई॥१॥ जलयरपक्खिचउप्पय-उरभुयपरिसप्पजीवाणं / पणवीसं छथ्वीसं, च सयसहस्सा' नारयसुराणं // 2 // वारस य सयसहस्सा, कुलकोडीणं मणुस्साणं / / 3 / / एगा कोडाकोडी, सत्ताणउई च सयसहस्साई। पन्नासं च सहस्सा, कुलकोडीणं मुणेयव्वा / / 4 / / अङ्कतः-१६७५००००००००००००० सकलकुलसंग्रहोऽये बोद्धव्यः / आचा०२ श्रु०१ अ०६उ,