________________ तस 2213 - अभिधानराजेन्द्रः - भाग 4 तस 7 अ० त्रस्यन्तीति त्रसाः तेजोवायुरूपा विकलेन्द्रियपञ्चेन्द्रियभेदात्रिधा। सूत्र०१ श्रु०६अ। तिविहा तसा पण्णत्ता / तं जहा-तेउकाइया, वाउकाइया, उराला तसा पाणा। त्रस्यन्तीति त्रसाः संचलनधर्माणः तत्र तेजोवायवो गतियोमात्नसाः उदाराः स्थूलास्त्रसा इति त्रसनामकर्मोदयवर्तित्वात् प्राणा इति व्यक्तोच्छ्वासाऽऽदिप्राणयोगाद्वीन्द्रियाऽऽदयस्तेऽपि गतियोगात् त्रसा इति। स्था०३ ठा०२ उ०। सम्प्रति औदारिकत्रासानाहसे किं तं उराला तसा पाणा? उराला तसा पाणा चउविहा पन्नत्ता। तं जहा-वेइंदिया, तेइंदिया, चउरिंदिया, पंचिंदिया। (से किं तमित्यादि) अथ के ते औदारिकास्त्रसाः? सूरिराहऔदारिकास्त्रसाश्चतुर्विधाः प्रज्ञप्ताः / तथा द्वीन्द्रियास्त्रीन्द्रियाः / चतुरिन्द्रियाः पश्शेन्द्रियाः। तत्र द्वे स्पर्शरसनरूपे इन्द्रिये येषां तेद्वीन्द्रियाः। त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः / चत्वारि स्पर्शनरसनध्राणचक्षुरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः / पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः / जी०१ प्रति ___ इदानीं त्रसाधिकारे एतदाहसे जे पुण इमे अणेगे बहवे तसा पाणा / तं जहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा, उब्भिया, उववाइया॥ (से जे पुण इमे इति) से' शब्दोऽथशब्दार्थः / असावप्युपन्यासार्थः। "अथ प्रक्रियाप्रश्नानन्तर्यमङ्ग लोपन्यासप्रतिवचनसमुच्चयेषु" इति वचनात् / अथ ये पुनरमी बालाऽऽदीनामपि प्रसिद्धाः, अनेके द्वीन्द्रियाऽऽदिभेदेन बहव एकैकस्यांजातौ त्रसाः प्राणिनः-त्रस्यन्तीति बसाः प्राणा उच्छ्वासाऽऽदय एषां विद्यन्त इति / तद्यथा-(अंडया इत्यादि) एष खलु षष्ठो जीवनिकायः त्रसकायः प्रोच्यत इति योगः / तत्राण्डाजाता अण्डजाः, पक्षिगृहकोकिलाऽऽदयः / पोता एव जायन्त इति पोतजाः / "अन्येष्वपि दृश्यते // 3121 101 / इति डप्रत्ययो जनेरिति वचनात्; ते च हस्तिवल्गुलीचर्मजलूकाप्रभृतयः / जरायुवेष्टिता जायन्त इति जरायुजाः / गोमहि--ष्यजाऽविकमनुष्याऽऽदयः। अत्रापि पूर्ववड्डप्रत्ययः / रसाजाता रसजा; तक्राऽऽरनालदधितीमनाऽऽदिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति / संस्वेदाजाता इति संस्वेदजाः मत्कुणयूकाशतपादिकाऽऽदयः संमूर्च्छनाजाताः संमूर्च्छनजाः, शलभपिपीलिकामक्षिकाशालूकाऽऽदयः / उद्भेदाज्जन्म येषां ते उद्भेदाः / अथवाउद्भेदनमुद्भित्, उद्भिज्जन्म येषां ते उद्विजाः, पतङ्ग खञ्जरीटपारि प्लवाऽऽदयः / उपपाताजाता उपपातजाः / अथवा-उपपाते भवा औपपातिकाः; देवा नारकाव / एतेषामेव लक्षणमाहजेसिं केसिंचि पाणाणं अभिकंतं पडिकंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइगइविण्णाया। येषां केषाचित्सामान्येनैव प्राणिनां जीवानामभिक्रान्त भवतीति | वाक्यशेषः / अभिक्रमणममिक्रान्तं, भावे निष्ठाप्रत्ययः / प्रज्ञापक प्रत्यभिमुखं क्रमणमित्यर्थः / एवं प्रतिक्रमणं प्रतिक्रान्तं, प्रज्ञापकात्प्रतीपं क्रमणमिति भावः। संकोचन संकुचित, गात्रसंकोच-करणम् / प्रसारणं प्रसारित, गात्रविततकरणम्। रवणं रुत, शब्दकरणम्। भ्रमणं भ्रान्तम्, इतश्चेतश्च गमनम् / वसनं त्रस्त, दुःखादुद्वेजनम् / पलायनं पलायितं, कुतश्चिन्नाशनम् / तथा आगतेः कुतश्चित् क्वचित्, गतेश्व कुतश्चित्क्वचिदेव च, (विण्णाया इति) विज्ञातारः / आह–अभिक्रान्तप्रतिक्रान्ताभ्यां नाऽऽगतिगत्योः क्वचिद्भेद इति। किमर्थ भेदेनाभिधानम्? उच्यते-विज्ञानविशेषख्यापनार्थम् / एतदुक्तं भवति य एव विजानन्ति, यथा-वयमभिक्रमामः, प्रतिक्रमामो वा, तएव त्रसाः; न तु वृत्तिं प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति / आह-एवमपि द्वीन्द्रियाऽऽदीनामक्र सत्त्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवं विज्ञानाभावात् / नैतदेवम् / हेतुसंज्ञाया अवगतेबुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणाऽऽदिभावात् / न चैवं वल्ल्यादीनामभिक्रमणाद्योघसंज्ञायाः प्रवृत्तेरिति कृते प्रसङ्गेन। अधिकृतत्रसभेदानाहजे य कीडपअंगा, जाय कुंथुपिपीलिया, सव्वे वेइंदिया, सव्वे तेइंदिया, सव्वे चउरिदिया, सव्वे पंचिंदिया, सव्वे तिरिक्खजोणिया, सव्वे नेरइया, सव्वे मणुया, सव्वे देवा, सव्वे पाणा परमहम्मिया! (जे य इत्यादि) ये च कीटपतङ्गा इत्यत्र कीटाः कृमयः, "एकग्रहणे तज्जातीयग्रहणम्" इति द्वीन्द्रियाः शङ्खाऽऽदयोऽपि गृह्यन्ते / पतङ्गाः शलभाः / अत्राऽपि पूर्ववचतुरिन्द्रिया भ्रमराऽऽदयोऽपि गृह्यन्त इति / तथा याश्च कुन्थुपिपीलिका इति; अनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते। अत एवाऽऽह--सर्वे द्वीन्द्रियाः कृम्यादयः, सर्वे त्रीन्द्रियाः कुन्थ्वादयः, सर्वे चतुरिन्द्रियाः पतङ्गाऽऽदयः। आह-येच कीटपतङ्गा इत्यादायुद्देशव्यत्ययः किमर्थम् ? उच्यते-विचित्रा सूत्रगतिः, अतन्त्रः क्रम इति ज्ञापनार्थम् / सर्वे पञ्चेन्द्रियाः सामान्यतः। विशेषतः पुनः सर्वे तिर्यग्योनयो गवादयः; सर्वे नारका रत्नप्रभानारकाऽऽदिभेदभिन्नाः; सर्वे मनुजाः कर्मभूमिजाऽऽदयः; सर्वे देवा भवनवास्यादयः / सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः / सर्व एवैते त्रसाः; न त्वेकेन्द्रिया इव त्रसाः, स्थावराश्व इति। उक्तंच- "पृथिव्यम्चुवनस्पतयः स्थावराः , तेजोवायुद्वीन्द्रियाऽऽदयश्च त्रसाः।" इति। सर्वे प्राणिनः परमधर्माण इति। सर्वे एते प्राणिनो द्वीन्द्रियाऽऽदयः पृथिव्यादयश्च परमधर्माण इति। अत्र परमं सुखं तद्धर्माणःसुखधर्माणः, सुखाभिलाषिण इत्यर्थः / यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्ड समारंभेतेति योगः। षष्ठं जीवनिकायं निगमयन्नाहएसो खलु छट्ठो जीवनिकाओ तसकाओ त्ति पवुचइ। एष खल्वनन्तरोदितः कीटाऽऽदिः षष्ठो जीवनिकायः, पृथिव्या दिपशकापेक्षया षष्ठत्वमस्य / त्रसकाय इति प्रोच्यते-प्रकर्षणोच्यते, सर्वरे व तीर्थक रगणधरैरिति प्रयोगार्थः / प्रयोगश्वविद्यमानकर्तृक मिदं शरीरम्, आदिमत्प्रतिनियताऽऽकारत्वात,