________________ तवारिह 2211 - अभिधानराजेन्द्रः - भाग 4 तवोमग्गगइ पद्रावयति षड्लघु। अत्र द्व्यादिदिवसं निरन्तरं संघटनाऽऽदिषु षड्भिर्दिवसैर्मूलम् / त्रीन्द्रियं संघट्टयति चतुर्गुरु, परितापयति षड्लघु, अपद्रावयति षड्गुरु। अत्र पञ्चभिर्दिवसैर्मूलम् / चतुरिन्द्रियं संघट्टयति षड्लघु, परितापयतः षड्गुरु, अपद्रावयतो मासिकच्छेदः / अत्र चतुर्भिर्दिवरीमूलम्। चतुरिन्द्रिय संघट्टयतिषड्लघु, परितापयतः षड्गुरु, अपद्रावयतो मासिकच्छेदः / अत्र चतुर्भिर्दिवसैर्मूलम् / पञ्चेन्द्रियं संघट्टयतः षड्गुरु, परितापयतश्छेदः, अपद्रावयतो मूलम्। अत्र द्वयोर्दिवसयोरनवस्थाप्यं, त्रिषु दिवसेषु पाराञ्चितमिति। व्य०१3०। तपोऽहमभिधीयतेनिव्वीए पुरिमड्डे-गभत्तमायंबिलं चऽणागाढे। पुरिमाई खमणंतं, आगाढे एवमत्थे वि / / 23 / / इह तपोऽहं प्रायश्चित्ते ज्ञानदर्शनचारित्रतपोवीर्याऽऽचारपञ्चकशतातिचारचक्रमालोच्यम्, तत्राऽऽद्यो ज्ञानाऽऽचारस्यातिचारे ज्ञानाचारातिचारः, सोऽष्टविधः / तद्यथा-अकाले स्वाध्यायकरणं कालातिचारः१ श्रुतमधिजिज्ञासोर्जातिमदावलेपेन गुरुषु, विनयो वन्दनाऽऽदिरुपचारः, तस्याप्रयोजनं, हीनं वा विनयातिचारः२। श्रुते गुरौ वा बहुमानो हार्दः प्रतिबन्धविशेषः, तस्याऽकरणं बहुमानातिचारः३ उपधानमाचामाम्लाऽऽदितपसा योगविधानं, तस्याकरणमुपधानातिचारः / यत्पावेश्रुतमधीतं तं निहतेऽपलपति अन्य वा युगप्रधानमात्मनोऽध्यापक निर्दिशति, स्वयं वाऽधीतमित्याचष्ट, एष निह्नवनाभिधानातिचारः 5 / व्यज्यते अर्थोऽनेनेति व्यञ्जनमागमसूत्रं, तन्मात्राक्षरविन्दुभिरूनमतिरिक्तं वा करोति, संस्कृतं वा विधत्ते, पर्यायैर्वा विदधाति / यथा"धम्मो मंगलमुक्किट्ट" इत्यादिस्थाने-'पुन्नं कल्लाणमुक्कोस, दया संवरनिजरेति" व्यञ्जनातिचारः६ / आगमपदार्थस्यान्यथापरिकल्पनमातिचारः। यथा आचारसूत्रेऽवन्त्यध्ययनमध्ये "आवंती केआ लोगसि विप्परामुसंतीति।" यावन्तः केचित् लोकेऽस्मिन् पाषण्डिलोके विपरामृशन्तीति प्रस्तुतेऽर्थेऽन्योऽर्थःपरिकल्प्यते-''आवंति होइ देसो, तत्थ उ अरहट्टकूवजा केया।घटिमासपडिहि-याहिं, तंलोगो विप्परामुसइ।" 7 / यत्र च सूत्राओं द्वावपि विनश्येते, स तदुभयातिचारो यथा"धम्मो मंगलमुक्किट्ठो, अहिंसा गिरिमत्थए। देवा वि तं नमसंति, जस्स धम्मे सया मती।।१।। आहागडेसु रंधति, कडेसु रहकारओ। रत्तो भत्तसिणो जत्थ, गद्दभो जत्थ दीसइ / / 2 / / " अयं च महीयानतिचारो, यतः सूत्रार्थोभयनाशे मोक्षाभावः, तदभावे दीक्षावैयद्यमिति। एष चाष्टविधोऽपि ज्ञानाचारातिचारो द्विधा-ओघतो, विभागतश्च। तत्र विभागत उद्देशकाध्ययनश्रुतस्कन्धाङ्गेषु विषये प्रमादिनः प्रमादपरस्य कालातिक्रमणाऽऽदिष्वष्टसु ज्ञानाऽऽचारातिचारेषु जातेषु क्रमशः क्रमेण तपो निर्विकृतिक, पुरिमा कभक्त आचाम्लच, अनागाढे दशवैकालिकाऽऽदिके श्रुते उद्देशकातिचारे, अकालपाठाऽऽदिके निर्विकृतिकम्, अध्ययनातिचारे पुरिमार्द्धम, श्रुतस्कन्धातिचारे एकभक्तम्, अङ्गातिचारे आचामाम्लमित्यर्थः / आगाढे तूत्तराध्ययनभगवत्यादिके श्रुते,एतेषतिचारस्थानेषु पुरिमार्द्धाऽऽदि क्षपणान्तमेव तपो भवति, एतद्विभागतः प्रायश्चित्तमुक्तम्। जीता (एतच 'अइयार' शब्दे प्रथमभागे 8 पृष्ठेऽपि व्याख्यातम् ) छेयाइमसद्दहओ,मिउणो परियायगव्वियस्सऽविय। छेयाइयाण वितवो, जीएण गणाहिवइणो य / / 56 / / यच्छेद न श्रद्दधाति, भणति च व्रतपर्याये दिनपञ्चकाऽऽदौ छिन्ने किं मदीयं छिन्नं, सम्पूर्णकर्णनासिकाऽऽद्यवयव एव तावदहमस्मि, तस्य च्छेदाऽऽद्यश्रद्धानपरस्य (मिउणो त्ति) यश्छिद्यमाने व्रतपर्याये न संतप्यते, यथा-कष्ट ममपर्यायश्छिन्न इति। यद्वा अन्येषांलघूनामप्यहमतिलघीयान् जात इति तस्य मृदोः, यश्च पर्यायगर्वितो दीर्घपर्यायत्वात् छिन्नेऽपि पर्याये अन्येभ्योऽम्बधिकपर्याय एव; न न्यूने पर्याये, न च पर्यायच्छेदाद् बिभेति, तस्य पर्यायगर्वितस्य / अपि चेति समुचये / एतेषामुद्दिष्टानां छेदमापन्ना-नामपि, आदिशब्दान्मूलानवस्थाप्यपाराशिकान्यथोपपन्नानां, तथा गणाधिपतेराचार्यस्थ, चशब्दात्कुलगणसंघाधिपानां च, जीतेन जीतव्यवहारमतेन, तप एव दीयते। अत्राऽऽहदीयतां नाम छेदद्मऽऽद्य श्रद्धालुप्रभृतीनां छेदाऽऽद्यापत्तावपि तपः, आचार्याऽऽदीनां तु कथमिति? अत्रोच्यते-अनेकविधाः शिष्याः परिणामकापरिणामकाः, अतिपरिणामकाः,शैक्षा उच्चस लाश्चेति / तत्रोत्सर्गे उत्सर्गापवादे चापवादंयथा भणितं ये श्रद्दधत्याचरन्ति च ते परिणामकाः, ये पुनरुत्सर्गमेव श्रद्दधत्याचरन्ति, अपवादंतुन श्रद्दधति, नाचरन्ति वा, तेऽपरिणामकाः, ये चापवादमाचरन्ति नोत्सर्ग, तेऽतिपरिणामकाः, शैक्षा नवदीक्षिताः, उच्छृङ्खला उल्लुण्ठाः, एषामपरिणामिकाऽऽदीनामिमे मा निन्दनीया लाघवभाजोऽभवन्नित्याचार्याऽऽदीनामपित एव दीयन्ते, न छेदाऽऽदय इति। जीत०। ('जीयववहार' शब्देऽस्मिन्नेव भागे 1513 पृष्ठे, 'तपोरिह' शब्दे 2185 पृष्ठे चावशिष्ट द्रष्टव्यम्) तविय त्रि०(तप्त) "शर्षतप्तवजे वा" ||6/2 / 105 / / इति तप्तस्य संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः / प्रा०२ पाद। उष्णे, स्था०८टा० "आइचतेयसा तविया खणलबदिवसाओ परिणमंति।" स्था०५ ठा०३उ०। तवोकम्म न०(तपःकर्म) तस्यैवाऽष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थस्याऽपि निर्जराहेतुभूलं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्मोच्यते / आचा०१ श्रु०२ अ० 130aa निर्विकृतिकाऽऽदिनि (स्था० 2 ठा०१उ०। सन औ०) महालयाऽऽदिनि (अन्त०८वर्ग०३७०)तपःक्रियायाम, स्था०४ ठा०३उका तवोकम्मगंडिया स्त्री०(तपःकर्मगण्डिका) तपः कर्मवक्तव्यतार्थाधिकारानुगतायां ग्रन्थपद्धतौ, सण तवोगुणपहाण त्रि०(तपोगुणप्रधान) षष्ठाटमाऽऽदितपोधनवति, दश०४ अ०। तवोमग्गगइ स्त्री०(तपोमार्गगति) उत्तराध्ययनानां त्रिंशत्तमेऽध्ययने, उत्त०२६ अ० स० दुविहतवोमग्गई, वन्निज्जइ जम्ह एत्थ अज्झयणे। तम्हा एयऽज्झयणं, तवमग्गइ त्ति नायव्वं // 46|| द्विविधं तपो बाह्यमाभ्यन्तरंच, तदेव मार्गो भावमार्गः, तत्फलभूता च गतिः सिद्धिगतिः द्विविधतपोमार्गगति ण्यते यस्मादत्राध्ययने तस्मादेतदध्ययनं तपोमार्गगतिरिति ज्ञातव्यम्, अभिधानोपचारादिति भावः / उत्त० पाई०३० अ०॥