________________ तवारिह 2210- अभिधानराजेन्द्रः - भाग 4 तवारिह मासगुरु, चतुर्मासके अष्टमाकरणे चतुर्मासलघु, सांवत्सरिके अष्टमं न करोति चतुर्मासगुरु / तथा एतेष्वेवाष्टमीपाक्षिकाऽऽदिषु चैत्याना जिनबिम्बानां, चशब्दाद् ये अन्यस्यां वसतौ सुसाधवस्तेषामप्यवन्दने मासलघु। तथा ये चैत्यभवनस्थिता वैकालिकं कालं प्रतिक्रम्य अकृते आवश्यके प्रभाते च कृते आवश्यके यदि चैत्यानि न वन्दन्ते, तेषामपि मासलघु / उक्तं चास्यैव व्यवहारस्य चूर्णी-"एएसु चेव अट्टमिमादीसु / चेइयाइं साहुणो साहुणीवा जहन्नाए वसहीए ठिया, तेन वंदति मासलघु / जइ चेइयघरे ठिया वेयालिकं कालं पडिक्कता अकए आवस्सए गोसे य कए आवस्सए चेइए न वंदंति मासलहु।" इति। साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतो 'सज्झायस्स अकरणे" इत्येतद्व्याख्यानयतिसुत्तत्थपोरिसीणं, अकरणे मासो उ होइ गुरुलधुगो। चाउक्कालं पोरिसि-उवायणं तस्स चउलहुगा।।१३१।। सूत्रार्थपौरुष्योः-सूत्रपौरुष्याः, अर्थपौरुष्या इत्यर्थः। अकरणे यथाक्रम गुरुमासो, लघुमासः / अर्थपौरुषी हि प्रज्ञाऽऽदिविशिष्टसामग्यपेक्षा सूत्रायत्ता च / सूत्रपौरुषी त्वभिनवदीक्षितेनाऽपि जडमतिनाऽपि च यथाशक्ति अवश्यं कर्त्तव्या। सूत्राभावे सर्वस्याप्यभावादतः सूत्रपौरुष्या अकरणे मासगुरु।अर्थपौरुष्या अकरणे मासलघु। द्वयोः सूत्रपौरुष्योरकरणे द्वौ लघुमासो। तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामर्थ्यात्प्रतिपत्तव्यम्। (चाउक्कालमित्यादि) चतुःकालं दिवारात्रिगतप्रथमचरमप्रहररूपेषु चतुर्युकालेषु सूत्रपौरुषीरवपातयतो भ्रंशयतोऽकुर्वत इत्यर्थः। चतुर्यु लघुकाश्चत्वारो लघुमासाः। सम्प्रति 'काउस्सग्गे' इति व्याख्यानयतिजइ उस्सग्गे न कुणइ, तइमासा निसण्णए निवण्णे य। सव्वं चेवावस्सं, न कुणइ तहियं चउलहुं ति // 132 / / आवश्यके प्रभाते वैकालिके वा यावतः कायोत्सर्गान्न करोति तावन्तो मासास्तस्य प्रायश्चित्तम्। एकं चेन्न करोति,एको लघुमासः। द्वौ न करोति द्वौ लघुमासो / त्रीन्न करोति त्रयो लघुमासाः। तथा निषण्ण उपविष्टो, निपन्नः पतितः,सुप्त इत्यर्थः / चशब्दात् प्रावरणप्रावृतो वा यद्यावश्यक करोति तदा सर्वत्र मासलघु। यदि पुनः सर्वमेवाऽऽवश्यकं न करोति तदा चतुर्लघु-चत्वारो लघुमासाः प्रायश्चित्तम्। अधुना "अपडिलेहाइ त्ति"व्याचष्टेचाउम्मासुक्कोसे, मासे मज्झे य पंच उ जहन्ने। उवहिस्स अपेहाए, एसा खलु होइ आरुवणा // 133 / / उत्कृष्ट उत्कृष्टस्य प्रागुक्तस्वरूपस्य उपधेरप्रेक्षायामप्रत्युपेक्षयां चत्वारो लघुमासाः / मध्ये मध्यमस्योपधेरप्रत्युपेक्षायां लघुमासः। जघन्ये जघन्यस्य पञ्चरात्रिन्दिवानि / एषा खलु भवति आरोपणा प्रायश्चित्त प्रत्युपेक्षायामिति / संप्रति "पोसहियतवे य" इति व्याख्यानयतिचउछट्ठऽहमकरणे, अट्ठमिपक्खचउमासवरिसे य। लहुगुरु लहुगा गुरुगा, अवंदणे चेइ-साहूणं / / 134 // अत्र यथासंख्येन पदयोजना। सा चैवम्- अष्टम्यां चतुर्थस्याऽकरणे ) मासलघु। पक्षे पाक्षिके चतुर्थस्याऽकरणे मासगुरु।चतुर्मास अष्टमस्याऽकरणे चत्वारो लघुमासा : / सांवत्सरिके षष्ठस्याऽकरणे चत्वारो गुरुमासाः / तथा एतेषु चाऽष्टम्यादिषु दिवसेषु चैत्यानाम्, अन्यवसतिगतस्तु साधूनां वाऽवन्दने प्रत्येकं मासलघु। सम्प्रति लाघवार्थमत्रैव छेदाह प्रायश्चित्तमाहएतेसु तिठाणेसुं, भिक्खू जो वट्टएपमाएण। सो मासियं ति लग्गइ, उग्घायं वा अणुग्घायं / / 13 / / एतेष्वनन्तरोदितेषु स्थानेषु (ति त्ति) त्रीन् वारान् यो भिक्षु प्रमादेन वर्तते, प्रमादेनैषां स्थानानामन्यतरत् त्रीन्वारान् अतिचरति, समासिकं सामान्यतो मासनिष्पन्नं छेदमुद्घातं लघु, अनुदघातं गुरुकं लगति प्राप्नोति। यत्र यावन्तो मासा लघवो गुरवो वा तपः प्रायश्चित्तं, तत्र तावन्तो मासा लघवो गुरखो वा छेद इति यावत्। सम्प्रति शेषाणि यानि चातुर्मासिकानि षण्मासिकानि वा प्रायश्चित्तानि, ये वा भणिताः छेदाः, यानि च मूलानवस्थितपाराश्चितानि, तदेतत्सर्वमेकगाथया विवक्षुराहछक्काएँ चउसु लहुगा, परित्त लहुगा य गुरुग साहारे। संघट्टाणपरितावण, लहुगुरुगऽतिवायणे मूलं / / 136 / / षट्कायाः पृथिव्यप्तेजोवायुवनस्पतित्रसकायरूपाः। तेषां मध्ये चतुषु पृथिव्यप्तेजोवायुरूपेषु संघट्टनाऽऽदिभिर्लघुकाः प्रायश्चित्तं, परीत्ते प्रत्येकवनस्पतिकायेऽपि च लघुकाः, साधारे अनन्तवनस्पतिकायिके संघट्टनाऽऽदिषु गुरुकाः / तथा द्वीन्द्रियाऽऽदीनां संघट्टने परितापने च यथायोगलघुका गुरुकाश्च प्रायश्चित्तम्। अतिपातने विनाशे मूलम्। इयमत्र भावना-पृथिवीकार्य संघट्टयति मासलघु, परितापयति मासगुरु, अपद्रावयति जीविताद् व्यपरोपयतीत्यर्थः; चतुर्लघु / एवमप्काये तेजस्काये वायुकाये प्रत्येक-वनस्पतिकाये च द्रष्टव्यम् / उक्तं च"छकायाऽऽदिम चउसू,तह य परित्तम्मि होति वणकाए। लहु गुरु मासो चउलह, संघट्टणपरितावणुद्दवणे // 1 // " एतत्प्रायश्चित्तमेकैकस्मिन् दिवसे संघट्टनाऽऽदिकरणे, यदिपुनः द्वौ दिवसौ पृथिव्यादीन संघट्टयति तदा मासगुरु, परितापयति चतुर्लघु, जीविता व्यपरोपयति चतुर्गुरुकं, त्रीन् दिवसान् निरन्तरं पृथिव्यादि संघट्टयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयतिषड्लघु, निरन्तरं परितापने षड्लघु, अपद्रावणे षड्गुरु, पञ्चदिवसान्निरन्तरं पृथिव्यादीनां संघट्टने षड् लघु, परितापने षड्गुरु, अपद्रावणे मासिकछेदः। षड् दिवसान्निरन्तरं संघट्टनेषड्गुरु, परितापने मासिकच्छेदः, अपद्रावणे चतुर्मासिकच्छेदः / सप्तदिवसान्निरन्तरं पृथिव्यादीनां संघट्टने मासिकच्छेदः / अपद्रावणे पाण्मासिकः। अष्टौ दिवसान्निरन्तरं पृथिव्यादीनां संघट्टने चातुर्मासिकच्छेदः। परितापने पाण्मासिकः। अपद्रावणे मूलम् / उक्तं च- "दोहिं दिवसेहिं मासगुरुए आढवेत्ता चउ-गुरुए ठातिजाव अट्टहिं संघट्टयति।" अनन्तवनस्पतिकायिक संघट्टयतिमासगुरु।परितापयति चतुर्गुरु। अपद्रावयति चतुर्गुरु। द्विदिवसाऽऽदिनिरन्तरसंघट्टनाऽऽदिषूत्तरोत्तरैकैकस्थाने वृद्धिः, ततः सप्तभिर्दिवसैर्मुलम्। द्वीन्द्रियं संघट्टयति चतुर्लघु,परितापयति चतुर्गुरु, अ