________________ तव 2204 - अभिधानराजेन्द्रः - भाग 4 तव एयं च विसयसुद्ध, एगंतेणेव जे तओ जुत्तं / आरोग्गबोहिलाभाइपत्थणाचित्ततुल्लं ति॥४३|| विषयोगोचर उक्ततपसामालम्बनीयस्तीर्थकरनिर्गमाऽऽदिः, स्वरूपमुक्ततपसामेव स्वभाव आहारत्यागब्रह्मचर्यजिनपूजासाधुदानाऽऽदिलक्षणः, अनुबन्धश्च तत्परिणामाव्यवच्छेदतः प्रकर्षयायिता, अतस्तेषु विषयस्वरूपानुबन्धेषु / तथा चेति समुच्चये। शुद्ध निरवा, यतो यस्मात्कारणाद्, अनुष्ठानं क्रिया, निर्वाणाङ्ग मुक्तिकारणम्, भणितमुक्तम्, अन्यैरपि तन्त्रान्तरीयैः, किं पुनर्जिनः, योगमार्गेऽध्यात्मशारत्रपथे। अतो विषयाऽऽदिशुद्धतयैतेषां निर्वाणाङ्गत्वान्नित्वान्निनिंदानतेति हृदयमिति॥४२।। एतच्च एतत्पुनरनन्तरोक्त तपः, विषयशुद्धं निर्दोषगोचर, सकलदोषमोषिजिनपतिविषयत्वात्। एकान्तेनैव सर्वथैव, यद्यस्मात्ततः तस्माद्धेतोर्युक्तं सङ्गतम्, प्रार्थनागर्भमपीदं तपः / कुतः? इत्याह-आरोग्यबोधिलाभाऽऽदीनाम्- 'आरोग्गबोहिलाभं, समाहिवरमुत्तमं दितु' इति / एवरूपा या प्रार्थना याञ्चा, तत्प्रधानं यचित्तं मनस्तेन तुल्यं समानं यत्तदारोग्यबोधिलाभाऽऽदिप्रार्थनाचित्ततुल्यम्, इति कृत्वा। इति गाथाद्वयार्थः // 43 // एवमनन्तरोक्तं तपो निर्निदानमिति व्यवस्थापितमथोपदिशन्नाहजम्हा एसो सुद्धो, अणियाणो होइ भावियमईणं। तम्हा करेह सम्म,जह विरहो होइ कम्माणं // 44|| यस्मात्कारणात्, (एसो त्ति) इदमनन्तरोक्तं तपः, शुद्ध निर्दोषम्, भवति स्यात् / किंभूतं सदित्याह-अनिदानं प्रागुक्तयुक्त्या निदानवर्जितम्। केषामिदमेवंविधमित्याह-भावितमतीनां सदागमवासितमानसानाम्, तस्मात्कारणात, कुरुत विधत्त। एतदेवेति गम्यम्, सम्यग् भावशुद्ध्या। एतदेव व्यक्ततरमाह-यथा येन प्रकारेण, विरहो विनाशो, भवति जायते, कर्मणां ज्ञानाऽऽवरणाऽऽदीनाम् / (44) पञ्चा०१६ विव०। प्रव०। सांवत्सरिकपाक्षिकाष्टमीज्ञानपशमीरोहिणीतपांसि येन यावज्जीवमुचारितानि भवन्ति, स रोहिण्या अग्रतः पृष्ठतो वा आगमने षष्ठकरणशक्त्यभावे किं करोतीति प्रश्ने, उत्तरम् -अत्र सर्वथा षष्ठकरणशक्त्यभावे यत्तपः प्रथममागच्छतितत्तपः प्रथमं करोति, स्थितं तु पश्चात्कृत्वा प्रापयतीति ।३४प्र०। ही०४ प्रका०। रोहिणीदिनाऽऽराधकानां काचिद् मिथ्यामतिर्न वेति प्रश्रे,उत्तरम्-रोहिणीदिनाऽऽराधकानां मिथ्यामतिर्शाता नास्ति। 6 प्र०ा ही०१ प्रका०॥ ___ तपस्तथा कर्त्तव्यं यथा शरीरहानिर्न स्यात्तवसो अपिवासाई, संतो वि न दुक्खरूवगाणेआ। जं ते खयस्स हेऊ, निविट्ठा कम्मवाहिस्स।।१०।। तपसश्च पिपासाऽऽदयः सन्तोऽपि भिक्षाऽटनाऽऽदौ न दुःखरूपा ज्ञेयाः। किमित्यत्राऽऽह-यद् यस्मात्ते पिपासाऽऽदयः क्षयस्य हेतवो निर्दिष्टा भगवद्भिः कर्मव्याधेरितिगाथाऽर्थः / / 10 / / तथाहिबाहिस्स य खयहेऊ, सेविजंता कुणंति धिइमेव / कडुगाई विजणस्सा, ईसिं दंसिंतगाऽऽरोग्गं / / 11 / / व्याधेरपि कुष्ठाऽऽदेः क्षयहेतवः सेव्यमानाः कुर्वन्ति धृतिमेवकटु- काऽऽदयोऽपि जनस्य ईषदर्शयन्त आरोग्यम्, अनुभवसिद्धमेतदिति गाथाऽर्थः // 11 // किमेष दृष्टान्तोऽयमर्थोपनयःइअ एए चिअ मुणिणो, कुणंति धिइमेव सुद्धभावस्स / गुरुआणासंपाडण-चरणाइ सयं निदंसंता।।१२।। (इय) एवमेवैव क्षुदादयो मुनेः कुर्वति धृतिमेव, नतुदुःखं, शुद्धभावस्य रागाऽऽदिविरहितस्य, किं दर्शयन्तः सन्तः? गुर्वाज्ञासंपादनचरणादि स्वयं निदर्शयन्त इति गाथार्थः / / 12 / / ण य ते वि होंति पायं, अविअप्पं धम्मसाहणमइस्स। न य एगतेणं चिय, ते कायव्वा जओ भणियं // 13 // न च तेऽपि भवन्ति प्रायः क्षुदादयः, अविकल्पं मातृस्थानविरहेण धर्मसाधनमतेः प्रव्रजितस्य धर्मप्रभावादेव, न चैकान्तेनैव ते क्षुदादयः कर्तव्या मोहोपशमाऽऽदिव्यतिरेकेण यतो भणितमिति गाथाऽर्थः / / 13 / / किं तदित्याहसो हु तवो कायव्वो, जेण मणोऽमंगलं न चिंतेइ। जेण न इंदियहाणी, जेण य जोगा ण हायंति // 14 // तद्धितपः कर्त्तव्यमनशनाऽऽदि, येन मनोऽमङ्गलमसुन्दरं न चिन्तयति, शुभाध्यवसायनिमित्तात्कर्मक्षयस्य / तथा येनेन्द्रिय-हानिः, तदभावे प्रत्युपेक्षणाऽऽद्यभावात, येन च योगाश्चक्रवाल-सामाचार्यन्तर्गताः व्यापारा न हीयन्त इति गाथाऽर्थः // 14 // देहे वि अपिडबद्धो, जो सो गहणं करेइ अन्नस्स। विहिआणुट्ठाणमिणं, ति कह तओ पावविसओ ति? ||15|| देहेऽप्यप्रतिबद्धो यः विवेकात्स ग्रहणं करोत्यन्नस्यौदनाऽऽदेविंहितानुष्ठानमिति, नतुलोभायतश्चैवमतः कथमसौ पापविषय इति? नैव पापविषयः, एतेन कथं न पापविषय इत्येतत्प्रयुक्तमिति गाथाऽर्थः // 15 / / किंचतत्थ वि अधम्मझाणं, न य आसंसा तओ अ सुहमेव। सव्वमियमणुट्ठाणं, सुहाऽऽवहं होइ विन्नेअं॥१६|| तत्रापि चान्नग्रहणादधर्मध्यानं सूत्राऽऽज्ञासंपादनात्, न चाशंसा, सर्ववाभिष्वा निवृत्तेः। यतश्चैवं ततश्च सुखमेव, तत्राऽपि सर्व वस्त्रपात्राऽऽदि(इयं) एवमुक्तेन न्यायेन सूत्राऽऽज्ञासंपादनाऽऽदिना अनुष्ठान साधुसंबन्धि सुखाऽऽवह, भवति विज्ञेयमिति गाथाऽर्थः / / 16 / / पं०व०१ द्वार। "जहेव पायच्छित्ता ण पविसंति, तहा ससत्तीए तवो कम्मणाणुढेइ, तओ चउगुणं चउगुणं पायच्छित्तं!" मा०१ चूल पर्वसु तपो न करोतिसंते वलवीरियपुरिसयारपरक्कमें अट्ठभिचाउद्दसीनाणपंचमीपजोसवणचाउम्मासिए चउत्थऽट्ठमछट्टे ण करेजा खवणं कप्पं णायरइ चउत्थं कप्पं परिचविजा दुवालसं। महा०१ चू०। ''णो पूयणं तवसा आवहेजा।"(२७) नापि तपसा पूजनसत्का रमावहे त्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः / यदि वा पूजासत्कारनिमित्तत्वेन तथाविधार्थत्वेन वा महताऽपि के नचित्तपो मुक्ति हेतुकं न निःसारं कुर्यात् / तदुक्तम्-‘परलो