________________ तव 2203 - अभिधानराजेन्द्रः - भाग 4 तव णाणादेसपसिद्धा, ते सव्वे चेव होइ तवो // 25 // एवमादिदेवताः प्रतीत्यैतदाराधनयेत्यर्थः। (अवऊसग त्ति) अपवसनानि अवजोषणानिवा। तुः पूरणे। ये चित्रा नानादेशप्रसिद्धास्ते सर्वे चैव भवन्ति तप इति स्फुटमिति। तत्र रोहिणीतपो रोहिणीनक्षत्रदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत् / तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति।तथा बाह्य (अम्बा) तपः पञ्चसु पञ्चमीष्वेकाशनाऽऽदि विधेयम्। नेमिनाथाम्बिकापूजा चेति। तथा श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रत श्रुतदेवतापूजा चेति / शेषाणि तु रूढितोऽवसेयानीति गाथाऽर्थः // 25 // अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादि त्याशझ्याऽऽहजत्थ कसायणिरोहो, बंभंजिणपूयणं अणसणं च / सो सव्वो चेव तवो,विसेसओ मुद्धलोयम्मि॥२६।। यत्र तपसि कषायनिरोधो ब्रह्म जिनपूजनमिति व्यक्तम् / अनशनं च भोजनत्यागः / (सो ति) तत्सर्वं भवति तपो विशेषतः मुग्धलोके। मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनाऽपि प्रवर्तते, न पुनरादिति एव तदर्थं प्रवर्तितुं शक्नोति, मुग्धत्वादेवेति। सद् बुद्धयस्तु मोक्षार्थमेव विहितमिदमिति बुद्ध्यैव वा तपस्यन्ति / यदाह-- ''मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः। " इति / मोक्षार्थघटना चाऽऽगमविधिनैव। आलम्बनान्तरस्यानाभोगहेतुत्वादिति गाथाऽर्थः // 26|| न चेदं देवतोद्देशेन तपः सर्वथा निष्फलमैहिकफलमेव वा, चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाहएवं पडिवत्तीए, एत्तो मग्गाणुसारिभावाओ। चरणं विहियं बहओ, पत्ता जीवा महाभागा / / 27 // एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वा- / ऽऽदिहेतुना, प्रतिपत्त्या तपोरूपोपचारेण; तथा इत उक्तरूपात्कपायाऽऽदिनिरोधप्रधानात्तपसः। पाठान्तरेणएवमुक्तकरणेन मार्गानुसारिभावात् सिद्धिपथानुकूलाध्यवसायाचरणं चारित्रम, विहितमाप्तोपदिष्ट, बहवः प्रभूताः, प्राप्ता अधिनताः, जीवाः सत्त्वाः, महाभागाः इति गाथाऽर्थः // 27 // पठितोऽधीतस्तपोविशेषस्तपोभेदः, अन्यैरपि ग्रन्थकारैः,तेषु तेषु शास्त्रेषु, नानाग्रन्थेष्वित्यर्थः। नन्वयं पठितोऽपि साभिष्वङ्गत्वान्न मुत्तिमार्ग इत्याशझ्याऽऽहमार्गप्रतिपत्तिहेतुः शिवपथाऽऽश्रयणकारणम् / यश्च तत्प्रतिपत्तिहेतुः स मार्ग एवोपचारात् कथमिदमिति चेदुच्यते-हन्दीत्युपप्रदर्शन। विनेयानुगुण्येन शिक्षणीयसत्त्वानुरूप्येण भवन्ति हि के चित्ते विनेया ये साभिष्वङ्गानुष्ठानप्रवृत्ताः सन्तो निरभिष्वङ्ग मनुष्ठानं लभन्ते इति गाथाद्वयार्थः / / 26 / / पञ्चा०१६ विव०। अथैत्ते तपोविशेषा आगमे नोपलभ्यन्त इत्याशङ्कां परिहरन्नाहचित्तं चित्तपयजुयं, जिणिंदवयणं असेससत्तहियं / परिसुद्धमेत्थ किं तं, जंजीवाणं हिणं णऽस्थि / / 3 / / चित्रमुद्भुतमनेकातिशयाभिधानत्वादङ्गानङ्गाऽऽदिभेदत्वादा चित्रमनेकविधम् / तथा चित्रपदयुतं नानाविधार्थप्रतिपादकाभिधानयुक्तम्, जिनेन्द्रवचनं जिनेश्वराऽऽगमः, अशेषसत्त्वहितं समस्तप्राण्युपकारकं, भव्यानुसारेण मार्गप्रतिपत्त्युपायप्रतिपादनपरत्वात्। परिशुद्धं कषच्छेदतापविशुद्धं सुवर्णमिव निर्दोषम् / एवं चात्रास्मिन् जिनवचने किं तद्व्वजीवानां हितं नास्ति? सर्वमपि जीवानां हितमस्तीत्यत इदं तपः परिदृश्यमानाऽऽगमेऽनुपलभ्यमानमप्युपलब्धमिवावगन्तव्यं, तथाविधजनहितत्वादिति गाथाऽर्थः // 36 // तथासव्वगुणपसाहण मो, णेओ तिहिँ अट्ठमे हि परिसुद्धो। दंसणणाणचरित्ताण एस रेसिम्मिसुपसत्थो / // 40 // सर्वगुणप्रसाधनः सकलगुणाऽऽवह इति पर्यायस्तपोविशेषः / मो' निपातः पूरणार्थः / ज्ञेयोऽवसेयः, त्रिभिरष्टमैरुपयासत्रयलक्षणैः, परिशुद्धोऽनवद्यः, दर्शनज्ञानचरित्राणां प्रतीतानाम्, एषोऽयम्। (रेसिम्मि त्ति) निमित्तं, सुप्रशस्तोऽतिशयशुभः / तत्रैकमष्टमं दर्शनगुणशुद्धये, एवमपरद्वयं द्वयपरिशुद्धये इति गाथाऽर्थः / / 40 // अथ सर्वाङ्गसुन्दराऽऽदितपरसु सनिदान एव प्राणी प्रवर्त्तते, ततो न न्याय्यान्येतानीत्याशङ्कापरिहारार्थमनिदानतामेषु प्रवृत्तस्य दर्शयन्नाहएएसु वट्टमाणो, भावपवित्तीऍ वीयभावाओ। सुद्धाऽऽसयजोगेणं, अणियाणो भवविरागाओ॥४१|| एतेष्वनन्तरोक्ततपस्सु प्रवर्तमानो व्याप्रियमाणो जीवः / "एतेसु बहुभाणा" इति पाठान्तर, व्यक्तं च / कया? भावप्रवृत्त्या बहुमान-- सारक्रियया, अनिदान इति योगः / कु त इत्याह-बीजभावात् बोधिबीजविकलस्य देहिनो बोधिबीजभवनेन / एतदेव कथमित्याह-- शुद्धाऽऽशययोगेन शुभाध्यवसायसंबन्धेन। शुभाध्यवसायाद्धि बोधिबीज स्यात् / अनिदानो निदानरहितः स्यात् / तथा-भवविरागा-त्संसारनिर्वेदाद्यत्किल भवविरागाऽऽदिनिमित्तं तन्निदानं न भवति बोद्ध्यादिप्रार्थनमिव, भवविरागाऽऽदिहेतवश्वोक्ततपांसि केषाञ्चिदतो निर्निदानानि, इति गाथाऽर्थः / / 41|| निर्निदानत्वादेवतेषां निर्वाणाङ्गतामाचार्यान्तरमतेनाऽपि दर्शयन्नाहविसयसरूवऽणुबंधेहि तह य सुद्धं जओ अणुट्ठाणं / णिव्वाणगं भणियं, अण्णेहि वि जोगमग्गम्मि॥४२॥ तथा सव्वंगसुंदरो तह, णिरुजसिहो परमभूसणो चेव / आयइजणगो सोहग्गकप्परुक्खो तहऽण्णो वि॥२८॥ पढिओ तवो विसेसो, अण्णेहिँ वि तेहि तेहिं सत्थेहिं।। मग्गपडिवत्तिहेउं, इंदि विणेयाणुगुण्णेणं // 26 // सर्वाङ्गानि सुन्दराणि यतस्तपोवशेषात्स सर्वाङ्गसुन्दरः / तथेति समुचये / रुजाना रोगाणामभावो निरुज, तदेव शिखेव शिखा प्रधानं फलतया यत्राऽसौ निरुजशिखः। तथा परमाण्युत्तमानि भूषणान्याभरणानि यतोऽसौ परमभूषणः / चैवेति समुचये। तथा आयतौ आगामिकालेऽभीष्टफलं जनयति करोतियोऽसावायतिजनकः / तथा-सौभाग्यस्य सुभगतायाः संपादने कल्पवृक्ष इव यः स सौभाग्यकल्पवृक्षः / तथेति समुच्चये / अन्योऽप्यपरोऽपि उक्ततपोविशेषात् / / 28! किमित्याह