________________ तव 2202 - अभिधानराजेन्द्रः - भाग 4 तव न्तराभिधानायाऽऽह-सर्व एव चेत्यादि श्लोकद्वयम्। अथवा दुःखाऽऽत्मकं तपः केचिन्मन्यन्ते कर्मोदयस्वरूपत्वाद् बलीवाऽऽदिशब्देन विशेषितत्वाद् दृष्टान्तस्येति सद्धेतुरेवायं वृक्षोऽयं, शाखाऽऽदिमत्त्वात्, ग्रामवृक्षवदित्यादिवदिति। अत्राऽऽचार्य आह-तनयुक्तिमदिति। कुत इत्याहसर्व एव चेत्यादि श्लोकद्वयम् / इह चशब्दो यरमादर्थे द्रष्टव्यः / आचार्य एवोभयत्र परस्थोपदेशमाह-युक्त्यागमेत्यादि / इदमिति तपसो दुःखाऽऽत्मकत्वमननं, शेषं तु श्लोक चतुष्टयं पूर्ववदेव, नवरं "मनइन्द्रिययोगानामहानिश्चोदिता जिनैः," इत्यत्र चशब्दः पूर्वोक्तयुक्त्यपेक्षया युक्त्यन्तरसमुच्चयार्थो द्रष्टव्य इति॥८॥ हा०११ अष्ट। तपश्चान्द्रायणं कृच्छ्रे , मृत्यघ्नं पापसूदनम् / आदिधार्मिकयोग्यं स्यादपि लौकिकमुत्तमम् / / 17 / / तप इति / लौकिकमपि लोकसिद्धमपि, अपिर्लोकोत्तरं समुचिनोति, उत्तम स्वभूमिकोचितशुभाध्यवसायपोषकम्। द्वा० 12 द्वा०। यो० वि०। ज्ञानसारीयं तपोऽष्टकम्ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः। तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् / / 1 / / आनुस्रोतसिकी वृत्तिर्बालानां सुखशीलता। प्रातिस्रोतसिकी वृत्ति निनां परमं तपः / / 2 / / धनार्थिनां यथा नास्ति, शीततापाऽऽदिदुःसहम्। तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि // 3 // सदुपायप्रवृत्तानामुपेयमधुरत्वतः। ज्ञानिनां नित्यमानन्द-वृद्धिरेव तपस्विनाम् ||4|| इत्थं च दुःखरूपत्वात्तपो व्यर्थमितीच्छताम् / बौद्धानां निहता बुद्धि-बौद्धाऽऽनन्दाऽपरिक्षयात्।।५।। यत्र ब्रह्मजिनार्चा च, कषायाणां तथा हतिः। सानुबन्धा जिनाऽऽज्ञा च, तत्तपः शुद्धमिष्यते // 6 // तदेव हि तपः कार्य, दुनिं यत्र नो भवेत्। येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि वा // 7 / / मूलोत्तरगुणश्रेणि-प्राज्यसाम्राज्यसिद्धये। बाह्यमाभ्यन्तरं चेत्थं, तपः कुर्यान्महामुनिः ||8|| अष्ट०३१ अष्ट ('भिक्खाग' शब्दे तेषां चतुर्विध तपो वक्ष्यते) (कियताऽनशनेन कियती निर्जरा भवतीति 'अण्णइलाय' शब्दे प्रथमभागे 444 पृष्ठे द्रष्टव्या) प्रकीर्णकतपांसिएसो वारसभेओ, सुत्तनिबद्धो तवो मुणेयव्वो। एयविसेसो उ इमो, पइण्णगोऽणेगभेउ त्ति ||4|| इह तपः शब्दस्य प्राकृतत्वेन पुल्लिङ्गनिर्देशः। एतदनन्तरोक्तं द्वादशभेदमुभयेषां मेदानां मीलनत्वात्। सूत्रनिबद्धं शासनोक्तम्, तपस्तपस्या (मुणेयव्वो त्ति) ज्ञातव्यम्। एतद्विशेषस्तु अनन्तरोक्ततपोभेद एव (इमो त्ति) इदं वक्ष्यमाणं तपः प्रकीर्णकं व्यक्तितः सूत्रनिबद्धम्, न भिक्षुप्रतिमाऽऽदिवत्सूत्रे निबद्धमित्यर्थः / न चोत्सूत्रत्वमस्य, द्वादशभेदतपस्यन्तर्भावात् / तचाऽनेकभेदमनेकविधाऽऽलम्बनत्वात्। इतिशब्दः समाप्तौ। इति गाथाऽर्थः / / 4 / / प्रकीर्णकमेव तपो दर्शयन्नाहतित्थयरणिग्गमाई, सव्वगुणपसाहणं तवो होइ। भव्वाण हिओ णियमा, दिसेसओ पढमठाणीणं / / 5 / / तीर्थकरनिर्गमाऽऽदि येन तपसा तीर्थकरा निक्रान्ताः; आदिशब्दात्तीर्थकरज्ञाननिर्वाणाऽऽदिग्रहः / किंभूतमिदमित्याह--सर्वगुणसाधक तीर्थकरनिर्गमनाऽऽद्यालम्बनस्य शुभभावप्रकर्षरूपत्वेन ऐहलौकिकाऽऽद्युपकारकारित्वात् / लपो भवतीति व्यक्तम् / अत एव भव्यानां हितं नियमादिति व्यक्तम् / विशेषतः पुनः प्रथमस्थानिनामव्युत्पन्नबुद्धीनां हितत्वादेव निरालम्बनतयाऽपि शुभभावप्रकर्षसंभवात् सर्वमपि हितमेवेति गाथाऽर्थः // 5 / / पञ्चा० 16 विव०॥ चान्द्रायणाऽऽदितपःचंदायणाइ य तहा, अणुलोमविलोमओ तवो अवरो। भिक्खाकवलाण पुढो, विण्णेओ वुड्डिहाणीहिं / / 18 / / चन्द्रायणमिव चन्द्रायणं, तदादि च, आदिशब्दाद्भद्रामहाभद्रासर्वतोभद्रारत्नावलीकनकावल्येकावलीसिंहनिष्क्रीमितद्वयाऽऽचाम्लवर्द्धमानुगुणरत्नसंवत्सरसप्तसप्तमिकाऽऽदिचतुष्टयकल्याणकाऽऽदितपसामागमप्रसिद्धानां ग्रहः। तथेति वाक्यान्तरोपक्षेपार्थो गाथाऽऽदौ दृश्यः / अनुलोमविलोमतो गतप्रत्यागत्या, तपोऽपरमन्यत् / कथम् ? भिक्षाकवलाना प्रतीतानां पृथग्भेदेन, विज्ञेयो ज्ञेयो वृद्धिहानिभ्यामिति गाथाऽऽर्थः // 18 // पञ्चा०१६ विव० रोहिण्यादितपःअण्णो वि अस्थि चित्तो,तहा तहा देवयाणिओएण। मुद्धजणाण हिओ खलु,रोहिणिमाई मुणेयव्वो / / 23 / / अन्यदपि, अस्ति विद्यते, चित्रम्, तप इति गम्यते। तथा तथा तेन तेन प्रकारेण लोकरूढेन, देवतानियोगेन देवतोद्देशेन मुग्धजनानामध्युत्पन्नबुद्धिलोकानां, हितं खलुपथ्यमेव, विषयाभ्यासरूपत्वात्। रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि। (मुणेयव्वो त्ति) ज्ञातव्यम् / पुँल्लिङ्गता च सर्वत्र प्राकृतत्वादिति गाथाऽर्थः // 23 // देवता एव दर्शयन्नाहरोहिणि अंबा य तहा, मंदउणिया सव्वसंपयासोक्खा। सुयसंतिसुरा काली, सिद्धाईया तहा चेव।।२४।। रोहिणी 1 अम्बा 2, तथा-मन्दपुण्यिका 3, (सव्वसंपयासोक्ख त्ति) सर्वसंपत् 4, सर्वसौख्या चेत्यर्थः 5 / (सुयसंतिसुर त्ति) श्रुतदेवता 6, शान्तिदेवता चेत्यर्थः 7 / “सुयदेवयसंतिसुरा'' इति वा पाठान्तरम्, व्यक्तं च / काली 8, सिद्धायिका 6, इत्येता नव देवताः / तथा चैवेति समुचयार्थः। "संवाइया चेव'' ति पाठान्तर-मिति गाथाऽर्थः // 24 // ततः किमित्याहएमाइदेवयाओ, पडुच्च अवऊसगा उजे चित्ता।