________________ तव 2201 - अभिधानराजेन्द्रः - भाग 4 तव तथा"ता जह न देहपीला, न यावि चुयमससोणियत्तं तु। जह धम्मझाणवुड्डी, तहा इमं होइ कायव्वं // 2 / / " तदिति तस्मात्कारणात्, कथं केन प्रकारेण? न कथञ्चिदित्यर्थः। नु इति वितर्के, अस्य तपसः,युक्ता उपपन्ना, स्याद्भवेत्, दुःखरूपता असुखस्वभावता / तदेवं दुःखाऽऽत्मकत्वं तपसोऽसिद्ध, तदसिद्धावयुक्तिमत्त्वमप्यसिद्धमित्युक्तमिति // 5|| ननु देहपीडाकरत्वेनाऽनशनाऽऽदीनां दुःखस्वरूपत्वमनुभूयमानमपि कथमसिद्धमिति व्यपदिश्य त इत्याहयाऽपि चानशनाऽऽदिभ्यः, कायपीडा मनाक् क्वचित्। व्याधिक्रियासमा साऽपि, नेष्टसिद्धयाऽत्र बाधिनी॥६॥ (याऽपीति) अनशनाऽऽदिभ्य उक्तन्यायेन तावद् देहपीडा न भवत्येव, याऽपि चानशनाऽऽदिभ्य उपवासाऽऽदिभ्यः, आदिशब्दादूनोदरताऽऽदेः सकाशात्, कायपीडा शरीरबाधना, नतुमनःपीडा, मनाक् स्वल्पा, क्वचिद्देशे कालेवा, न पुनः सर्वत्र सर्वदा सासंभवति। उक्तन्यायप्रवृत्तस्य साऽपीति इह दृश्यते नासावपि न बाधनी, न वा बाधिका, न मनसो दुःखदा। किमित्यत आह-इष्टसिद्ध्या वाञ्छितार्थसाधनात्, अत्र प्रवचने, किंविधाऽसावित्याह-व्याधिक्रियासमा रोगचिकित्सातुल्या / यथा हि रोगचिकित्सायां मनाक् देहस्य पीडा सत्यपिनबाधिका, आरोग्यसिद्धेः, एवं तपस्यपि देहपीडाभावाऽऽरोग्यसंसिद्धेर्न भावतो बाधिकेति भावनेति / / 6 / / इष्टार्थसिद्धौ देहपीडाया अदुःखरूपतां दृष्टान्तेन समर्थयन्नाहदृष्टा चेष्टार्थसंसिद्धौ, कायपीडा ह्यदुःखदा। रत्नाऽऽदिवणिमादीनां, तद्वदत्रापि भाव्यताम्॥७|| न केवलमरमाभिरेवेहोपन्यस्ता, दृष्टा च लोके अवलोकिता, इष्टार्थसंसिद्धावभिप्रेतप्रयोजनप्राप्तौ सत्यां, कायपीडा देहबाधा, हिशब्दः स्फुटार्थः, अदुःखदान पीडाकारिणी, केवामित्याह-रत्नानि मरकताऽऽदीनि आदिर्येषां वस्त्रसुवर्णाऽऽदीनां तानि तथा तेषां, वणिव वाणिजको रत्नाऽऽदिर्वाणक् स आदिर्येषां कृषीबलाऽऽदीनां ते तथा तेषां, रत्नाऽऽदिवणिगादीनाम् / ततः किमित्याह तेषामिव वणिगादीनामिव तद्वत्, अत्रापि अनशनाऽऽदितपोविषयेऽपि, भाव्यता निपुणधिया पर्यालोच्यताम्। तथाहि-रत्नसुवर्णवसनाऽऽदिवणिक्कृषीवलाऽऽदीनां समीहितार्थसंसिद्धिबद्धनिश्चयानाम् अपारपारावारावतारकान्तारनिस्तरणधरणीकर्षणाऽऽदिविविधव्यापारपरायणानां क्षुत्पिपासाश्रमाऽऽदिजनितदेहपीडा न मनोविधुरताऽऽधायिनी; एवं साधूनामपारसंसारसागरमचिरादुत्तितीषूणामनशनोनोदरताऽऽदितपोजनितदेहपीडा न मनोबाधाविधायिनीति // इह पुनर्विशेषसम्प्रदाय केचिदेवमूचुःकिल कोऽपि दरिद्रवणिजको दूरदेशान्तरं गत्वा कथं कथमपि रत्नान्युपार्जितवान्, चिन्तितवाश्वकथमहमेतानि महामूल्यानि सर्वाऽऽशासम्पादकानि महारत्नानि चौरव्याकुलमरण्यं निस्तीर्य स्वनगर गत्वोपभोग नेष्यामि? ततस्तेनोत्पन्नबुद्धिना तान्येकत्र स्थाने निहितानि, काचाऽऽदिसकलानिच पोट्टलिकायां बद्धानि। सा च दण्डाग्रे निबद्धा / ततश्चोरपल्लिमध्येनाऽहो! रत्नवणिजको गच्छतीत्येवं महता शब्देन व्याहरन्नरण्यमतिक्रामति स्म। ततो मार्गे पल्लीषु च ये जनाः, ते तं वीक्ष्य ससंभ्रममागत्य निभालयन्ति स्म / अपश्यश्च काचाऽऽदिशकलानि, अवधीरितवन्तश्च ग्रहगृहीतोऽयमिति विभावयन्तः। ततः पुनरपि तथैव निवृत्तः, तत्रापि यैः पूर्वन वीक्षित आसीत्, ते तथैववीक्षितवन्तोऽथावधीरितवन्तश्च / एवं पुनरपि असावरण्यमध्येन गतवान्। ततस्तृतीयवेलायामतिपरिचितत्वादवधीरितस्तस्करजनेन। ततोऽसौ निश्चितवानन मां कोऽपि अत्राऽरण्यमार्गे स्खलयिष्यति / इति निश्चित्य रत्नानि गृहीत्वा शीघ्र तदुपयोगाय वाञ्छितपुरप्राप्तावरण्यात्तन्निर्वाहणे चातीवौत्सुक्येनाऽनवरते महाप्रयाणकैः क्षुत्पिपासाश्रमाऽऽदीन् भवतो भूयसोऽप्यवगणयन् गन्तुं प्रवृत्तः / बहुतरमार्गमतिलजितः सन् पिपासाऽभिभूतो भावयामास-अहो ! अहमद्य जलं विना निये, न च रत्नोपभोगभाजनं भवामीत्येवं भावयता मरणभयभीतेन रत्नोपभोगाऽऽकाङ्गिणा दृष्ट सरः पङ्कप्रायपानीयं पङ्कमग्नमृगाऽऽदिकडेवरपूयकृमिजालव्याकुलं विलीनमतिदुर्गन्धं विरसतुच्छजलम् / दृष्ट्वा च गन्धमजिघ्रता रसमनास्वादयता दुष्करकरणं कुर्वता अक्षिणी निमील्याजलिभिस्तत्पीतवान्, पर स्वास्थ्य नागमत्, तदुपष्टम्भितश्च क्षीणपिपासादुःखोत्क्षेपणेष्टपुरं प्राप्तः, रत्नोपयोगसुखं चेति / उपनयस्तु प्रागुक्त एवेति // 7 // तदेवं दुःखाऽऽत्मकतां तपसो व्युदस्य कर्मोदय स्वरूपतांव्युदस्यन्नाहविशिष्टज्ञानसंवेग-शमसारमतस्तपः। क्षायोपशमिकं ज्ञेयमव्याबाधसूखाऽऽत्मकम् // 8|| विशिष्टाः प्रधानाः सम्यग्दर्शनविशेषितत्वात्-ज्ञानं च तत्त्वसंवेदन, संवेगश्च संसारभयं, मुक्तिमार्गाभिलाषिता वा, शमश्च कषायेन्द्रियमनसा निरोधः ज्ञानसंवेगतमाः, विशिष्टाश्च ते चेति कर्मधारयः / त एव सारोऽन्तर्गर्भो यस्य, तेर्वा सारं यत्तत्तथा / ज्ञानाऽऽदिसारमेव तपस्तपो भवति, नेतरदल्पफलत्वात् / यदाह-सर्व्हि वाससहस्सा'' गाहा। "छञ्जीवकायवहगा' गाहा। अत इति। यस्मादुक्तयुक्तरदुःखाऽऽत्मकमत एतस्माद्धेतोस्तपोऽनशनादि। किमित्याह-क्षयेण उदीर्णचारित्रमोहनीयकर्मणश्छेदेन सह उपशमस्तस्यैव विपाकापेक्षया विष्कम्भितोदयत्वं क्षयोपशमः, तत्र भवं क्षायोपशमिकम, ज्ञेयं ज्ञातव्यम्। न पुनः कर्मोदयस्वरूपम् / तथा अविद्यमाना व्यावाधा अविरतिजनिता अनन्तराः पारम्पर्यकृता वा ऐहिक्यः पारत्रिका वा यस्मिस्तदव्याबाधं,तच तत्सुखं च तदेवाऽऽत्मा स्वभावो यस्य तदव्याबाधसूखाऽऽत्मक प्रशमसुखाऽऽत्मकसिद्धसुखानुकारीत्यर्थः / अनेन च श्लोकेन तपसोऽकर्मोदयस्वरूपत्वमसुखत्वरूपत्वं वाऽऽवेदितम्। उक्त चैतदन्यत्रापि-- "जं इय इमं न दुक्खं, कम्मविवागो वि सव्वहा नेवं / खाउवसमिए भावे, एयं ति जिणागमे भणियं / / 1 / / खंताइसाहुधम्मे, तवगहणं सो खओवसनियम्मि। भावम्मि विणिहिट्ठो, दुक्खं चोएइ भे सव्वं // 2 / / " एतेन चतपसोदुःखरूपत्वकर्मोदयस्वरूपत्वपरिहारेण सर्व एव हि दुःख्येवमित्यादिश्लोकद्वयाभिहितं तपोदूषणं सर्वपरिहतमवगन्तव्यम्, दुःखस्वरूपत्वाऽऽश्रयत्वात्तस्येति / अन्ये त्विदमष्टकमेवं व्याचक्षतेदुःखाऽऽत्मकं, दुःखमेवेत्यर्थः / तपः केचिन्मन्यन्ते, तदेव दुःखाऽऽत्मकतपोमननं न युक्तिमत्। कुत इत्याह-कर्मोदयस्वरूपत्वाद् दुःखस्य। किंवदित्याहबलीवदीऽऽदिदुःखवत्, तपसश्च क्षायोपशमिकत्वादिति। इहैव दूषणा