________________ तमुक्काय 2165 - अभिधानराजेन्द्रः - भाग 4 तमुक्काय स्तम् / (तिहिं अच्छरानिवाएहिं ति) तिसृभिश्चप्युटिकाभिरित्यर्थः। (तिसत्तखुत्तो ति) त्रिगुणाः सप्त त्रिसप्त, त्रिसप्तवारान् त्रिसप्तकृत्व :, एकविंशतिवारानित्यर्थः / (हव्वं ति) शीघ्रम् (अत्थेगइयमित्यादि) संख्यातयोजनमानं व्यतिव्रजेत्, इतरं तु नेति। (उराला बलाहय त्ति) महान्तो मेघाः (संसेयं ति त्ति) संस्वेदनं, संमूर्छन, वर्षणं च (वायरविजुयाए त्ति) इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निपत्स्यमाणत्वात्, किं तु देवप्रभावजनिता भाग्वराः पुद्गलास्त इति / (णण्णत्थ विग्गहगइसमावण्णेण ति) नइति योऽयं निषेधो बादरपृथिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नान् विग्रहगत्यैव बादरे ते भवतः। पृथिवी हि बादर रत्नप्रभऽऽद्यास्वष्टासु पृथिवीषु गिरिविमानेषु च, तेजस्तु मनुजक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति। (पलिपरसओ पुण अस्थि ति) परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्राऽऽदय इत्यर्थः / (कादूतणिया पुण सा इति) ननु तत्पार्श्वतश्चन्द्राऽऽदीनां सद्भावात्तत्प्रभापि तवाऽस्ति? सत्यम्, केवलं कमात्मानं दूषयति तमस्काय-परिणामेन परिणमनात्कदूषणा, सैव कदूषणिका। दीर्घता च प्राकृतत्वात्, अतः सत्यप्यसावसतीति। (काले त्ति) कृष्णः (कालोभासे त्ति) कालोऽपि कश्चित् कुतोऽपि कालो नावभासत इत्यत आह-- कालावभासः। कालदीप्तिर्वा, (गंभीरलोमहरिसजणणे त्ति) गम्भीरश्वासौ भीषणत्वाद्रोमहर्षजननश्वेति गम्भीररोमहर्षजननः / रोमहर्षजनकत्वे हेतुमाह-(भीमे ति) भीष्मः (उत्तासणएत्ति) उत्कम्पहेतुः। निगमयन्नाह(परमेत्यादि) यत एवमत एवाऽऽह-(देवे विणमित्यादि)(तप्पढमयाए त्ति दर्शनप्रथमतायाम् (खुभाएज ति) स्कम्नीयात् क्षुभ्येत्, (अहे णमित्यादि) अथैन तमस्कायमभिसमागच्छेत् प्रविशेत्ततो भयात् (सीहं सीहं ति) कायगतेरतिवेगेन (तुरियं तुरियं ति) मनोगतेरतिवेगात्। किमुक्तं भवति? क्षिप्रमेव (बीईवएज त्ति) व्यतिवभेदिति। भ०६ श०५उ० तमुक्कायस्सणं चत्तारिणामधेजा पण्णत्तातं जहा-तमेइवा, तमुक्कायेइ वा, अंधकारेइ वा, महंधकारेइ वा / तमुक्काय-स्स णं चत्तारि णामधेजा पण्णत्ता / तं जहा-लोगंधयारेइ वा, लोगतमसेइ वा, देवंधयारेइ वा, देवतमसेइ वा / तमुक्काय-- स्स णं चत्तारि णामघेज्जा पण्णत्ता / तं जहा-वायफलिहेइ वा, वायफलिहखोभेइ वा,देवारणेइ वा, देववूहेइ वा / तमुक्काए णं चत्तारि कप्पे आवरित्ता चिट्ठइ / तं जहा-सोहम्मीसाणं सणंकुमारमाहिंदं। (तमुक्कायेत्यादि) सूत्रत्रयं सुगमम् / नवरं तमसोऽप्कायपरिणामस्वरूपस्याऽन्धकारस्य कायः प्रचयस्तमस्कायो, यो ह्यसंख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं समुद्र द्विचत्वारिंशद्योजनसहस्राण्यवगाह्योपरितनात जलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तददशैकविंशत्यधिकानियोजनशतानि ऊर्द्धमुत्पत्त्य ततस्तिर्यग्विस्तृणन् सौधर्माऽऽदीन् चतुरो देवलोकानावृत्योर्द्धमपि ब्रह्मलोकस्य रिष्टविमानप्रस्तट संप्राप्तः,तस्य नामान्येव नामधेयानि तम इति तमोरूपत्वाद्, इति रूपप्रदर्शने, वा विकल्पे, तमोमात्ररूपताऽभिधायकान्याद्यानि चत्वारि नामानि / तथा पराणि चत्वार्येवात्यन्तिकतमोरूपताऽभिधायकानीति लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभासनादिति देवान्धकारः / अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति / तथाऽन्यानि चत्वारि कार्याऽऽश्रयाणिवातस्य परिहननात परिघोऽर्गला, परिघ इव परिघो, वातस्य परिघो वातपरिघः, तथा वातं परिघवत क्षोभयति हतमार्ग करोतीति वातपरिक्षोभः, वात एव वा परिघस्तं क्षोभयति यस्य तथा / पाठान्तरेणवातपरिक्षोभ इति / क्वचिद्देवपरिधो देवपरिक्षोभ इति चाऽऽद्यपदद्वयस्थाने पठ्यते / देवानामरण्यमिय बलवद्भयेन नाशनस्थानत्वाद्यः स देवारण्यामिति / देवानां व्यूहः सागराऽऽदिः साङ् ग्रामिकव्यूह इव यो दुरधिगमत्वात्स देवव्यूह इति / तमस्कायस्वरूपप्रतिपादनायैव (तमुक्काए णमित्यादि) सूत्रं गतार्थम्। किंतु सौधर्माऽऽदीनाऽऽवृणोत्यसौ कुक्कुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनात्। उक्तं च-'तमुक्काएणं भंते ! किं संठिए पण्णत्ते / गोयमा ! अहे मल्लगमूलसंठिए, उप्पिं कुक्कुडपंजरसंठिए पण्णत्ते।" इति। स्था०४ ठा०२उ०। अथ पृथिव्यप्कायपर्यायतां पृथिव्यवायौ जीवपुद्गल रूपाविति तत्पर्यायता प्रश्रयन्नाहतमुक्कायस्स णं भंते ! कइनामधेज्जा पण्णत्ता? गोयमा ! तेरस नामधेजा पण्णत्ता / तं जहा-तमेइवा, तमुक्काएइवा, अंधकारेइ वा, महंधकारेइ वा, लोगंधकारे वा, लोगतमिस्सेइ वा, देवंधकारेइ वा, देवतमिस्सेइवा, देवारण्णेइवा, देववूहेइ वा, देवफलिहेइ वा, देवपडिक्खोभेइ वा, अरुणोदएइ वा समुद्दे / तमुक्काए णं भंते ! किं पुढविपरिणामे, जीवपरिणामे, आउपरिणामे, पोग्गलपरिणामे? गोयमा! नो पुढविपरिणामे, आउपरिणामे वि, जीवपरिणामे वि, पोग्गलपरिणामे वि। तमुक्काए णं भंते ! सव्वे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए०जाव तसकाइयत्ताए उववण्णपुव्वा? हंता / गोयमा ! असई अदुवा अणंतखुत्तो, णो चेव णं बादरपुढविकाइयत्ताए, बादरअगणिकाइयत्ताए। (तमेइ वा इत्यादि) तमः, अन्धकाररूपत्वात इति एतद्, वा विकल्पार्थः, तमस्काय इति वा; अन्धकारराशिरूपत्वात्, अन्धकारमिति वा; तमोरूपत्वात्, महान्धकारमिति वा; महातमोरूपत्वात्, लोकान्धकारमिति वा, लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याऽभावात, एवं लोकतमिस्रमिति वा; देवान्धकारमिति वा; देवानामपि तत्रोद्योताभावेनान्धकाराऽऽत्मभावात् / एवं देवतमिस्रमिति वा; देवाऽरण्यमिति वा,बलवदेवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात, देवव्यूह इति वा, देवानां दुर्भद्यत्वाद् व्यूह इव चक्राऽऽदिव्यूह इव देवव्यूहः, देवपरिध इति वा; देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोभ इतिवा; तत्क्षोभहेतुत्वात् अरुणोदक इति वा समुद्रः अरुणोदकसमुद्रः,जलविकारत्वादिति / पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा, अथ पृथिव्यप्कायपर्यायतां पृथिव्यप्कायो जीवपुद्गलरूपाविति तत्पर्यायतां प्रश्नयन्नाह-(तमुक्काए णमिति) बादरवायुवनस्पतयः त्रसाश्च तत्रोत्पद्यन्ते, अप्काये तदुत्पत्तिसम्भवाद्, न वितरेऽस्वस्थानत्वात् / अत उक्तम्-(नो चेव णं इत्यादि) भ०६ श०५उन