________________ तमुक्काय 2163 - अभिधानराजेन्द्रः - भाग 4 तमुक्काय भवतीति ब्रूम इति / नैतदुपपत्तिपदवी प्रतिपद्यते, यतः स्पर्शवन्त एव तामसाः परमाणवः प्रोच्यन्ते / यत्पुनस्तत्रोपादेशिस्पर्शवतस्तत्कार्यद्रव्यस्य वचिदप्यनुपलम्भादिति / तदसत्यम्, शीतस्पर्शवतस्तमोद्रव्वस्यैव तत्कार्यस्य दर्शनात्। तत्र स्पर्शसद्भावे किं प्रमाणम्? इति चेत् / तदभावे किं प्रमाणम् ? इति वाच्यम्, न हि तत्प्रतिषेधकप्रमाणमन्तरेणाऽस्पर्शवत्त्वात् कार्यद्रव्यानारम्भस्त्वया प्रसाधयितुं शक्यते, अस्माकं तु तत्सद्भावे प्रमाणाभावेऽपि तावदनकाचित क्षतिः। न च नास्त्येव तत, प्रत्यक्षस्यैव सद्भावात्। तथाहि-दिवा दिवाकरकरालाऽऽतपप्रपातोपतप्तवपुषः पथिकास्तमिस्रासन्तमसशैत्यसंपर्कात् प्रमोदन्ते; न च तापाभावमात्रसूत्रित एव तेषां प्रमोदः, प्रतीतिबाधात, तन्मात्रनिमित्तो हि घटोऽत्र नास्तीतिवत् तापः संप्रति नास्तीति प्रतिषेधमुख एव प्रत्ययः प्रादुः ष्यात्, न तु संप्रति शीतलीभूतं मे शरीरमिति विधिमुखः, तथात्वे हि तमोऽभावमात्रसूत्रित एवायमालोकप्रत्यय इत्यपि वावदूकस्य वदतो वदनं न वक्रीभवेत्। अथान्धकारनिबन्धनत्वे शैत्यस्पर्शप्रत्ययस्य निविडतरघटितकपाटसंपुटे गवलकुवलयकलकण्ठीकण्ठकाण्डकृष्णान्धकारैकार्णवीभूते कारागारे क्षिप्तस्य पुंसः सुतरां तत्प्रत्ययो भवेत्, इति चेत्।तापाभावनिमित्ततायामपि सुतरा स किं तत्र न स्यात्? तत्रात्यन्तं तापाभावसम्भवात् / तस्माद् मन्द-- मन्दसमीरलहरिपरिचय एव जलस्पर्शस्येव तत्स्पर्शस्याऽप्यभिव्यक्ती हेतुः, न चासौ तत्रास्तीतिन तत्र तत्प्रतीतिः प्रादुर्भवति। अनुमानतोऽपि तत्र स्पर्शप्रतीतिः, तथाहि-तमः स्पर्शवद्, रूपवत्त्वात्, पृथ्वीवत्। नच रूपवत्त्वमसिद्धम्, अन्धकारः कृष्णोऽयमिति कृष्णाऽऽकारप्रतिभासात् / ननु यदि तिमिरं श्यामरूपपरिकलितकले वरं स्यात् तदाऽवश्य स्वप्रतिभासे आलोकमपेक्षेत, कुवलयकोकिलतमालाऽऽदिकृष्णवस्तूनामालोकापेक्षवीक्षणत्वादिति चेत् / तद् नाऽकलङ्कम, उलूकाऽऽदीनामालोकमन्तरेणापि तत्प्रतिभासात् / यथाऽस्मदादिप्रतिभासमपेक्ष्यैतदुच्यते। तदपि न पेशलम्, यतोयद्यपि कुवलयाऽऽदिकमालोकमन्तरेणाऽऽलोकयितुं न शक्यतेऽस्मदादिभिः, तथाऽपि तिमिरमालोकयिष्यते, विचित्रत्वाद् भावानाम्, इतरथा पीतावदाताऽऽदयोऽपि तपनीय-- मुक्ताफलप्रमुखानालोकनिरपेक्षवीक्षणा इति प्रदीपचन्द्राऽऽदयोऽपि प्रकाशान्तरमपेक्षेरन् / इति सिद्धं तमो रूपवत् / तथा तमो रूपवत्, कार्यवत्त्वेन प्रतीयमानत्वात्, कुवलयवत्, इत्यतोऽपि तत्र रूपवत्त्वसिद्धिः, न खल्वरूपं कुम्भाभावाऽऽदिकृष्णाऽऽद्याकारेण कदाचित प्रतीयमानमालोकितम्, इति रूपवत्त्वसिद्धौ च सिद्ध स्पर्शवत्वम् / तथा च तामसपरमाणूनां कार्यद्रव्याऽऽरम्भप्रतिषेधोपन्यस्तमस्पर्शवत्त्वं स्वरूपासिद्धम्, परस्य तामसपरमाणूनामप्रसिद्धेराश्रयासिद्धं चेति स्थितम्। द्रव्यगुणकर्मातिरिक्तकार्यत्वमपि न हेतुः, द्रव्यातिरिक्तकार्यत्तस्य तस्मिन्नसिद्धत्वेनैकदेशासिद्धताऽऽपत्तेः। तत्प्रसिद्धिर्हि तस्याभावरूपतया. अन्यतोवाकतोऽप्यभिधीयते? नाऽऽद्यः पक्षः परस्पराssश्रवप्रसङ्गात्-अभावरूपतासिद्धौ हि तस्य द्रव्यातिरिक्तकार्यत्वसिद्धिः, ततोऽपि सेति। अन्यहेतुतस्तत्सिद्धौ तु स एवास्तु, किमनेन सिद्धोपस्थायिना कृतकभक्तिभृत्येनेव कर्तव्यम् ? | आलोकविरोधित्वमपि न साधीयः, न हि यो यद्विरोधी स तदभावस्वभाव एव, वारिवैश्वानरयोः परस्पराभावमात्रताऽऽपत्तेः। अथ सहानव स्थानलक्षणो विरोधस्तिमिरस्याऽभावस्वभावतासिद्धौ साधनत्वेनाइभिप्रेतः, न वध्यघातकभावः स च भावाभावयोरेव संभवी, न पुनर्द्वयोरपि भावयोः, तदिहाऽऽलोकानवकाशे सत्येव समुज्जृम्भमाणस्यान्धकारस्याऽभावरूपतैवश्रेयसी, कुम्भाभाववदिति चेत्। तदपवित्रम्। अत्राऽपि वध्यघातकभावस्यैव भावात् , घनतरतिमिरपूरितेपथि प्रसर्पता प्रदीपप्रभाप्राग्भारेण तिमिरनिकुरम्बाऽऽडम्बरबिडम्बनात्। भावरूपताप्रसाधकप्रमाणाभावोऽप्यसिद्धः, तत्प्रसाधकानुमानसद्भावात् / तथाहि भावरूपं तमः, घनतरनिकरलहरिप्रमुखशब्दैर्व्यपदिश्यमानत्वात्, आलोकवत्। न चाऽसिद्धिः साधनस्य। तथाहि"रहः सङ्केतस्थो घनतरतमःपुञ्जपिहिते, वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथि पथि। षटकारादल्पादपि निभृतसंप्राप्तरमणीभ्रमभ्राम्यबाहुर्दमदमिकयोत्ताम्यति युवा / / 1 / / पर्यस्तो दिवसस्तटीमयमटत्यस्ताचलस्यांशुमान्, संप्रत्यकरितान्धकारनिकरैर्लम्बालका द्यौरभूत्। एह्यन्तर्विश वेश्मनः प्रियसखि ! द्वारस्थलीतोरणस्तम्भाऽऽलम्बितबाहुवल्लि ! रुदती किं त्वं पथः पश्यसि?||२|| तिमिरलहरीगुर्वीमुवीं करोतु विकस्वरा, हरतु नितरां निद्रामुद्रा क्षणाद् गुणिनां गणात्। तदपि तरणे ! तेजःपुञ्जः प्रियो न ममैष ते, किमपि तिरयन् ज्योतिश्चक्रं स्वजातिविराजितम् // 3 // " औपचारिक एवाऽयं तत्र तद्व्यपदेश इति चेत् / नैवम्, एतदभावरूपताप्रसिद्धि विना धनतराऽऽदिव्यपदेशस्य भावरूपमुख्यार्थ-- बाधाविरहेण तस्यौपचारिकत्वायोगात्; तथात्वेऽपि वा तस्य तमसो भावरूपतैव प्रसिध्यति, न खलु कुम्भाऽऽद्यभावस्तथाप्रकारोपचारगोचरचारितामास्तिघ्नुते। तत्र सादृश्याऽऽद्युपचारकारणाभावात् / तथा-नाभावरूपं तमः,प्रागभावाऽऽद्यस्वभावत्वात्; व्योमवत् / न चाऽयमपि हेतुरसिद्धः / तथा हि-आलोकस्य प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा तमो भवेत् ? आद्ये-एकस्य, अनेकस्य वाऽयं तत्स्यात् ? न तावदेकस्याऽऽलोकस्य प्रागभावस्तमः, प्रदीपाऽऽलोकेनेव प्रभाकराऽऽलोकेनाऽपि तस्य निवर्त्यमानत्वात्, यस्य हि यः प्रागभावः स तेनैव निवर्त्यते, यथा पटनागभावः पटेनैव। नाप्यनेकस्य, एकेन निवर्त्यमानत्वात्, पटप्रागभाववदेव / न च वाच्यं प्रत्यालोकं स्वस्वनिवर्तिनीयस्य तमसो भेदात् प्रदीपाऽऽदिना निवर्तितेऽपि तमोविशेषे पूषाऽऽदिनिवर्तनीयं तमोऽन्तरं तदा तदभावान्न निवर्तते, इत्येकेन निवर्त्यमानत्वादिति हेतुरसिद्ध इति, प्रदीपाऽऽदिनिवर्तिततमसि प्रदेशे दिनकराऽऽदिनिवर्तनीयस्य तमोऽन्तरस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेः, सम्प्रतिपन्नवत् / यदि चेदं प्रागमावस्वभावं स्यात् / तदा प्रदीपप्रभाप्रबन्धप्रध्वंसेऽस्योत्पत्तिर्न स्यात, अनादित्वात् प्रागभावस्य / नाप्यालोकस्य प्रध्वंसाभावस्तमः, निवर्त्यमानत्वात्, तस्यैव प्रागभाववत् / नापीतरेतराभावः, तस्य प्रसूतेऽपि प्रचण्डे मार्तण्डीये तेजसि सद्भावेन तमिस्रायामिव वासरेऽपि तमः प्रतीतिप्रसङ्गात् / नाऽप्यालोकस्यात्यन्ताभावदस्तमः