________________ तमुक्काय 2162 - अभिधानराजेन्द्रः - भाग 4 तमुक्काय भावान्तरोपलम्भे सत्येव संभवी, कुम्भाभावोपलम्भवत्। नच प्रचुरतरतिमिरनिकरपरिकरितापवरकोदरे स्वकरतलाऽऽदिमात्रस्याप्युपलम्भः संभवति, तत्कथं तदनुभूतिर्भवेत्? कथंवा प्रदीपाऽऽदिप्रभाप्राग्भारप्रोज्जृम्भणमन्तरेणास्योपलम्भः? कुम्भाऽऽद्यभावो हि तदभाव एवानुभूयमानो दृष्टः, तत्कथमेष न्यायमुद्राऽतिक्रमो न कृतः स्यात्? अथ यो भावो यावता सामग्रयेण गृह्यते तदभावोऽपि तावतैव तेन तदिहाऽऽलोकस्य स्वातन्त्र्येणाऽऽलोकान्तरमन्तरेणैव ग्रहणमालोकिम्, इति तदभावस्याऽपि तत्कि न स्यात्? इति चेत्। अहो ! पीतविषस्याप्यमृतोद्गारः, एवं वदता त्ववैव तमसि द्रव्यताव्याहारात् / किमिदमीदृशमिन्द्रजालमिति चेत् ? इदमीदृशमेवेन्द्रजालमालोक्यताम्-आलोकः किल चक्षुषा संयोनात् गृह्यते,यदि च तदभावस्याऽपि तत्सामग्रयेणैव ग्रहणं स्वात, तदा तस्याऽपि ग्रहणे चक्षुः संयोगसद्धावादायाता द्रव्यताऽऽपत्तिः, संयोगस्य गुणत्वेन तवृत्तित्वात्। अथासंयुक्तोऽप्ययं प्रेक्ष्यते, तदा कर्थ यो भावो यावतेत्याद्यं मृषोद्यं न स्यात्? कथं वा चक्षुषः प्राप्यकारिताप्रवादः सूपपादः स्याद्? विशेषणविशेष्यभावसंबन्धबन्धुरस्यान्धकारस्य ग्रहणादयमदोष इति चेत्, कतमस्यैष इति चेत्, कतमस्यैष विशेषणम्? न शरीरस्य, तदन्यत्राऽपि प्रतिभासनात् / नाऽपि भूतलकलशकुड्याऽऽदेः, तत एव / तर्हि भवतु नभस इति चेत् / तदशस्यम; एतस्य तद्विशेषणविशेष्यीभावेन कदाचिदप्रतिभासनात्। तन्नैतदभावतास्वीकृतिरानुभविकी भव्या। नाऽप्यानुमानिकी, यतः कतमोऽत्र हेतुराख्यायते संख्यावता? किं भाववैलक्षण्येन लक्ष्यमाणत्वं, भावविलक्षणसामग्रीसमुत्पाद्यत्वम्, असत्येवाऽऽलोके तत्प्रतिभासनम्, आलोकग्रहणसामग्र्या गृह्यमाणत्वम्, तिमिरद्रव्योत्पादककारणाभावः, द्रव्यगुणकर्मातिरिक्तकार्यत्वम्, आलोकविरोधित्वं, भावरूपतामसाधकप्रमाणाभावो वा? इत्यष्टपक्षी राक्षसीव त्वत्पक्षभक्ष्यभक्षणविचक्षणोपतिष्ठते / तत्र न तावदाद्यः पक्षः क्षेम करः, 'कुम्भोऽयं स्तम्भोऽयम्' इति हि यथा कुम्भाऽऽदयो भावा विधिमुखेन प्रत्यक्षेण प्रेक्ष्यन्ते, तथेद तम इति तमोऽपि, अभावरूपताया तस्य प्रतिषेधमुखेन प्रत्ययः प्रादुःष्यात्। यथा कुम्भोऽत्र नास्तीति। ननु नाशप्रध्वंसाऽऽदिप्रत्यया विधिमुखेनाऽपि प्रवर्तमाना दृश्यन्ते / नैवम्, नाशाऽऽदिशब्दानामेव भावप्रतिषेधाभिधायकत्वात्, अत एव हि कुम्भ-- स्य प्रध्वंस इति सोपपदानामेषां प्रयोगोपपत्ति। यदि तुतमः प्रभृतिशब्दा अपि तत्समानार्थतामाबिधीरन्, तदानीं कुम्भस्याभाव इतिवदालोकस्य तम इत्यपि प्रोच्येत,न चैवं कश्चिद्विपश्चिदपि प्रवक्ति। अथाऽऽलोकाभावे संकेतितस्तमः शब्दो, नाभावमात्रे, ततो न तथाव्यपदेश इति चेत् / नैवम्, यदि ह्यन्धकाररूपोऽभावेऽपि विधिमुखेन वीक्ष्येत, तदानीं किमन्यदेतस्य भाववैलक्षण्येन लक्ष्यमाणत्वं स्यात्? यतो हेतुसिद्धिर्भवेत्। अथ भावविलक्षणसामग्रीसमुत्पाद्यत्व हेतुः, तथाहि-समवाय्यसमवायिनिमित्तकारणकलापव्यापाररूपाभावोत्पादिका सामग्री, नैव तमसीयं समगस्त / तदशस्तम्, यतः किमिदं समवायिकारणनाम्ना त्वमाग्नासीः? यत्र कार्य समवेतमुत्पद्यते तदिति चेत् / तदसम्यक्, समवायस्य निरन्तरसुहृद्गोष्ठीषु गौरवार्हत्वात्; तत्प्रसाधकत्वाभिमतस्य 'इह तन्तुषु पटः' इत्यादिप्रत्ययस्याप्रसिद्धेः, 'पटे तन्तवः | इत्यादिरूपस्यास्याऽऽबालगोपालं प्रतीतत्वात्, सिद्धौ वा इह भूतले घटाभाव इत्यभावप्रत्ययेन व्यभिचारात् / संबन्धमात्रपूर्वताप्रसाधने सिद्धसाधनात्, अविष्वग्भावमात्रनिमित्ततया तदङ्गीकारात्। एकान्तैकस्वरूपत्वेन चाऽस्यैकवस्तुसमवायसम्भवे समस्तवस्तुसमवायस्य, विनश्यदेकवस्तुसमवायाभावे समस्तवस्तुसमवायाभावस्य वा प्रसङ्गात्। तत्तदवच्छेदकभेदात् तदुपपत्तौ तस्याऽपि कथशिनेदाऽऽपत्तेः, अनेकपुरुषावच्छिन्नपर्षदादेरपि तावत्स्वभावभावेन कथञ्चिद्भेदात्। अप्रच्युतानुत्पन्नस्थिरैकरूपतया चाऽस्याऽऽकाशसामान्यादेतादृग्वस्तुसमाश्रितत्वमेव भवेत्, न तु कार्यवस्तुसमाश्रितत्वम् / तत्तत्सहकारिकारणकलापोपनिपातप्रभावात् कार्यसमवायस्वीकारोऽपि सनिकारः, तत्स्वभावप्रभावप्रतिबद्धानां तेषामपि सदा सन्निधानप्रधानत्वात्, तथा चास्तमिता समवायिकारणकिंवदन्ती। तदसत्त्वे किमसमवायिकारण? समवायिकारणप्रत्यासन्नत्वं हि तल्लक्षणम्, तदसत्त्वे कथमेतत् स्यात्? तथा च तच्छेषभूतस्य निमित्तकारणस्याऽपि का व्यवस्था? सस्तु वा कारणान्यमूनि, तथाऽपि यथाकथञ्चिदालोककलापस्योत्पादः, तथा तमसोऽपि भविष्यति, किमरुचिविरचनाभिर्व्यपासितुं शक्यते? किमस्योत्पादकमिति चेत् / आलोकस्य किमिति वाच्यम्? तेजोऽणव इति चेत् / अस्याऽपि तमोऽणव एव सन्तु। सिद्धास्तावत् तेजसास्तेऽविवादेन वादिप्रतिवादिनोरिति चेत् / तामसा अपि तद्वदेव किं न सेत्स्यन्ति? इति त्यज्यतामाग्रहः। असत्येवाऽऽलोके तत्प्रतिमासनमप्यसम्यक, न हि यस्मिन्नसत्येव यत् प्रतिभासते तत् तदभावमात्रमेव भवति, असत्येव व्यवधाने प्रतिभासमानैर्घटाऽऽदिभिर्व्यभिचारात्। कथं च नैवं प्रतिबन्धकेऽसत्येव समुत्पद्यमानस्य स्फोटस्याऽपि तदभावमात्रता स्यात्? अथ स्फोटो दाहकाऽऽत्मकतया स्पार्शनप्रत्यक्षेणाऽनुभूयते, अभावमात्रतायां हि तस्य नेयमोपपत्तिकी स्यात्, तर्हि तमोऽपि शैत्येन तेनैव प्रत्यक्षेण प्रेक्ष्यमाणं कथमभावस्वभावं भवेत्? अथाऽऽलोकग्रहणसामग्या गृह्यमाणत्वं हेतुः, तथा च शङ्करन्यायभूषणौ- 'योहि भावो यावत्या सामग्र्या गृह्यते, तदभावोऽपितावत्थैव, इत्यालोकग्रहणसामग्र्या गृह्यमाणं तमस्तदभाव एवेति / " तदपि न किञ्चित्, तमोग्रहणसामग्र्या गृह्यमाणस्याऽऽलोकस्यैव तदभावताप्रसड्रेनाऽनैकान्तिकत्वात्, घटपटयोर्वा समानग्रहणसामग्रीकतया परस्पराभावत्वप्रसङ्गात्॥ अथ तिमिरद्रव्योत्पादककारणाभावो हेतुः,तथा च श्रीधरः तमः परणवः स्पर्शवन्तः, तद्रहिता वा? न तावत् स्पर्शवन्तः, स्पर्शवतस्तत्कार्यद्रव्यस्य क्वचिदप्यनुपलम्भात्। अदृष्टव्यापाराभावात् स्पर्शवत्कार्यद्रव्याइनारम्भका इति चेत् / रूपवन्तो वायुपरमाणवोऽदृष्टव्यापारवैगुण्याद् रूपवत कार्य नारभन्ते इति किं न कल्प्येत? किंवान कल्पितमेकजातीयादेव परमाणोरदृष्टोपग्रहाचतुर्धा कार्याणि जायन्त इति? कार्यकसमधिगम्याः परमाणवो यथा कार्यमुन्नीयन्ते, नतद्विलक्षणाः, प्रमाणाभावादिति चेत्। एवं तर्हि तामसाः परमाणवोऽप्यस्पर्शवन्तः कल्पनीयाः, तादृशाश्व कथं तमोद्रव्यमारभेरन् ? अस्पर्शवत्वस्य कार्यद्रव्यानारम्भकत्वेनाऽव्यभिचारोपलम्भात् / कार्यदर्शनात् तदनुगुणं कारणं कल्प्यते, न तु कारणवैकल्येन दृष्टकार्यविपर्यासो युज्यत इति चेत् / न वयमन्धकारस्य प्रत्यर्थिनः, किन्त्वारम्भानुपपत्तेः, नीलिममात्रप्रतीतेश्च द्रव्यमिदं न