SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ तमिस्स 2191 - अभिधानराजेन्द्रः - भाग 4 तमुक्काय तमिस्स न०(तमिस्र) अन्धकारे, स्था०४ ठा०३उ०॥ तमुक्काय पुं०(तमस्काय)तमसोऽप्कायपरिणामस्वरूपस्यान्धका-रस्य / कायः प्रचयस्तमस्कायः। अप्कायपरिणामरूपतमःप्रचये, प्रव० 255 द्वार। स्थागतमस्कायस्य द्रव्यत्वम्जंबुद्दीवाउ असं-खेज्ज इमा अरुणवरसमुद्दाओ। वायालीससहस्से, जगईउ जलं विलंघेउं॥४१२।। समसेणीऍ सत्तरस, एकवीसाइं जोअणसयाई। उल्लसिओ तमरूवो, बलयागारो अबुक्काओ॥४१३|| तिरिअं वित्थरमाणो, आवरयंतो सुरालयचउक्कं / पंचमकप्पेऽरिट्ठम्मि पत्थडे चउदिसिं मिलिओ।।४१४|| जम्बूद्वीपादसंख्येयतमोयोऽसावरुणवरसमुद्रः, तमाश्रित्यद्वि-चत्वारिशयोजनसहस्राणि जगत्या जलं विलव्य, समश्रेण्या समभितितया एकविंशत्यधिकानि सप्तदश शतानि यावद्वलयाकारस्तमोरूपो, देवानामपि तत्रोद्घोताभावेन महान्धकाराऽऽत्मकत्वात् अप्काय उल्लसितः। अयमर्थः-एतस्माजम्बूद्वीपात्तिर्यगसंख्यातान द्वीपसमुद्रान् व्यतिक्रम्याऽरुणवरनामा द्वीपः समस्ति, तद्वेदिकापर्यन्ता द्विचत्वारिंशधोजनसहस्राण्यरुणवरं समुद्रमवगाह्याऽत्रान्तरे जलोपरितनतस्मादूर्द्धमेकविंशत्युत्तराणि सप्तदशयोजनशतानि यावत्समभित्त्वाकारतया गत्वा वलयाऽऽकृतिरप्कायमयो महान्धकाररूपस्तमस्कायः समुल्लसित इति / अयं तिर्यक् विस्तरन्सुरालयचतुष्कं सौधर्मेशानसनत्कुमा रमाहेन्द्ररूपदेवलोकचतुष्टयमावृण्वन्नाच्छादयन्नूर्द्ध तावद् गतो यावत्पञ्चमे ब्रह्मलोकनामके कल्पे तृतीयेऽरिष्टविमानप्रस्तटे चतसृष्वपि दिक्षु मिलित इति। अथ तमस्कायस्य संस्थानमाहहेट्ठा मल्लयमूल-ट्ठिइट्ठिओ उवरि बंडलोयं जा। कुक्कुमपंजरगाऽऽगारसंठिओ सो तमुक्काओ॥४१५।। अधस्तादधोभागेन मल्लकमूलस्थितिस्थितोमल्लकं सरावं, तस्य मूलं बुध्नस्तस्य स्थितिः संस्थानंतया स्थितो व्यवस्थितः, शरावबुध्नाऽऽकार इति भावः / उपरिष्टाच्च यावत् कुक्कुटपञ्जराऽऽकारसंस्थितः, स पूर्वोक्तस्वरूपः तमस्कायो भवति तमसां तमिस्रपुद्गलानां कायो राशिस्वमस्काय इति / स्थापना-88 अथाऽस्य तमस्कायस्य विष्कम्भं परिधिं च प्राऽऽहदुविहो से विक्खंभो, संखेजो अत्थि तह असंखेजो। पढमम्मिय विक्खंभे,संखेजा जोयणसहस्सा // 416|| परिहीऍ ते असंखा, वीए विक्खंभपरिहिजोएहिं। हुति असंखसहस्सा,नवरमिमं होइ वित्थारो॥४१७|| द्विविधो द्विप्रकारः (से त्ति) तस्य तमस्कायस्य विष्कम्भो विस्तरो | भवति-संख्यातः, तथा असंख्यातश्च / तत्र प्रथमे विष्कम्भे आदित आरभ्य ऊर्द्ध संख्येययोजनानि यावत्संख्येययोजनसहस्राः प्रमाणतो भवन्ति / परिधौ परिक्षेपे पुनस्त एव योजनसहस्रा असंख्याताः, | अधस्तमस्कायस्य संख्यातयोजनविस्तृतत्वेऽप्यसंख्यातद्वीपपरिक्षेपतो बृहत्तरत्वात्परिक्षेपस्यासंख्यातयोजनसहस्रः प्रमाणत्वम विरुद्धम् / आन्तरबहिः परिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसंख्याततया तुल्यत्वादिति / तथा द्विविधे विष्कम्भपरिधियोगाभ्यां विष्कम्भेन परिधिना च प्रत्येकमसंख्यातयोजनसहस्रा भवनित, नवर केवलमिदमसंख्यातयोजनसहस्ररूपं च प्रमाणं विस्तारे भवति / वलयाऽऽकारार्द्ध यदसौ तमस्कायक्रमेण विस्तरति, तदानीमिदं प्रमाणमवसेयमिति भावः। अस्य च तमस्कायस्य महत्वमित्थमागम विदः प्रवेदयन्ति-यथा यो देवो महर्द्धिको यया गत्या तिसृभिश्चप्पुटिकाभिरेकविंशति-वारान् सकलं जम्बूद्वीपमनुपरिवृत्याऽऽगच्छेत, स एव देवः तयैव गत्या षभिरपि मासैः संख्यातयोजनविस्तारमेव तमस्कायं व्यतिव्रजेन्नेतरमिति / यदा च कश्विदेवः परदेव्याः सेवाहेवाकपरस्त्वाहाराऽऽदिभिरपराधमाधन्ने, तदा बलवदेवभयात्प्रपलाय्य देवानामपि भूरितयाऽऽयिर्भावकत्वेन गमनविघातहेतौ तरिंमस्तमस्काये निलीयत इति / प्रव० 255 द्वार। किमियं भंते ! तमुक्काए त्ति पवुचइ-किं पुढवितमुक्काए त्ति पवुचइ, आउतमुक्काए त्ति पवुच्चइ? गोयमा ! नो पुढवितमुक्काए त्ति पवुचइ, आउतमुक्काए त्ति पवुच्चइ / से केणद्वेणं? गोयमा! पुढविकाएणं अत्थेगइए सुभेए संपकासेइ, अत्थेगइए देसं नो पकासेइ, से तेणढेणं // (किमियमित्यादि) (तमुक्काए त्ति) तमसा तमिस्रपुद्गलानां कायो राशिस्तमस्कायः / स च नियत एवेह स्कन्धः कश्चिद्विवक्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा; न त्वन्यः, तदन्यस्यातादृशत्यादि ति / पृथिव्यविषयसन्देहादाह-(किं पुढवीत्यादि) व्यक्तम्। (पुढविकाए णमित्यादि) पृथ्वीकायोऽस्त्येकः कश्चिच्छुभो भास्वरो; यः किविध इत्याह-देशं विवक्षितक्षेत्रस्यअकाशयति, भास्वरत्वाद् मण्यादिवत् तथाऽस्त्येकः पृथिवीकायो देशं पृथिवीकायान्तरं प्रकाश्यमपि न प्रकाशयति, अभास्वरत्वादन्धोपलवद्, नैवं पुनरप्कायः, तस्य सर्वस्याप्यप्रकाशकत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव। भ०६ श०५उ०। अत्र न्यायमार्गानुयायिनः सङ्गिरन्तेननु पृथिव्यादीनां चतुर्णा सकर्णा वर्णयन्तु द्रव्यताम्, तिमिरच्छाययोस्तु द्रव्यतावाचोयुक्तियुक्तिरिक्तव, भासामभाव एव हि तमश्वाये गदतां सच्छाये / तथाहि-शशधरदिनकरकरनिकरनिरन्तरप्रसरासंभवे सर्वतोऽपि सति तम इति प्रतीयते, यदातुप्रतिनियतप्रदेशेनाऽऽतपत्राऽऽदिना प्रतिबद्धस्तेजःपुञ्जो यत्र यत्र न संयुज्यते, तदा तत्र तत्र च्छायेतिप्रतीयते, प्रतिबन्धकाभावेतु स्वरूपेणाऽऽलोकः समालोक्यत इत्यालोकाभाव एव तमश्छाये / यदि च-तमो द्रव्यं भवेत्, तदारूपिद्रव्यसंस्पर्शाव्यभिचारात्स्पर्शवद्रव्यस्य च महतः प्रतिघात-हेतुत्वात्तरलतरतुङ्गत्तरङ्गपरम्परोपेतपारावारावतार इव, प्रथमजलधरधाराधोरणीधौताञ्जनगिरिगरीयः शृङ्गा प्रतिवादिनीव, निर्यन्निर्झरझात्कारिवारिदुर्वारशीकराऽऽसारसिव्यमानाsभिरामाराममहीरुहसमूहप्रतिच्छन्द इव च प्रवृत्ते तिमिरभरे सञ्चरतः पुंसः प्रतिबन्धः स्यात् / भूगोलकस्येव चाऽस्यावयवभूतानि खण्डावयविद्रव्याणि प्रतीयेरन्, एवं छायायामपि,इति कथं ते द्रव्ये भवेताम्? अत्राभिदध्यमहे-तमसस्तावदभावस्वभावतास्वीकृतिरानुभविकी, आनुमानिकी वा? न तावदानुभविकी, यतोऽनावानुभवो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy