________________ तपोरिह 2156 - अभिधानराजेन्द्रः - भाग 4 तपोरिह इति। अत्रापि चतुर्भङ्गाः- आत्मानुग्राहकं तपः, परोपष्टम्भकारे वैयावृत्य, तयोर्द्वयोरपि समर्थाः, परं ये तप एव कुर्वन्ति, न वैयावृत्यं, तेआत्मतरकाः, (स्वार्थेऽत्र कः प्रत्ययः) न परतरका इत्याद्यो भङ्गः।येतु वैयावृत्यमेव कुर्वन्ति, नतपः ते अन्यतरकाः, नात्मतरका इति द्वितीयः। ये तूभयमपि कुर्वन्ति, तेतु उभयतर-का इति तृतीयाऽपिये पुनरुभयं तु कुर्वन्ति ते नोभयतरका इति चतुर्थः। तथा (अण्णतरगति) अन्यतरकाःये तपोवैयावृत्ययोरन्यतरदेकमेव कर्तुं शक्नुवन्ति, नोभयकरणक्षमा इत्यर्थः // 7 // कप्पट्ठियादओ विय, चउरो जे चेयरा समक्खाया। सावेक्खेयरभेया-दओ य जे ताण पुरिसाण / / 71|| कल्पः सततासेवनीयः समाचारः। सचायं दशधा"आचेलुक्कोट्टेसिय-सिज्जायररायपिंडकिइकम्मे। वयजेट्टपडिक्कमणे, मासे पजोसवणकप्पो'" // 6 // (पञ्चा० 17 विव०) अस्या व्याख्या-न विद्यते चेलं वस्वं यस्याऽसावचेलकः, तस्य भाव आचेलक्यं, सचेलत्वे चायमचेलकव्यपदेशः। तथा चान्यत्रापि दृश्यते"जह जलमवगाहंतो, बहुचेलो वि सिरवेट्ठियकडिल्लो। भन्नइ नरो अचेलो, तह मुणओ संतचेला वि।।२६००।। तह थोवजुन्नकुच्छिय-चेलेहि वि भन्नए अचेलु त्ति। जह तुर सेलिय ! अप्पय, मे पोत्तिं नग्गिया वत्तो // 2601 / / (विशे०) उद्देशेन साधुसंकल्पेन वृत्तमौदेशिकम् आधाकर्म, शय्यया वसत्या तरति भवाम्भोधिमिति शय्यातरः, राजा नृप, तयोः पिण्डो भक्ताऽऽदिरूपः-शय्यातरपिण्डो, राजपिण्डश्चं / इहौदेशिकाऽऽदीनां त्रयाणामपि परिहारोऽवसेयः। कृतिकर्म ज्येष्टानुक्रमेण वन्दनकदानम्, व्रतानि पञ्च महाव्रतानि, ज्येष्ठः-वर्षशतदीक्षिताया अपि सध्य्या अद्यतनदीक्षितोऽपि साधुगरीयान्। प्रतिक्रमणं प्रतीतम्, मासः मासकल्पः, परि सर्वथाऽवसानमेकत्र निवासो निरुक्तिवशात्पर्दूषणा, इति। एतस्मिन् दशविधे कल्पे स्थिताः कल्पस्थिताः प्रथमचरमजिनसाधवः, ते आदावयवभूता येषां ते कल्पस्थिताऽऽदयः / कल्पस्थिताऽऽदयः-'कल्पस्थितपरिणतकृतयोगितरमाणाख्याः।' तत्र कल्पस्थिताः कथिताएव, परिणताः परिणतं परिपाकमापन्नं जीवेन सह प्राप्तैकीभावं चारित्रं येषां ते, कृतयोगिनः चतुर्थषष्ठाष्टमाऽऽदितपोभिःपरिकर्मितशरीराः "तरमाण ति"। "शकेश्वय-तर-तीरपाराः" / / 8/486|| इत्यनेन प्राकृतलक्षणसूत्रेण शक्धातोः तराऽऽदेशे कृते शक्नुयानाः, शक्तिसुलभां कुर्वाणा इत्यर्थः / ये एते चत्वारः सप्रतिपक्षाः समाख्याताः कथिताः कल्पस्थितादिभ्य इतरे-अकल्पस्थितापरिणताकृतयोग्यतरमाणाऽऽख्याः, अकल्पस्थिता मध्यमद्वाविंशतिजिनसाधवो, महाविदेहजाश्च, एते हि दशावेधस्थितकल्पमध्यात् शय्यातर पिण्डादानचतुर्यामपुरुषज्येष्ठत्वकृतिकर्मकरणाऽऽख्येषु चतुर्यु स्थिताः, शेषेसुषट्सुपुनरस्थिताः। ते ह्येतनि षट् स्थानानि गुणानुलोम्यमालोच्य कदाचित्कानिचित् कुर्वन्ति वा, नवेति / अपरिणताऽऽदयस्तु परिणताऽऽदिविपरीताः (सावेक्खेयरभेयादओ य जे इति) जे इतिपादपूरणे / कल्पस्थिताःकल्पस्थिताऽऽदयोऽष्टायपि द्विविधाः-सापेक्षा गच्छवासिनो, निरपेक्षा जिनकल्पिकाऽऽदयः। (ताण पुरिसाणं) इत्यग्रेतनगाथायां सम्बध्यते। __ सा चेयं गाथाजो जह सत्तो बहुतर-गुणो व तस्साहियं पि दिजाहि। हीणस्स हीणतरगं, हासिज्ज व सय्वहीणस्स // 72 // तेषां पुरुषाणां कल्पस्थिताऽऽदीनां सापेक्षनिरपेक्षभेदानां प्राग्गाथाद्वयोक्तगीतार्थाऽऽदीनां च मध्याद् यो यथा शक्तः तपः कर्तुं क्षमः, बहुतरगुणो वा धृतिसंहननसंपन्नः परिणतः कृतयोगी आत्मपरतरो वा भवेत्, तस्याधिकमपि जीतोक्तादतिरिक्तमपि दद्यात् / हीनस्य धृतिसंहननाऽऽदिरहितस्य हीनतरं जीतोक्तादल्पतरं दद्यात्, सर्वहीनस्य सामस्त्येनाक्षमस्य, सर्वमपि तपः क्षपणात् हासयेत्, न किमपि तस्य दद्यात्, मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः। पुनः पुरुषविशेषानेवाऽऽहइत्थं पुण बहुतरगा, भिक्खु त्ति अकयकरणाऽणभिगया य। जं-तेण जीयमट्ठम-भत्तं तं निव्विगाईयं // 73|| अत्र पुनर्बहुतरा बहुभेदाः, आचार्यो पाध्यायकृतकरणगीतार्थस्थिराऽऽद्याः भिक्षवः साधव इति, अकृतकरणास्तपोभिरपरि-- कर्मितशरीराः, अनभिगताश्चाऽगीतार्थाः / चशब्दादस्थिराः / एतेषां च सर्वेषां यथाऽहं सक्ष्मबादरातिचाराऽऽदिना यजीत जीतदानवनिर्विकृत्याद्यष्टमभक्तान्तं, ज्ञेयमिति शेषः। यद्वा-यन्त्रेणैतद्ज्ञेयमित्यर्थः / इदं चात्र गाथान्ते यन्त्रकस्य पञ्चम्या दीर्घपङ्क्तेः पश्चिमानुपूा तपो गृहीतम्, एतदीयश्च तपो विशेषः सर्वोऽपि यन्त्रकेण स्पष्टीभवति / ततस्तस्यायं लेखनविधिः कथ्यते-इह दीर्घेण पडितरचनायां त्रयोदश गृहाणि स्थाप्यन्ते। पुथुत्वेन वाच्यपङ्क्तौ पञ्चदशगृहाणि / द्वितीयतृतीयपङ्क्त्योश्चतुर्दश, चतुर्थपञ्चमपङ्क्त्योस्त्रयोदश, षष्ठसप्तमपक्त्यो दश, अष्टमनवमपङ्क्त्योरेकादश / दशमैकादशपङ् कयोर्दश, द्वादशत्रयोदशपङ्क्तयोर्नवगृ-हाणीति। अत्र चाऽऽद्यायाः पृथुपक्तरुपरि निरपेक्षः स्थाप्यते, द्वितीयाया आचार्यः कृतकरणः,तृतीयाया आचार्योऽकृतकरणः, चतुर्थ्या उपाध्यायः कृतकरणः, पञ्चम्या उपाध्यायोऽकृतकरणः, षष्ट्या गीतार्थः स्थिरः कृतकरणो भिक्षुः, सप्तम्या गीतार्थः स्थिरोऽकृतकरणो भिक्षुः, अष्टम्या गीतार्थोऽस्थिरः कृतकरणो भिक्षुः, नवम्या गीतार्थोऽस्थिरोऽकृतकरणो भिक्षुः, दशम्या अगीतार्थः स्थिरः कृतकरणः, एकादश्या अगीतार्थः स्थिरोऽकृतकरणः, द्वादश्या अगीतार्थोऽस्थिरः कृतकरणः, त्रयोदश्या उपरि अगीतार्थोऽस्थिरोऽकृतकरणो भिक्षुरिति स्थापयित्वा पृथुत्वेन प्रथमायां पङ्क्तौ निरपेक्षस्याधो गृहद्वये शून्यं स्थाप्यम्, यतस्तयोः पाराशिकानवस्थाप्येन भवतः। तेच जिनकल्पिकस्य न सम्भवतः, तस्य हि स्वभावेन निरपेक्षत्वात्। अथतयोः शून्योरधस्त्रयोदशसु गृहेषु मूलच्छेदषड्गुरुषट् लघुचतुर्गुरुचतुर्लघुमासगुरुमासलघुभिन्नमासर्विशतिकपञ्चदशकदशकपञ्चकानि स्थाप्यन्ते, द्वितीयायां पङ्क्तौ पाराञ्चिकाऽऽदीनि दशकान्तानि, तृतीयायामनवस्थाप्याऽऽदीनि पञ्चकान्तानि, चतुामनवस्थाप्याऽऽदीनि दशकान्तानि, अष्टम्यां छेदाऽऽदीनि दशकान्तानि, नवम्यां षड् गुर्वादीनि पञ्चकान्तानि, दशम्यां षड्गुर्वादीनि दशकान्तानि, एकादश्यां षड् लघ्वादीनि पञ्चकान्तानि, द्वादश्यां षड् लघ्वादीनि दशकान्तानि, त्रयोदश्यां चतुर्गुादीनि पञ्चकान्तानि स्थाप्यन्ते।