________________ तत्ततवणिज्ज 2182 - अभिधानराजेन्द्रः - भाग 4 तत्तसमजोइय तत्ततवणिज न०(तप्ततपनीय) तप्तसुवर्णे, "तत्ततवणिजसंकासो।" प्रज्ञा०१ पद। तत्ततवोधण त्रि०(तप्ततपोधन) तप्तमनुष्ठितं तप एव धनं यस्य स तप्ततपोधनः / पञ्चाग्न्यादितपोविशेषेण निष्प्तदेहे, सूत्र०१श्रु०३ अ०४उन तत्ततेल्लन०(तप्ततैल) तप्तं च तत्तैलं च / उष्णतैले, स०११ अङ्ग। तत्तत्ति स्त्री०(तत्त्वाप्ति) जीवाऽऽदीनां स्वरूपोपलम्भे, षो० (?) तत्तत्थ पुं०(तत्त्वार्थ) युक्तिसिद्धेऽर्थे, द्रव्या०८ अध्या०। तत्तत्थसद्दहाण न०(तत्त्वार्थश्रद्धान) तत्त्वार्थानां सर्वविदुपदिष्टतया पारमार्थिकानां जीवाऽऽदिपदार्थानां श्रद्धानमेवमेतदेवेति प्रत्ययः, तत्त्वेन वा भावतोऽर्थानां श्रद्धानं तत्त्वार्थश्रद्धानम् / “तत्तत्थ-सदृहाणं, सम्मत्तसमग्गहो ण एयम्मि'। पश्चा० 1 विव०। (एतद्बहुवक्तव्यता "सम्मत्त" शब्दे वक्ष्यते) तत्तदंसण न०(तत्त्वदर्शन) परमार्थावलोकने, द्वा० 25 द्वा०। तत्तदंसि(ण) त्रि०(तत्त्वदर्शिन्) मेधाविनि, आचा०१ श्रु०३ अ०२ उ०। तत्त्वावलोकनकर्तरि,सूत्र०१ श्रु०१५ अ०) तत्तदिट्ठि स्त्री०(तत्त्वदृष्टि) तत्त्वं वस्तुरूपं जीवे जीवत्वमनन्तचैतन्यरूपम्, अजीवे अचैतन्यस्वरूपं, तत्र यथार्थावबोधयुक्ती, अष्ट०) रूपे रूपवती दृष्टिदृष्ट्वा रूपं विमुह्यति। मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी / / 1 / / भ्रमवाटी बहिदृष्टि-भ्रमच्छाया तदीक्षणम्। अभ्रान्तस्तत्वदृष्टिस्तु, नास्यां शेते सुखाशया॥२॥ ग्रामाऽऽरामाऽऽदि मोहाय, यद् दृष्टं बाह्यया दृशा। तत्त्वदृष्ट्या तदेवान्तीं तं वैराग्यसंपदे // 3 // बाह्यदृष्टेः सुधासार-घटिता भाति सुन्दरी। तत्त्वदृष्टस्तु सा साक्षात्, विणमूत्रपिठरोदरी॥४॥ लावण्यलहरीपूर्ण , वपुः पश्यति बाह्यदृग् / तत्त्वदृष्टिः, श्वकाकानां, भक्ष्यं कृमिकुलाऽऽकुलम् // 5 // गजाश्वर्भूपभवनं, विस्मयाय बहिर्दृशः। तत्राश्वेभवनात् कोऽपि, भेदस्तत्त्वदृशस्तु न॥६॥ भस्मना केशलोचेन, वपु तमलेन वा। महान्तं बाह्यदृग् वेत्ति, चित्साम्राज्येन तत्त्ववित्।।७।। न विकाराय विश्वस्योपकारायैव निर्मिताः। स्फुरत्कारुण्यपीयूष-दृष्टयस्तत्त्वदृष्टयः ||5|| अष्ट०१६ अष्ट तत्तदेहा पुं०(तत्त्वदेष्ट) तत्त्वं सकलपर्यायोपेतसकलवस्तुस्वरूपं तद्विशतीति तत्त्वदेष्ठा। तत्त्वोपदेष्टरि, ध०१ अधिक तत्तधम्मजोणी स्त्री०(तत्त्वधर्मयोनि) धृत्यादिके, धृतिः श्रद्धा सुखाविविदिषा विज्ञप्तिरिति तत्त्वधर्मयोनयः / "घिइसड्ढासुहविविदिसभेया जं पायसो उ जोणि ति।' पञ्चा०४ विव०। तत्तपवित्ति त्रि०(तत्त्वप्रवृत्ति) तत्त्वानुष्ठाने, षो०। कस्मात्पुनस्तत्राद्वेषः क्रियत इत्याहअद्वेषो जिज्ञासा, शुश्रूषा श्रवणबोधमीमांसाः। परिशुद्धा प्रतिपत्तिः, प्रवृत्तिरष्टाङ्गकी तत्त्वे // 14 // अद्वेषोऽप्रीतिपरिहारः तत्त्वविषयस्तत्पूर्विका ज्ञातुमिच्छा जिज्ञासा तत्त्वविषया ज्ञानेच्छा तत्वजिज्ञासा तत्पूर्विका बोधाम्भः श्रोतसः सिराकल्पा, श्रोतुमिच्छा शुश्रूषा तत्त्वविषयैव / तत्त्वशुश्रूषानिबन्धनं श्रवणमाकर्णनं तत्त्वविषयमेव / बोधोऽवगमः परिच्छेदो विवक्षितार्थस्य श्रवणनिबन्धनस्तत्त्वविषय एव, मीमांसा सद्विचाररूपा बोधानन्तरभाविनी तत्त्वविषयैव। श्रवणं च बोधश्च मीमांसाच श्रवणबोधमीमांसाः। परिशुद्धा सर्वतो भावविशुद्धा, प्रतिपत्तिर्मीमांसोत्तरकालभाविनी निश्चयाऽऽकारा परिच्छित्तिरिदमित्थमेवेति तत्त्वविषयैव / प्रवर्त्तनं प्रवृत्तिरनुष्ठानरूपा परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषयैव, प्रवृत्तिशब्दो द्विरावय॑ते, तेनायमर्थो भवतितत्त्वे प्रवृत्तिरष्टभिरडैनिवृत्ताऽष्टाङ्गिकी, एभिरद्वेषाऽऽदिभिरष्टभिरङ्गैस्तत्त्वप्रवृत्तिः संपद्यते, तेनाऽऽगमान्तरे मूलागमैकदेशभूतेन द्वेषः कार्यइति॥१४॥षो०१६ विव०। तत्तफासुअ त्रि०(तप्तप्राशुक) तप्तं सत्प्राशुकं त्रिदण्डोद्धृतं तप्तप्राशुकम्। त्रिदण्डोद्धृते तप्ते जलाऽऽदौ, "उसिणोदगं तत्तफासुयं, पडिगाहिज संजए।"दश०८० तत्तवि(द) त्रि०(तत्त्वविद्) तत्त्वं वेत्तीति तत्त्वविद् / जीवाजीवाऽऽदि वस्तुविज्ञातरि, ध०३ अधिका परमार्थविदि, नि०१ श्रु०१ वर्ग१ अ०। तत्तवेइ(ण) पुं०(तत्त्ववे दिन्) तत्त्वज्ञानिनि, आचा०। सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिः, तदभावान्निः सारः, तं दृष्ट्वा ज्ञानी तत्त्ववेदी न विषयाभिलाषं विदध्याद्, न केवलं मनुष्याणां, देवानामपि विषयसुखाऽऽस्पदमानैत्यं जीवितमिति दर्शयति- "उववायं चवर्ण णचा।" उपपातं जन्म, च्यवनं पातः,तच ज्ञात्वा न विषयसगोन्मुखो भवेदिति / यतो निःसारो विषयग्रामः, समस्तः संसारो वा, सर्वाणि च स्थानान्यशाश्वतानि / सारासार--वेत्तरि, आचा०१ श्रु०३ अ०२उ01 तत्तबोहविहाइणी स्त्री०(तत्त्वबोधविधायिनी) अभयदेवविरचि-तायां स्वनामख्यातायां सम्मतिटीकायाम्, “प्रद्युम्नसूरेः शिष्येण, तत्त्वबोधविधायिनी / एषा चाभयदेवेन, सम्मतेर्विवृतिः कृता' // 1 // सम्म० ३काण्ड। तत्तरसासाय पुं०(तत्त्वरसाऽऽस्वाद) तत्त्वे परमार्थे रस आसक्तिहेतुस्तस्याऽऽस्वादस्तत्त्वरसाऽऽस्वादः / परमार्थाऽऽसक्तिहेत्वास्वादे, नि०१ श्रु०१ वर्ग 1 अ०॥ तत्तलोहपहपुं०(तप्तलोहपथ) तप्ते लोहमयमार्गे, प्रश्न०१ आश्र० द्वार। तत्तसंदिट्टि स्त्री०(तत्त्वसंदृष्टि) तत्त्वसंदर्शने, षो०१५ विव० तत्तसंवेयण न०(तत्त्वसंवेदन) तत्त्वं परमार्थः, तत्सम्यक् प्रवृत्या धुपहतत्वेन विद्यते यस्मिस्तत् / ज्ञानभेदे, द्वा०६ द्वा० सम्यग्ज्ञाने, पं०सू०४ सूत्र०ा हा तत्तसमजोइभूय त्रि०(तप्तसमज्योतिर्भूत) तप्तेन तापेन समातुल्या ज्योतिषा बहिना भूता जाता या सा तप्तसमज्योतिर्भूता ! तापसदृशवह्रिजाते, भ०१० श०५उ०।