________________ तत्त 2181 - अभिधानराजेन्द्रः - भाग 4 तत्ततव परिणामः, पुद्गलाश्चाजीवा इति; आश्रवस्तु मिथ्यादर्शनाऽऽदिरूपःपरिणामो जीवस्य, स चाऽऽत्मानं, पुद्गलाँश्च विरहय्य कोऽन्यः? संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटौ जीवः कर्मणा यत्पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति / तस्माजीवाजीवौ सद्भावपदार्थाविति वक्तव्यम् / अत एवोक्तमिहै-ब"उदत्थिं च णं लोएतं सव्वंदुप्पडियारं। तंजहा–जीव चेव, अजीव चेव त्ति?" अत्रोच्यतेसत्यमेतत्किन्तु यावेव जीवाजीवपदार्थो सामान्येनोक्ती, तावेवेह विशेषतो नवधोक्तौ, सामान्यविशेषाऽऽत्मकत्वाद् वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो, न संग्रहाभिधानमात्रमेव कर्त्तव्यम् / स च यदैवमाख्यायते-यदुताऽऽश्रवो, बन्धो वा, बन्धद्वाराऽऽयाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि, संवरनिर्जरे च मोक्षस्य, तदा संसारकारणत्यागेनेतरत्र प्रवर्तते, नाऽन्यथेत्यतः षट्कोपन्यासः, मुख्यसाध्यख्यापनार्थं च मोक्षस्येति। स्था०६ ठा। *तप्त त्रि०। अनुष्ठिते, सूत्र०१ श्रु०३ अ०४ उ०। उष्णे, स्था०८ ठा०। तं०। संतापे, औ०। संतप्ते, "तत्ततवणिज्जकणगवण्णा।" औला तत्तओ अव्य०(तत्त्वतस्) परमार्थवृत्तौ, अने०१ अधि०। तत्तंत न०(तत्त्यान्त) आत्माऽऽदितत्त्वप्रसिद्धिरूपे, द्वा० 23 द्वा० तत्तगोयर त्रि०(तत्त्वगोचर) तत्त्वविषये, द्वा०२१ द्वा०) तत्तचिंता स्त्री०(तत्त्वचिन्ता) परमार्थचिन्तायाम्, पञ्चा०१ विव०। तत्तजला स्त्री०(नप्तजला) जम्बूद्वीपे मेरोः पूर्वस्यां दिशि शीताया महानद्या दक्षिणभागास्थितायां स्वनामख्यातायामन्तनीद्याम्, स्था०३ डा०४उ०। "दो तत्तजलाओ।' स्था०२ ठा०३उ० जना तत्तजिण्णासास्त्री०(तत्त्वजिज्ञासा) ज्ञातुमिच्छा जिज्ञासा, तत्त्व-विषया ज्ञानेच्छा तत्त्वजिज्ञासा / तत्त्वविषयकज्ञानेच्छायाम्, षो०१६ विव०॥ तत्तणाण न०(तत्वज्ञान) ऊहाऽपोहविशुद्धमिदमित्थमेवेति निश्चये, ध०१अधिo तत्तणिपिणणीसु पुं०(तत्त्वनिर्णिनीषु) तत्त्वं प्रतिष्ठापयिषौ, स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दाऽऽदेः कथश्चिन्नि-- त्यत्वाऽऽदिरूपं तत्त्वं प्रतिष्ठापयितुमिच्छौ तत्त्वनिर्णिनीषौ, रत्ना० अथ तत्त्वनिर्णिनीषोः स्वरूपं निरूपयन्तितथैव तत्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः।।४।। तथैव स्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्याम्, शब्दाऽऽदेः / कथञ्चिद् नित्यत्वाऽऽदिरूपं तत्त्वम्, प्रतिष्ठापयितुमिच्छुस्तत्त्वनिर्णिनीषुरित्यर्थः / / 4 / / अस्यैवाङ्गेयत्तावैचित्र्यहेतवे भेदावुपदर्शयन्तिअयं च द्वेधा-स्वात्मनि परत्र चेति||५|| (अयमिति) तत्त्वनिर्णिनीषुः कश्चित्खलु संदेहाऽऽधुपहतचेतोवृत्तिःस्वाऽऽत्मनि तत्त्वं निर्णेतुमिच्छति, अपरस्तु परानुग्रहैकरसिकतया परत्र तथा; इति द्वेधाऽसौ तत्त्वनिर्णिनीषुः / सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वाऽऽत्मनि परस्त्र च तत्त्वनिर्णयं चिकीर्षुरित्यर्थः / अथ परं प्रति तत्वनिर्णिनीषोरप्यस्य तन्निर्णयोपजनने जयघोषणामुद्धोषयन्त्येव सभ्या इति चेत् ; ततः किम् ? जिगीषुता स्यात् इति चेत्, कथं यो यदनिच्छुः स तदिच्छुः परोक्तिमात्राद् भवेत्? तत्किं नाऽसौ जयमश्नुते? वा ढमश्नुते। नच तमिच्छतिच, अश्नुते चेति किमपि कैतवं तवेति चेत्, स्यादेवं,यद्यनिष्ट मपि न प्राप्येत / अवलोक्यन्ते चानिष्टान्यप्यनुकूलप्रतिकूलदैवोपकल्पितानि जनैरुपभुज्यमानानि शतशः फलानि। तदिदमिह रहस्यम-परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्वनिर्णिनीषोरानुषङ्गिकं फलं जयः, मुख्यं तु परतत्त्वावबोधनम्। जिगीषोस्तु विपर्यय इति।। स्वाऽऽत्मनि तत्त्वनिर्णिनीषुमुदाहरन्ति आद्यः शिष्याऽऽदिः||६|| (आद्य इति) स्वात्मनि तत्त्वनिर्णिनीषुरित्यर्थः। आदिग्रहणा-दिहोत्तस्त्र चस ब्रह्मचारिसुहृदादिरादीयते॥६॥ परत्र तत्त्वनिर्णिनीषुमुदाहरन्ति द्वितीयो गुर्वाऽऽदिः॥७॥ (द्वितीय इति) परत्र तत्त्वनिर्णिनीषुः / / 7 / / द्वितीयस्य भेदावभिदधतिअयं द्विविधः-क्षायोपशमिकज्ञानशाली, केवलीच // 8 // (अयमिति) परत्र तत्त्वनिर्णिनीषुर्गुर्वादिः, ज्ञानाऽऽवरणीयस्य कर्मणः क्षयोपशमेन निर्वृत्तं ज्ञान मतिश्रुतावधिमनः पर्यायरूपं व्यस्तं समस्तं वा यस्यास्ति स तावदेकः; द्वितीयस्तु तस्यैव क्षयेण यजनितं केवलज्ञानं तद्वान्। तदेवं चत्वारः प्रारम्भकाः-जिगीषुः, स्वात्मनितत्त्वनिर्णिनीषुः, परत्र तत्वनिर्णिनीषुश्च क्षायोपशमिक-ज्ञानशालिकेवलिनाविति / तत्त्वनिर्णिनीषोर्हि ये भेदप्रभेदाः प्रदर्शिताः, न ते जिगीषोः सर्वेऽपि संभवन्ति / तथाहि-न कश्चिद्वि-पश्चिदात्मानं जेतुमिच्छति / न च केवली परं पराजेतुमिच्छति, वीतरागत्वात् / गौडद्राविडाऽऽदिभेदस्तु नाङ्गनियमभेदोपयोगी; प्रसञ्जयति चानन्त्यम् / इति पारिशेष्यात् क्षायोपशमिकज्ञानशाली परत्र जिगीषुर्भवतीत्येक रूप एवाऽसौ न भेदप्रदर्शनमर्हति / यौ च परत्र तत्त्वनिर्णिनीषो दावुक्तौ, न तौ द्वावपि स्वाऽऽत्मनि तत्त्वनिर्णिनीषोः संभवतः, निर्णीतसमस्ततत्त्वज्ञानशालिन केवलिनः स्वाऽऽत्मनितत्त्वनिर्णयेच्छाऽनुपपत्तेः, इति पारिशेष्यात् क्षायोपशमिकज्ञानवानेव स्वाऽऽत्मनि तत्त्वनिर्णिनीषुर्भवतीत्यसावप्येकरूप एवेति। रत्ना०८ परि०।। तत्तण्णु त्रि०(तत्त्वज्ञ) तत्त्वं सकलपर्यायोपेतसकलवस्तुस्वरूपं जानातीति तत्त्वज्ञः। वस्तुतत्त्ववेदिनि, पञ्चा०१ विव० सर्वज्ञ, आव०१ अ०॥ तत्तण्णुपुट्ठि स्त्री०(तत्त्वज्ञपुष्टि) तत्त्वस्याविसंवादस्थाने हितोपदेशे, षो० 8 विव० तत्ततव त्रि०(तप्ततपस्) तापिततपस्के, आर्यसुधर्माणमुपक्रम्य "उग्गतवे दित्ततवे तत्ततवे।" तप्तं तापितं तपो येन स तप्ततपाः। तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यन्ते, तेन न च तपसा स्वात्मा तपोरूपः संतापितो, यतोऽन्यस्यास्पृश्यमिव जातम्। ओघा नि० भ० ज०। रा०सू०प्र०। ज्ञा०।