________________ तज्जीवतच्छरीरवाइ(ण) 2175 - अभिधानराजेन्द्रः - भाग 4 तज्जीवतच्छरीरवाइ(ण) साम्प्रतं तज्जीवतच्छरीरवादिमतमुफ्संजिघृक्षुः प्रस्ता वमारचयन्नाह-- एवं चेगे पागव्भिया णिक्खम्म मामगं धम्मं पन्नवें ति, तं सहहमाणा तं पत्तियमाणा तं रोयमाणा साहु सुयक्खाए समणे ति वा माहणे ति वा कामं खलु आउसो ! तुमं पूययामि / तं जहाअसणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा, तत्थेगे पूयणाए समाउर्टिसु, तत्थेगे पूयणाए निकाइंसु // 18|| मूर्तिमतः शरीरादन्यदमूर्त ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिना भाव्यमतः शरीरात्पृथग्भूत आत्माऽमूर्तो ज्ञानवत्तदाधारभूतोऽस्तीति। न चात्माऽभ्युपगममन्तरेण तज्जीवतच्छरीरवादिनः किञ्चिद्विचार्यमाणं मरणमुपपद्यते / दृश्यन्ते च तथा भूत एव शरीरे म्रियमाण मृताश्च / कुतः समागतोऽहं, कुत्र चेदं शरीरं परित्यज्य यास्यामि? तथेवं मे शरीरं पुराणं कर्मेत्यधमाधिकाः शरीरात्पृथग्भावेनाऽऽत्मनि संप्रत्यया अनुभूयन्ते। तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथक् जीवास्तित्वमश्रद्दधानाः प्रागल्भिकाः प्रागल्भ्येन चरन्ति, धृष्टतामापन्ना अभिदधति। तद्यथा-अवमात्मा शरीरत्पृथग्भूतः स्यात्ततः संस्थानवर्णगन्धरसस्पर्शान्यतमगुणोपेतः स्यात् / न च ते वराकाः स्वदर्शनानुरागान्धतमसाऽऽवृतदृष्टय एतद्विदन्ति / तथामूर्तस्यायें धर्मों, नामूर्तस्य, न हि ज्ञानस्य संस्थानाऽऽदयो गुणाः संभाव्यन्ते। न च तत्तदभावेऽपि नास्तीत्येवमात्माऽपि संस्थानाऽऽदिगुणरहि-तोऽपि विद्यत इति। एवं युक्तियुक्तमप्यात्मानं धाष्टान्नाभ्युपगच्छन्ति / तथा निष्क्रम्य च स्वदर्शनविहितां प्रव्रज्यां गृहीत्वा नाऽन्यो जीवः शरीराद्विद्यत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य स्वतोऽपरेषां च तं तथाभूतं धर्म प्रतिपादयन्ति; यद्यपि लोकायतिकानां नास्ति दीक्षाऽऽदिकं, तथाऽप्यपरेण शाक्याऽऽदिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य तथावि-धपरिणतेस्तदेवाभिरुचितमतोमामकोऽयं धर्मः स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञामयन्ति / यदि वा-नीलपटाऽऽद्यभ्युपगन्तुः कश्चिदस्त्येव प्रवल्याविशेष इत्यदोष इति। साम्प्रतं तत्प्रतिज्ञापितशिष्यव्यापारमधिकृत्याऽऽह-(तं सद्दहमाणे इत्यादि) तं नास्तिकवाद्युपन्यस्तं धर्म विषयिणामनुकूलं श्रद्दधानाः स्वमतावतिशयेन रोचयन्तस्तथा प्रतिपादयन्तोऽवितथभावेन गृह्णन्तस्त था तत्र रुचि कुर्वन्तस्तथा साधुशोभनमेसद्यथा स्वाख्यातं यथाऽवस्थितो भवतो धर्मोऽन्यथा सति हिंसाऽऽदिष्वप्रवर्तमानः परलोकभवात्सुखसाधनेषु मांसमद्याऽऽदिष्वप्रवृत्तिं कुर्वन्तो मनुष्यजन्मफलवर्जिता भवेयुः / ततः शोभनमकारि भवता हे श्रमण ! ब्राह्मण ! इति वा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः, काममिष्ट तदस्माकं धर्मकथनम्। खलुशब्दो वाक्यालङ्कारे। हे आयुष्मन् ! त्वया वयमभ्युद्रताः कार्पटिकैस्तीर्थिकैर्वञ्चिताः स्युरिति / तस्मादुपकारिण त्वां भवन्तं पूजयाम्यहमपि कश्चिदायुष्मतो भगवतः प्रत्युपकारं करोमि / तदेव दर्शयति / तद्यथा-(असणेत्यादि) सुगमम् / यावत्पादपुञ्छनकमिति। तत्रैके पूर्वोक्तया पूजया पूजायां वा (समाउ टिंसु त्ति) समावृताः प्रह्लीभूतास्ते राजानः पूजां प्रति प्रवृत्तास्तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तस्तं राजादिक स्वदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्वा हिताहि-तप्राप्तपरिहारेषु निकाचितवन्तो नियमितवन्तः। तथाहिभवतेदं तच्छरीरमित्यभ्युपगन्तव्यमन्यो जीवोऽन्यच्च शरीरमित्येतत् परित्याज्यम्, अनुष्ठानमपि एतदनुरूपमेतद्विधेयमित्येवं निकाचितवन्त इति // 18 // पुव्वमेव ते सिं णायं भवति-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्म णो करिस्सामि समुट्ठिए ते अप्पणो अप्पडिविरया भवंति, सयमाइयंति, अन्ने वि आदिया ति, अन्नं पि आयंतं तं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लुद्धा रागद्दोसवसट्टाते णो अप्पाणं समुच्छेदें ति, ते णो परं समुच्छेदेति, णो अण्णाई पाणाई भूताई जीवाई सत्ताईसमुच्छेदें ति, पहीणा पुव्वसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हचाए णो पाराए अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरए ति आहिए // 19 // तत्र ये भागवताऽऽदिकं लिङ्गमभ्युपगताः पश्चाल्लोकायतग्रन्थश्रवणेन लोकायताः संवृत्ताः, तेषामादौ प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति / तद्यथा-परित्यक्तपुत्रकलत्राः श्रमणा यतयो भविष्यामः, अनगारा गृहरहिताः, तथा निष्किञ्चनाः किञ्चन द्रव्यं तद्रहिताः, तथाऽपशवो गोमहिष्यादिरहिताः, परदत्तभोजिनः स्वतः पचनपाचनाऽऽदिक्रियारहितत्वात्, भिक्षणशीला भिक्षवः, कियद्वक्ष्यते-अन्यदपि यत्किञ्चित्पापं सावध कर्मानुष्ठानं तत्सर्व न करिष्यामीत्येवं सम्यगुत्थानेनोत्थाय पूर्व पश्चाल्लोकायतिकमुपगता आत्मनः स्वतःकर्मभ्योऽप्रतिविरता भवन्ति / विरत्यभावेऽपि यत्कुर्वन्ति तदर्शयति। पूर्व सावद्याऽऽरम्भान्निवृत्तिं विधाय नीलपटाऽऽदिकं च लिङ्गमास्थाय च स्वयमात्मना सावद्यमनु-ठानमाददते स्वीकुर्वन्ति, अन्यान्यप्यादापयन्ति ग्राहयन्ति, अन्यमप्यादानं परिग्रहं स्वीकुर्वन्तं समनुजानन्ति। एवमेव पूर्वोक्तप्रकारेण स्त्रीप्रधानाः स्त्रियोपलक्षिता वा, काभ्यन्त इति कामाः, भुज्यन्त इति भोगास्तेषां सातबहुलतयाऽजितेन्द्रियाः सन्तः, तेषु कामभोगेषु मूर्छिता एकीभावतामापन्ना गृद्धाः काङ्क्षावन्तो ग्रथिता अवबद्धा अध्युपपन्ना आधिक्येन भोगेषु, लुब्धा रागद्वेषार्ता रागद्वेषवशगाः कामभोगान्धा वा, त एवं कामभोगेषु आश्रवबद्धाः सन्तो नात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति मोचयन्ति, नाऽपि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति कर्मबन्धात् त्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनःप्राणान् प्राणिनः, तथा चाऽभूवन भवन्ति भविष्यन्ति च भूतानि, तथा वा आयुष्कधारणाज्जीवास्तान्, तथा सत्त्वांस्तधाविधवीर्यान्तरायक्षयोपशमाऽऽपादितवीर्यगुणोपेतोस्तान् समुच्छेदयन्ति, असदभिप्रायप्रवृत्तत्वात्। ते चैवंविधारतज्जीवतच्छरीरवादिनो लोकायतिका अजितेन्द्रियतमा कामभोगावसक्ताः पूर्वसंयोगात्पुत्रदाराऽऽदिकात्प्रहीणाः प्रभ्रष्टाः, आराद् याताः सर्वहेयधर्मेभ्य इत्थार्यो मार्गः सदनुष्ठानरूपः तमसंप्राप्ता इत्येवं पूर्वोक्तया नीत्या ऐहिकाऽऽमुष्मिकलोकद्वयसदनुष्ठानम्रण