________________ तज्जीवतच्छरीरवाइ(ण) 2174 - अभिधानराजेन्द्रः - भाग 4 तज्जीवतच्छरीरवाइ(ण) तद्यथा-आयुष्मन् ! शरीराबहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यम् / तत्र किं दीर्घः शरीरात्प्रांशुतरः, उत ह्रस्वोऽङ्गुष्ठश्यामाकतण्डुलाऽऽदिपरिमाणो वा? तथा संस्थानानां परिमण्डलाऽऽदीनां मध्ये किंसस्थानः, तथा कृष्णाऽऽदीनां वर्णाना मध्ये कतमवर्णवर्ती , तथा किंगन्धः, षण्णां रसानां मध्ये कतमरसवर्ती ? तथाऽष्टानां स्पर्शानां मध्ये कतमो यः स्पर्शो वर्त्तते ? तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्वसावगृह्यमाणोऽसन्नसौ तथाऽपि केनाऽपि प्रकारेणासवेद्यमानोऽपि येषां तत्स्वाख्यातं भवति। यथाऽन्यो जीवोऽन्यच्छरीरकमित्यय पक्षस्तस्मात्पृथगविद्यमानत्वात्ते शरीरात्पृथगात्मवादिनो नैवं वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते // 15 // से जहाणामए केइ पुरिसे कोसीओ असिं अभिनिव्वट्टित्ता णं उवदंसेजा-अयमाउसो! असी, अयं कोसी, एवमेव णत्थि केइ पुरिसे अभिनिव्वट्टित्ताणं उवदंसेत्तारोअयमाउसो! आया, इयं सरीरं / से जहाणामए केइ पुरिसे मुंजाओ इसियं अभिनिव्वट्टित्ता णं उवदंसेजा-अयमाउसो ! मुंजे इयं इसियं, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारोअयमाउसो ! आया, इयं सरीरं। से जहाणामए केइ पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ता णं उवदंसेजा-अयमाउसो ! मंसे, अयमट्टी,एवमेव नत्थि के इ पुरिसे उवदंसेत्तारो अयमाउसो ! आया, इयं सरीरं। से जहाणामए केइ पुरिसे करयलाओ आमलक अभिणिध्वट्टित्ता णं उवदंसेज्जा-अयमाउसो ! करतले, अयं आमलए, एवमेव णत्थि | केइ पुरिसे उवदंसेत्तारो-अयमाउसो ! आया, इयं सरीरं / से जहाणामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वट्टित्ता ण उवदंसेज्जा अयमाउसो ! नवनीयं, अयं तु दही, एवमेव णत्थि केइ पुरिसे०जाव सरीरं / से जहाणामए केइ पुरिसे तिलेहिंतो तिल्लं अभिणिव्वट्टित्ता णं उवदंसेज्जा-अयमाउसो ! तेल्लं, अयं पिन्नाए,एवमेव०जाव सरीरं। से जहाणामए केइ पुरिसे इक्खुत्तो खोतरसं अभिनिव्वट्टित्ताणं उवदंसेज्जा-अयमाउसो! खोतरसे, अयं खोए, एवमेव०जाव सरीरं / से जहा णामइ केइ पुरिसे अरणीतो अग्गिं अभिनिव्वट्टित्ता णं उवदंसेज्जा-अय-माउसो! अरणी, अयं अग्गी, एवमेव०जाव सरीरं / एवं असंते असंविजमाणे जेसिंतं सुयक्खायं भवति-तं जहा- अन्नो जीवो, अन्नं सरीरं, तम्हा ते मिच्छा।।१६|| तद्यथा नाम कश्चित्पुरुषः कोशतः परिवारादसिं खड्ग मभिनिर्व-र्त्य समाकृष्यान्येषामुपदर्शयेत् / तद्यथा-अयमायुष्मन् ! असिः खड्गोऽयं च कोशः परिवारः,एवमेव जीवशरीरयोरपि नास्त्युपदर्शयिता / तद्यथा-- अयं जीवः,इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिदतः कायान्न भिन्नो जीव इति। अस्मि श्वार्थे बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह। तद्यथा-वा-कश्चित्पुरुषो मुजात् तृणविशेषात् (इसियं ति) तदर्भभूता शलाकां पृथक् कृत्य दर्शयेत् / तथा मांसादस्थि; तथा करतलादामलकम, तथादध्नो नवनीतम्; तिलेम्यस्तैलमिति; तथेज्ञो रस, तथाऽरणी तोऽग्निमभिनिवर्त्य दर्शयेत्। एवमेव शरीराद् जीवमिति न चाऽरत्येवमुपद शयिताऽतोऽसन्नात्मा, शरीरात्पृथगसंवेद्यमानश्चेति / प्रयोगश्चात्रसुखदु खभाक् परलोकयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः, घटाऽऽत्मवत्, व्यतिरेकेण च कोशखगवत् / तदेवं युक्तिभिः प्रतिपादितोऽप्यात्मा भवेत्, येषां पृथगात्मादिना स्वदर्शनानुरागादेतत्स्वाख्यातं भवति / तद्यथा-अन्यो जीवः परलोकानुयायी अमूर्तोऽन्यच्च तद्भववृत्ति मूर्तिमच्छरीरमेतच पृथङ् नोपलभ्यते / तस्मात्तन्मिथ्यायैः कैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति॥१६|| से हंता तं हणह, खणह, थणह, डहह, पयह, आलुपइ, विलुपह, सहासकारेह, विपरामुसह, एतावं ताव जीवे, णत्थि परलोए वा,ते णो एवं विप्पडिवेदंति-तं जहा-किरियाइ वा अकिरियाइ वा सुक्कडेइ वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धाइ वा असिद्धाइ वा निरएइ वा अनिरएइवा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए / / 17 / / एतदध्यवसायी च स लोकायतिकः स्वतः प्राणिनामेकेन्द्रियाऽऽदीनां हन्ता व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्याऽन्येषामपि प्राण्युपघातकारिणामुपदेश ददाति / तद्यथा-प्राणिनः खङ्गाऽऽदिना घातयेत, पृथिव्यादिकं खनतेत्यादिसुगमम्। यावदेतावानेव शरीरमात्र एव जीवस्ततः परलोकिनोऽभावान्नास्ति परलोकोऽतस्तदभावाच यथेष्टमासत / तथा चोक्तम्-"पिव खाद च साधु शोभने ! यदतीते वरगात्रि! तत्रते। न हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्' // 1 // तदेव परलोकयायिनो जीवस्याऽभावान्न पुण्यपाये स्तः, नापि परलोक इत्येवं येषां पक्षस्ते लोकायतिकास्तजीवतच्छरीरवादिनो, नैवैतद्वक्ष्यमाणं प्रतिवेदयन्ति अभ्युपगच्छन्ति / तद्यथा-क्रियां वा सदनुष्ठानाऽऽत्मिकाम्, अ क्रियां वा असदनुष्ठानरूपाम् / एवं नैव ते विप्रतिवेदयन्ति--यदि हि आत्मा तक्रियावान्न कर्मणो भोक्ता स्यात्ततः पापभयात्सदभुष्ठानचिन्ता स्यात्, तदभावाच सत्क्रियादिचिन्ताऽपि दूरोत्सारितैवा तथा सुकृतं दुष्कृतं वा कल्याणमिति पापमिति वा साधुकृतमसाधुकृतमित्यादिका चिन्तै व नास्ति / तथाहि- सृकृतानां कल्याणविपाकिना साधुतयाऽवस्थानं, दुष्कृतानां च पापविपाकिनामसाधुत्वेनावस्थानमेतदुभयमपि सत्वात्मनि तत्फलभुजिसंभवति, तदभावाच कुतोऽनर्थकौ हिताहितप्राप्ति परिहारौ स्याताम्? तथा सुकृतेन कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिः, तथा दुष्कृतेन पापानुबन्धिना असाध्वनुष्ठानेन नरको, नरके वा तिर्यक्नरामरगतिलक्षणं स्यादित्येववमात्मिका चिन्तैवन भवेत्, तदाधारस्याऽऽत्मसद्भावस्यानभ्युपगमादिति भावः। पुनरपि लोकायतिकानुष्ठानदर्शनायाऽऽह-(एवं ते इत्यादि) एव-मनन्तरोक्तेन प्रकारेण ते नास्तिका आत्माभाव प्रतिपाद्य विरूपं नानाप्रकारं रूपं स्वरूपं येषां ते, तथा कर्मसमारम्भाः सावद्यानुष्ठानरूपाः पशुघातमांसभक्षणसुरापाननिलाञ्छनाऽऽदिकाः, तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीवलानुष्ठामाऽऽदिभिर्विरूपकान कामभोगान् समारभन्ते समाददति तदुपभोगार्थमिति // 17 //