________________ तज्जीवतच्छरीरवाइ(ण) 2173 - अभिधानराजेन्द्रः - भाग 4 तज्जीवतच्छरीरवाइ(ण) कदम्बकम्, आदानाऽऽदेयसद्भावात् / इह यत्र यत्राऽऽदानाऽऽदेयसद्भावरतत्र तत्र विद्यमान आदाता ग्राहको दृष्टः / यथा संदंशकाऽयः पिण्डयोस्तभिन्नोऽयस्कार इति। यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता ग्राहकः, स तद्भिन्न आत्मेति / तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वात्, ओदनाऽऽदिवत्। अत्र च कुलालाऽऽदीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्माऽपि तथैव स्यादति धर्मविशेषविपरीतसाधनत्वेन विरुद्धा शड्का न विधेया। संसारिण आत्मनः कर्मणा सहान्योन्यानुबन्धतः कथञ्चिन्मूर्तत्वाऽऽद्यभ्युपगमादिति / तथा यदुक्तम्-'नास्ति सत्त्व औपपातिकः" इति। तदप्ययुक्तम्। यतस्तदहर्जातबालकस्य यः स्तनाभिलाषः सोऽन्याभिलाषपूर्वकः, अभिलाषत्वात्, कुमाराभिलाषवत् ।तथा बालविज्ञानमन्यविज्ञानपूर्वकं, विज्ञानत्वात् कुमारविज्ञानवत् / तथाहि-यदहर्जातबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति, तावन्नोपरतरुदितो मुखमर्पयति स्तने इत्यतोऽस्ति बालके विज्ञानलेशः, स चान्यविज्ञानपूर्वकः / तथाऽन्यद् विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सत्त्व औपपातिक इति / तथा यदभिहितम्- "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीति। तत्राप्ययमर्थः-विज्ञानघनो विज्ञानपिण्ड आत्मा भूतेभ्य उत्थायेति प्राक्तनकर्मवशात्तथाविधकायाऽऽकारपरिणते भूतसमुदाये तवारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्माऽपि तदनु तेनाऽऽकारेण विनश्यापरपर्यायान्तरेणोत्पद्यते, नपुनस्तैरेव सह विनश्यतीति। तथा यदुक्तम्-धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव इति / तदप्यसमीचीनम् / यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया, जगद्वैचित्र्यदर्शनाच। यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तत्वेनोपन्यस्तं,तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्त इति दुर्निवारः पुण्यापुण्यसद्भाव इति / येऽपि बहवः कदलीस्तम्भाऽऽदयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः, तेऽप्यभिहितनीत्याऽऽत्मनो भूतव्यतिरिक्तस्य परलोकयायिनः सारभूतस्य साधितत्वात् केवलं भवतो वाचालतां प्रख्यापयन्ति / इत्यलमतिप्रसङ्गेन / शेषं सूत्रं विव्रियतेऽधुनेति तदेवं तेषां भूतव्यतिरिक्ताऽऽत्मनिहववादिनां योऽयं लोकश्चतुर्गतिकसंसारो भवाद् भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभगदुर्भगसुरूपमन्दरूपेश्वरदारिद्रयाऽऽदिगत्या जगद्वैचित्र्यलक्षणश्च, स एवंभूतो लोकस्तेषां कुतो भवेत् ? कयोपपत्त्या घटेत्? आत्मनोऽनभ्युपगमान्न किञ्चिदित्यर्थः / ते च नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्वाभावमाश्रित्य यतकिञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्तिभूयोऽपि ज्ञानाऽऽवरणाऽऽदिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति। यदि वा तम इव तमो दुःखसमुद्धातेन सदसद्विवेकप्रध्वं सित्वाद यातनास्थानम्, तस्मादेवंभूतात्तमसः परतरं तमो यान्ति। सप्तमनरकपृथिव्यां रौरवमहारौरवका-लमहाकालाप्रतिष्ठानाऽऽख्यं नरकाऽऽवास यान्तीत्यर्थः / किमिति? यतस्ते मन्दा जडा मूर्खाः सत्यपि युक्त्युपपन्ने आत्मन्यसदभिनिवेशात् तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे व्यापारे निश्चयेन नितरां चाश्रिताः संबद्धाः पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षयाऽऽरम्भनिः श्रिता इति।। सूत्र०१ श्रु०१ अ०१उ०1 तं जहा-उड्डे पादतला, अहे के सग्गमत्थया, तिरियं तयपरियंते जीवे, एस आयापज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवइ, सरीरे धरमाणे धरइ, विणट्ठम्मिय णो धरइ, एयं तं जीवियं भवति, आदहणाए परेहिं निजइ, अगणिज्झामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामं पञ्चागच्छंति, एवं असंते असंविजमाणे, जेसिं (तं असंते असंविजमाणे) तेसिं तं सुयक्खायं भवति / अन्नो भवति जीवो, अन्नं सरीरं, तम्हा ते एवं नो विपडिवेर्देति-अयमाउसो ! आया दीहे तिवा, हस्से तिवा, परिमंडले तिवा, धट्टे तिवा, तसे ति वा, चउरंसे ति वा, आयते तिवा, छलंसिए ति वा, अटुंसे ति वा, किण्हे ति वा, णीले ति वा, लोहियहालिद्दसुकिले ति वा, सुब्भिगंधे ति वा, दुब्भिगंधे ति वा, तित्ते ति वा,कडुए ति वा, कसाए तिवा, अंबिले तिवा,महुरे तिवा,कक्खडे ति वा,मउए ति वा, गुरुए ति वा, लहुए ति वा, सीए ति वा, उसिणे ति वा, निद्धे ति वा, लुक्खे ति वा, एवं असंते असंविज्जमाणे जेसिं तं सुयक्खायं भवतिअन्नो जीवो, अन्नं सरीरं, तम्हा ते णो एवं उवलब्भंति॥१५॥ तद्यथा-ऊर्ध्वमुपरि पादतलात्, अधश्च केशाग्रमस्तकात्, तिर्यक् च त्वपर्यन्तो जीवः। एतदुक्तं भवति-यदेवैतच्छरीरं, स एव जीवो, नैतस्माच्छरीराद्वयतिरिक्तोऽस्त्वात्मेत्यतस्तत्प्रमाण एव भवत्यसावित्येवं च कृत्वैष आत्मायोऽयंकायोऽवमेव च तस्याऽऽत्मनः पर्यवः, कृत्स्नः सम्पूर्णः पर्यायोऽवस्थाविशेषः, तस्मिश्च कायात्मन्यवाप्ते तदव्यतिरेकात् जीवोऽप्यवाप्त एव भवति / एष च कायो यावन्तं कालं जीवेदविकृत आस्ते, तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात्। तथैव कायो यदा मृतो विकारभाग्भवति, तदाजीवोऽपि नजीवति, जीवशरीरयोरेकाऽऽत्मकत्वात्। यावदिदं शरीरं पञ्चभूताऽऽत्मकमव्यङ्ग धरति, तावदेव जीवोऽपीति। तस्मिश्च विनष्टे सत्येकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्याऽपि तदात्मनो विनाशः, तदेव यावदेतच्छरीरं वातपित्तश्लेष्माऽऽधारं पूर्वस्वभावादप्रच्युतं तावदे तज्जीवस्य जीवितं भवति। तस्मिश्च विनष्टे तदात्मा जीवोऽपि विनष्ट इति कृत्वा आ दहनायाऽऽसमन्ताद्दहनार्थं श्मशानाऽऽदौ नीयते, यतोऽसौ तस्मिश्च शरीरेऽग्निध्मापिते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते, न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते, यत आत्मास्तित्वशङ्का स्यात्।ते च तद्बान्धवा जघन्यतोऽपि चत्वारः। आसन्दी मञ्चकः, स पञ्चमो येषा ते असिन्दीपञ्चमाः पुरुषाः, तं कायमग्निना ध्मापयित्वा पुनः स्वग्रामं प्रत्यागच्छन्ति। यदिपुनस्तत्राऽऽत्मा निजशरीरागिन्नः स्यात्ततः शरीरान्निर्गच्छन् दृश्येत। न चोपलभ्यते, तस्माजीवस्तदेव शरीरमिति स्थितम् / तदेवमुक्तनीत्याऽसौ जीवोऽसन्नविद्यमानस्तत्र तिष्ठन गच्छंश्वासवेद्यमानो येषामयं पक्षस्तेषां तत्स्वाख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमस्तस्मात्ते स्वयमूह्याः प्रवर्त्तमाना एवमिति वक्ष्यमाणं तेनैव विप्रतिवेदयन्ति जानन्ति /