________________ तज्जीवतच्छरीर 2172 - अभिधानराजेन्द्रः - भाग 4 तज्जीवतच्छरीरवाइ(ण) तज्जीवतच्छरीर न०(तज्जीवतच्छरीर) स चाऽसौ जीवश्च तज्जीवः कायाऽऽकारो भूतपरिणामस्तदेव शरीरम् / जीवशरीरयोरैक्ये, सूत्र०१ श्रु०१ अ०१उ०। तज्जीवतच्छरीरवाइ(ण) त्रि०(तज्जीवतच्छरीरवादिन्) नास्तिकविशेषे, सूत्र साम्प्रतंतज्जीवतच्छरीरवादिमतं पूर्वपक्षयन्नाहपत्ते कसिणे आया, जे बाला जे अपंडिआ। संति पिच्चा न ते संति, नऽत्थि सत्तोववाइया / / 11 / / तजीवतच्छरीरवादिनामयमभ्युपगमः यथा पञ्चभ्यो भूतेभ्यः कायाऽऽकारपरिणतेभ्यश्चैतन्यमुत्पद्यते, अभिव्यज्यते च, एकैकं शरीरं प्रति प्रत्येकमात्मनः कृत्स्नाः सर्वेऽप्यात्मान एवमवस्थितोः। ये बाला अज्ञाः, ये च पण्डिताः सदसद्विवेकज्ञाः, ते सर्वे पृथग् व्यवस्थिताः। न ह्येक एवाऽऽत्मा सर्वव्यापित्वेनाभ्युपगन्तव्यः बालपण्डिताऽऽद्यावभागप्रसङ्गात् / ननु प्रत्येकशरीराऽऽश्रयत्वेनाऽऽत्मबहुत्वमार्हतानामपीष्ट - मेवेत्याशङ्कयाऽऽहसन्ति विद्यन्ते यावच्छरीरं विद्यन्ते, तदभावे तु न विद्यन्ते / तथाहि-कायाऽऽकारपरिणतेषु भूतेषु चैतन्याऽऽविर्भावो भवति, भूतसमुदायविघट्टने च चैतन्यापगमो, न पुनरन्यत्र गच्छचैतन्यमुपलक्ष्यते। तदेव दर्श-यति-(पिचा न ते संतीति) प्रेत्य परलोकेन ते आत्मानः सन्ति विद्यन्ते, परलोकानुयायी त्वात्मा शरीरागिनः स्वकर्मफलभोक्ता न कश्चिदात्माऽऽख्यः पदार्थोऽस्तीति भावः / किमित्येवमत आह(नऽस्थि सत्तोववाझ्या) अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः / तदयमर्थ:-न सन्ति न विद्यन्ते, तदभावे तु न विद्यन्ते सत्त्वाः प्राणिन उपपातेन निर्वृत्ता औपपातिका भवद्भिवान्तरगामिनो न भवन्तीतितात्पर्यार्थः। तथाहि तदागमः-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीति, न प्रेत्य संज्ञा अस्तीति / " ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनः को विशेषः? इत्यत्रोच्यतेभूतवादिनो भूतान्येव कायाऽऽकारपरिणतानि धावनवल्गनाऽऽदिकां क्रियां कुर्वन्त्यस्य तुकायाऽऽकारपरिणतेभ्यो भूतेभ्यश्चैतन्याऽऽख्य आत्मोत्पद्यतेभिव्यज्यतेच, तेभ्यश्चाभिन्न इत्ययं विशेषः।।११।। एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाहनऽत्थि पुण्णे च पावे वा, नऽत्थि लोए इतो परे। सरीरस्स विणासेणं, विणासो होइ देहिणो।।१२।। पुण्यमभ्युदयप्राप्तिलक्षणं, तद्विपरीत पापम्, एतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्। तदभावाच नास्तोतोऽस्माल्लोकात परोऽन्यो लोको यत्र पुण्यपापानुभव इति। अत्रार्थे सूत्रकारः कारणमाहशरीरस्य कायस्य विनाशेन भूतविघटनेन, देहिन आत्मनोऽप्यभावो भवति, यतो न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं पापं वाऽनुभवतीत्यतो यर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति / अरिंमश्चार्थे बहवो दृष्टान्ताः सन्ति / तद्यथा-यथा जलबुदबुदो जलातिरेकेण नाऽपरः कश्चिद्विद्यते, तथा भूतव्यतिरेकेण नाऽपरः कश्चिदात्मेति / तथा च यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वङ्मात्रमिव सर्व नाऽन्तः कश्चित्सारोऽस्त्येवंभूतसमुदाये विघटति सति तावन्मानं विहाय नान्तः सारभूतः कश्चिदात्माऽऽख्यः पदार्थ उपलभ्यते। यथा वा अलातं भ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पा- | दयति, एवं भूतसमुदायोऽपि विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति / यथा च स्वप्ने बहिर्मुखाऽऽकारतया विज्ञानमनुभूयते, आन्तरेणैव बाह्यमर्थम्, एवमात्मानमन्तरेण तद्विज्ञानं भूतसमुदाये प्रादुर्भवतीति / तथा यथाऽऽदर्श स्वच्छत्वात्प्रतिबिम्बतो बहिः स्थितोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चाऽसौ तथा 1 च ग्रीष्मे भौमेनोष्मणापरिस्पन्दमाना मरीचयो जलाऽऽकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगराऽऽदयः स्वस्वरूपेणाऽतथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्माऽपि भूतसमुदायाऽऽकारपरिणतौ सत्या पृथगसन्नेव तथा भ्रान्ति समुत्पादयतीति / अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते / अस्माभिस्तु सूत्राऽदर्श चिरन्तनटीकायां चादृष्टत्वान्नालिड़िता नीति / / ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये न, तत्कथमेतद्यद्वेचित्र्यंघटते? तद्यथा-कश्चिदीश्वरोऽपरोदरिद्रोऽन्यः सुभगोऽपरो दुर्गभः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीत्येवंप्रकारा विमित्रता किंनिबन्धनेति? अत्रोच्यते, स्वभावात्। तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं विद्यते, तच कुङमागरुचन्दनाऽऽदिविलेपनानुभोगमनुभवति, धूपाऽऽद्यामोदं च, अन्यस्मिस्तु पाषाणखण्डे पादक्षालनाऽऽदि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स तादृगवस्थाविशेष इत्येवंस्वभावाञ्जगद्वैचित्र्यम् / तथाचोक्तम्- "कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता / वर्णाश्व तामचूडानां, स्वभावेन भवन्ति हि।।१।।" इति। तद्यावत्तच्छरीवादिमत गतम् / / 12 / / सूत्र०१ श्रु०१अ०१उ०) साम्प्रतं तज्जीवतच्छरीरवादिनो मतं निराचिकीर्षुराहजे ते उ वाइणो एवं,लोए तेसिं कओ सिया ? तमाओ ते तमं जंति, मंदा आरंभनिस्सिया // 14|| ये तावच्छरीराऽव्यतिरिक्ताऽऽत्मवादिनः एवं पूर्वोक्तयुक्त्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्तेतेषां लोकश्चतुर्गतिभवरूपः सुभगदुर्भगसुरूपकुरूपेश्वरदारिद्रयादिगत्या जगद्वैचित्र्यरूपः कुतः स्यात्? आत्माऽनङ्गीकारे पुण्य पापाभावे कथं विश्ववैचित्र्यमित्यर्थः? ते च नास्तिकास्तमसोऽज्ञानरूपात्तमो यान्ति ज्ञानाऽऽवरणाऽऽवृताः पुनर्ज्ञानाऽऽवरणरूपं तमः प्रविशन्ति। अथवा-सद्विवेकप्रध्वंसित्वात्तमो दुःखं, तस्मात्तमो महादुःखं यान्ति, यतस्ते मन्दा जडाः परलोकनिरपेक्षत्वाचाऽऽरम्भनिः श्रिताः (सूत्र०दी०१श्रु०१अ०१3०1) तत्र यत्तैस्तावदुक्तम् / यथा-न शरीरादिन्नोऽस्त्यात्मेति / तदसंगतम्। यतस्तत्प्रसाधकं प्रमाणमस्ति / तचेदम्-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताऽऽकारकत्वात्, इह यद्यदादिमत्प्रतिनियताऽऽकार तत्तद् विद्यमानकर्तृकं दृष्टम् / यथा घटः, यचाविद्यमानकर्तृकं तदादिमत्- प्रतिनियताऽऽकारमपि न भवति, यथाऽऽकाशम् / आदिमत्प्रतिनियताऽऽकारस्य च सकर्तृत्वेन व्याप्तेः व्यापकनिवृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् / तथा विद्यमानाधिछातृकाणीन्द्रियाणि, करणत्वात्, यद्यदिह करणं तत्तद् विद्यमानाधिष्ठातृकं दृष्टम्, यथा-दण्डाऽऽदिकमिति / अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः, यथाऽऽकाशस्य / हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति। तथा विद्यमानाधिष्ठातृकमिदमिन्द्रियविषय