SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ ण्हाण 2165 - अभिधानराजेन्द्रः - भाग 4 पहाण पोपलब्धस्यकीयपूर्वभववृत्तान्तः पारगतोपदेशतो दुर्गतत्वनिबन्धनकर्मक्षपणाय, "पदहमुपार्जयिष्यामि द्रव्यं तद् ग्रासाऽऽच्छादनवर्ज जिनाऽऽयतनाऽऽदिषु नियोक्ष्ये," इत्यभिग्रह गृहीतवान्, कालेन च निर्वाणमवाप्तवानिति। अथ युक्तं संकाशस्यैतत्, तथैव तत्कर्मक्षयोपपत्तेः, न पुनरन्यस्य / नैवम् / सर्वथैवाशुभस्वरूपव्यापारस्य विशिष्टनिर्जराकारणत्वायोगादिति / यत्तु-"शुद्धाऽऽगमैर्यथालाभम्' इत्यादि / तन्न स्वयं पुष्पत्रोटननिषेधनपरं, किं तु पूजाकालोपस्थिते मालिके दर्शनप्रभावनाहेतोर्वणिक्कला न प्रयोक्तव्येत्यस्यार्थस्य ख्यापनपरम्, इतरथा-"सुच्चइ दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहिं / पूयापणिहाणेणं, उववन्ना तियसलोगम्मि॥१॥" (पञ्चा०) न हि तया यथालाभं, न्यायोपात्तवित्तेन वा तानिं गृहीतानीति / तथा चैत्यसम्बन्धितया ग्रामाऽऽदीनां प्रति-पादनान्नाऽऽरामाऽऽद्यभावः प्रोक्तः / यदाहः'चोएइ चेइयाण, रुप्पसुवन्नाइ गामगावाइ। लगतस्स हु मुणिणो, तिकरणसुद्धी कह नु भवे? ||1|| भन्नइ एत्थ विभासा, जा एयाइं सयं वि मग्गेजा। नहु तस्स हुज सुद्धी, अह कोइ हरेज एयाइं॥२॥ सव्वत्थामेण तहिं, संघेणं होइ लगियव्वं तु। सचरित्तीणं एयं,सव्वेसिं होइ कर्ज तु॥३॥" तदेवं मलिनाऽऽरम्भिणो धर्मार्थ स्नानाऽऽदिकमविरुद्धमिति स्थितम्। ननु यतिस्त्र कस्मान्नाधिकारी, यतः कर्मलक्षणो व्याधिरेको द्वयोरपि यतिगृहस्थयोरतस्तचिकित्साऽपि पूजाऽऽदिल--क्षणा समैव भवति, ततो यद्येकस्याधिकारः, कथं नापरस्य? अथ "स्नानमुत्तनाऽभ्यङ्ग, नखकेशाऽऽदिसंस्क्रियाम्। गन्धमाल्यंचधूपंच,त्यजन्ति ब्रह्मचारिणः'' / / 1 / / इति वचनाद् यतेः स्नाने, तत्पूर्वकत्वाद्देवार्चनस्य तस्मिश्च, नाधिकारः, नैवम्, भूषार्थस्यैव तस्य निषेधात्। अथ सावधनिवृत्तोऽसाविति तत्र नाधिकारी ननु यदि यतिः सावधान्निवृत्तस्ततः को दोषः, यत्स्नानं कृत्वा देवताऽर्चनं न करोति? यदि स्नानपूर्वकदेवताऽर्जने सावद्ययोगः स्यात्, तदाऽसौ गृहस्थस्याऽपि तुल्य इति,तेनापिनकर्त्तव्यं स्यात् / अथ गृहस्थः कुटुम्बाऽऽद्यर्थे ऽपि सावद्ये प्रवृत्तः,तेन तापि प्रवर्तताम्, यतिस्तु तत्राप्रवृत्तत्वात्कथं स्नानाऽऽदौ प्रवर्तेत इति? ननु यद्यपि कुटुम्बाऽऽद्यर्थ गृही सावधे प्रवर्तते, तथाऽपि तेन धर्मार्थ तत्र न प्रवर्तितव्यं स्यात्,यतो नैकं पापमाचरितमित्यन्यदप्याचरितव्यं स्यात्। अथ कूपोदाहरणात् पूजाऽऽदिजनितमारम्भदोष विशोध्य गृही गुणान्तरमासादयतीति युक्तं गृहिणः स्नानपूजाऽऽदि। ननु यथा गृहिणां कूपोदाहरणात्स्नानाऽऽदि युक्तम्, एवं यतेरपि तद् युक्तमेव / एवं च कथं स्नानाऽऽदौ यति धिकारीति पूर्वपक्षः? अत्रोच्यते-यतयो हि सर्वथा सावधव्यापारान्निवृत्ताः, ततश्च कूपोदाहरणेनाऽपि तत्र प्रवर्तमानानां तेषामवद्यमेव चित्ते स्फुरति, न धर्मः, तत्र सदैव शुभध्यानाऽऽदिभिः प्रवृत्तत्वात्। गृहस्थास्तु सावो स्वभावतः सततमेव प्रवृत्ताः, न पुनर्जिनार्चनाऽऽदिद्वारेण स्वपरोपकाराऽऽत्मके धर्मे , तेन तेषां तत्र प्रवर्तमानानां स एव चित्ते लगति, न पुनरवद्यमिति कर्तृपरिणामवशादधिकारेतरौ मन्तव्या-विति / स्नानाऽऽदौ गृहस्थ एवाधिकारी, न यतिरिति / आगमो-ऽप्येवं व्यवस्थितः। यदाह "छज्जीवकायसंजमों, दव्वत्थएँ सो विरुज्झए कसिणो। तो कसिणो संजमविउ, पुप्फाईयं न इच्छति॥१॥ अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे,दव्वत्थऍ कूवदिटुंतो॥२॥" तथा द्रव्यस्तवरूपत्वात् पूजायाः, तस्य च भावस्तवहेतुत्वात प्रधानत्वाच यतीनां न द्रव्यस्तवेऽधिकारः / अत एव सामायिकरथः श्रावकोऽप्यनधिकारी, तस्याऽपि सावधनिवृत्ततया भावस्त-वाऽऽरूढत्वेन श्रमणकल्पत्वात् / अत एव गृहिणोऽपि प्रकृत्या पृथिव्याधुपमर्दनभीरोर्यतनावतः सावध संक्षेपरुचेर्यतिक्रियाऽनुरागिणो न धर्मार्थ सावद्याऽऽरम्भप्रवृत्तियुक्ता / यदाह-''असदारंभपवत्तो, जं च गिही तेण तेसि विन्नेया। तन्निवित्तिफल चिय, एसा परिभा-वणीयमिणं / / 1 / / " न चायमनन्तरोदितोऽसदारम्भप्रवृत्तः, तत्कथं तस्य तन्निवृत्तिफलत्वेन स्नानाऽऽदौ सावद्याऽऽरम्भप्रवृत्तिर्युक्ता, अतः स्थितमिदंन सर्व एव सर्वत्राधिकारी, किंतुय एवैत्राधिकारी, स एवान्यत्रानधिकारीति // 5|| अथ भावस्नानप्रतिपादनायाऽऽहध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम्। मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते // 6 / / ध्यानं शुभचित्तैकाग्रतालक्षणं धर्माऽऽदि, तदेवाम्भो जलं,तद्ध्यानाम्भस्तेन, तुशब्दः पुनरर्थः,यत् स्नानं शुद्धिकारणं निर्मलत्वहेतुः, तद्भावस्नानमुच्यते इति सम्बन्धः प्रक्षालनीयप्रदर्शनायाऽऽहमलं मालिन्यनिबन्धनं, कर्म ज्ञानाऽऽवरणाऽऽदिलक्षणं, समाश्रित्याऽङ्गीकृत्य, भावान् ध्यानाऽऽदीनाश्रित्य भावतो वा परमार्थतः स्नानं भावस्नान, तदित्येवंभूतमुच्यते तत्स्वरूपविद्भिरभिधीयत इति // 6 // अस्यैव कारकभेदेनोत्तमस्वरूपतामाहऋषीणामुत्तमं ह्येतन्निर्दिष्टं परमर्षिभिः। हिंसादोषनिवृत्तानां, व्रतशीलविवर्द्धनम्॥७॥ पश्यन्ति यथावद्वस्त्विपि ऋषयो मुनयस्तेषां, हिशब्दोऽवधारणार्थः, तेन ऋषीणामेवोतमं प्रधानमेत्तद्भावस्नानं निर्दिष्ट प्रतिपादितं, परमीषिभिर्मुनिपुङ्गवैः, सर्वज्ञैरित्यर्थः / ऋषीणामुत्तममिति विशेषणसामर्थ्यादन्येषां त्वनुत्तममेव तदिति सिद्धं तेषाम, विशिटधर्मध्यानाभावादिति / अथवा-ऋषीणामुत्तममेतदेवेत्येवमव-धारणं दृश्यम्। ततश्चोत्तमत्वात्तदेव तेषां विधेयम्। ननु देवार्चनार्थ द्रव्यस्नानमपि, किंभूतानामृषीणामित्याह-हिंसा प्रमत्तयोगात्प्राणव्यपरोपणं,सैव दोषो दूषणं हिंसादोषः, ततो निवृत्ता उपरता येते तथा, तेषां हिंसादोषनिवृत्तानाम्, न तु ऋषय एवंविधा एव भवन्तीति विशेषणे मिदमनर्थकम्,नैवम्,हेतुतया सोपन्यासात् / ततश्च ऋषीणामुत्तममिदे हिंसादोषनिवृत्तत्वादिति वाक्यार्थः स्यात्। किंभूतमिदमित्याह-व्रतानि महाव्रतानि , शीलं च समाधिः, अथवा-व्रतानि मूलगुणाः, शीलमुत्तरगुणाः, तेषां विशेषेण वर्द्धनं वृद्धिकारणं व्रतशीलविवर्द्धन, भावस्नानं हि धर्मशुक्लध्यानरूपं, तचैतद्विवर्धनं भवत्येवेति // 7 // उपसहरन्नाहस्नात्वाऽनेन यथायोगं, निःशेषमलवर्जितः। भूयो न लिप्यते तेन, स्नातकः परमार्थतः ||8|| स्नात्वा शौचं विधाय, अनेन भावहे तुद्रव्यस्नानेन, भावस्नाने
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy