________________ पहाण 2164 - अभिधानराजेन्द्रः - भाग 4 पहाण तेऽभिधीयते, स्नानलक्षणविद्भिः / अन्ये तु प्रायोऽन्यानुपरोधेनेत्येतदित्थं व्याचक्षते-प्रायो बाहुल्येनान्येषां जलस्वरूपातिरिक्ताना प्राणिनामनुपरोधोऽव्यापादनं प्रायोऽन्यानुपरोधः, तेनेति / / 2 / / ___अर्थतस्यैव कर्तृवशात् प्रधानाऽप्रधानतां दर्शयन्नाहकृत्वेदं यो विधानेन, देवताऽतिथिपूजनम्।। करोति मलिनाऽऽरम्भी, तस्यैतदपि शोभनम् ||3|| कृत्वा विधाय, इदमनन्तरोदितं द्रव्यस्नानं, य इति तदधिकारवान् धार्मिकः, विधानेन धार्मिकजनोचितस्नानविधिना 'भूमीपेहणजलछाणणाइ जयणा उ होइ ण्हाणाओ।" इत्येवंरूपेण, ततः किमित्याह-देवताऽनन्तरविवेचितस्वरूपमहादेवलक्षणा, अतति सततमप्रतिबद्धविहारितया गच्छतीत्यतिथिः, अविद्यमाना था तिथिः, उपलक्षणत्वादुत्सवाऽऽदयश्च यस्येत्यतिथिः सन्मार्गनिरतो यतिः / उक्तं / च-"तिथिपर्वोत्सवाः सर्वे,त्यक्ता येन महात्मना / अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः" | // 1 // इति / तयोः पूजनमुचितसत्कारकरणं देवताऽतिथिपूजनं. तत्करोति विधत्ते। द्वितीयव्याख्यानपक्षे तु-विधानेन देवताऽतिपूजन करोतीत्येवं सम्बन्धः कार्यः / कोऽसावित्याह-मलिनोऽवद्यमलयुक्त आरम्भो व्यापारो मलिनाऽऽरम्भः, सोऽस्यास्तीति मलिनारम्भी, सावद्ययोगाऽऽद्यनिवृत्तो गृहस्थ इत्यर्थः / कुतीर्थिकशिक्षणाभिप्रायप्रवणं चेदं विशेषणं,तच्छिक्षणं चैवम्हे कुतीर्थिका :! यदि यूयं मलिनाऽऽरम्भिणस्तदा युष्माकमिदं द्रव्यस्नानं कर्तुमुचितं, नान्यथा / यथा ह्यस्य विशुद्धभावहेतुत्वेन प्रशस्यता, स च विशुद्धो भावो निर्मलाऽऽरम्भाणां सदैवास्तीति किमेतेनेति? तस्येति देवताऽतिथिपूजनकर्तुमलिनाऽऽरम्भिणः, एतदपीति न केवलं वक्ष्यमाणस्वरूपं भावस्नानं शुभपरिणामरूपत्वाच्छोभनमेतदपि द्रव्यस्नानमपिशोभनं साधु, सत्यपि सावद्यत्वे प्रायोमददऽऽदिहेतुत्वे च शुभभावहेतुत्वात् तस्येति विशेषणात्तदन्यस्य त्वशोभनमेव तदिति सिद्धं भावशुद्धिनिमित्तत्वादिति // 3 // शोभनमिदमित्युक्तं तत्समर्थनार्थमाहभावशुद्धिनिमित्तत्वात्तथाऽनुभवसिद्धितः। कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः॥४॥ भावोऽध्यवसायः, तच्छुद्धिर्निर्मलता, तस्या निमित्तं कारण, तस्य भावोभावशुद्धिनिमित्तत्वं, तस्मादेतदपि शोभनमिति प्रकृतम्। न चास्य भावशुद्धिहेतुत्वमसिद्धमित्याह-तथा तेनैव प्रकारेण भावशुद्धिनिमित्त- / तयैव योऽनुभवः संभवेदनन्तरस्य या सिद्धिः प्रतीतिः सा तथाऽनुभवसिद्धिः, तस्यास्तथाऽनुभवसिद्धितः। अथ द्रव्यस्नानं भावशुद्धिनिमितमपि सदकायिकायिकाऽऽदिजीवहिंसादोषदूषितत्वादशोभनमेवेत्याशक्याऽऽह-कथञ्चित् केनापि प्रकारेणाप्कायिकाऽऽदिविराधनालक्षणेन, दोषभावेऽपि हिंसालक्षणावद्यसद्भावेऽपि, न केवल दोषाभावे इत्यपिशब्दार्थः। तस्माद्धिसाऽऽदिदोषाद्योऽन्यो गुणः सम्यग्दर्शनशुद्धिलक्षणः, स तदन्यगुणस्तस्य भावो लाभस्तदन्यगुणभावः, तस्मातदन्यगुणभावतः। आह च- "पूयाए कायवहो, पडिकुट्टो सो उ किंतु जिणपूआ। सम्मत्तसुद्धिहेउ त्ति भावणीया उणिरवज्जा" ||1|| यत्स्नानं पूजार्थं तत्पूजाऽङ्गत्वात्तव्यपदेशमर्हतीति / इह च हेतुप्रयोग एवम्- | द्रव्यस्नानमपि शोभनं, भावशुद्धिनिमित्तत्वात्, यद्यद्भावशुद्धिनिमित्तं तत्तच्छोभनम्, यथा चैत्यवन्दनम्, भावशुद्धिनिमित्तं च द्रव्यस्नानं, तस्माच्छोभनमिति। अथायम-सिद्धो हेतुरित्यत्रोच्यते यद्यथाऽनुभूयते तत्तथा प्रतिपत्तव्यम्, यथा विचित्रं सुखाऽऽदिसंवेदनम्, अनुभूयते च भावशुद्धिनिमित्ततया द्रव्यस्नानं, तस्माद्भावशुद्धिनिमित्तं तदिति। अथ कथधित् सदो-षत्वात्कथं शोभनत्वमस्य? इत्यत्रोच्यतेयद्यद्विशिष्टतरगुणान्त-रोत्पत्तिहेतुस्तत्तदोषसद्भावेऽपि शोभनम्, यथा श्रमपङ्काऽऽदिदोषोपेतमपितृविच्छेदाऽऽदिविशिष्टतरगुणहेतुकूपखननम्, विशिष्टसम्यग्दर्शनशुद्ध्यादिगुणहेतुश्च द्रव्यस्नानमिति // 4|| यदि भावशुद्धिनिमित्तत्वाच्छोभन द्रव्यस्नानं, तर्हि करोति मलिनाऽऽरम्भीति कस्मादभिहितम्? मलिनाऽऽरम्भणोऽपि तथैव तस्य शोभनत्वादित्याशक्याऽऽहअधिकारिवशाच्छास्खे, धर्मसाधनसंस्थितिः। व्याधिप्रतिक्रिया तुल्या, विज्ञेया गुणदोषयोः ||5|| अधिकारोऽस्यास्तीत्यधिकारी योग्यानुष्ठाता, तस्य वशोऽपेक्षाधिकारी वशस्तस्मात्, न यथाकथञ्चिदित्यर्थः। शास्त्रे सुनिश्चिताऽऽप्ताऽऽगमे, धर्मसाधनयोः प्रस्तुतयोर्द्रव्यस्नानभावस्नानलक्ष–णयोः, संस्थितिः सम्यग् व्यवस्था धर्मसाधनसंस्थितिः। किंरूपे-यमित्याहव्याधिप्रतिक्रिया तुल्या रोगचिकित्साव्यवस्था समाना, विज्ञया सद्गुरूपदेशादर्थभिरवसेया / कयोर्विषया? इत्याह-गुणदोषयोः, गुणदोषावाश्रित्येत्यर्थः / इयमत्र भावना-यथाऽऽतुरवशाद् व्याधिचिकित्सा गुणकरी, दोषकरी च, तथा मलिनाऽऽरम्भीतरलक्षणानुष्ठातृवशाद् द्रव्ये तरस्नानरूपे धर्मसाधने गुणदोषकरे, द्रव्यस्नानं मलिनाऽऽरम्भिण एव गुणकर, नेतरस्येति हृदयम्। यतो मलिनाऽऽरम्भी देवतोद्देशेन स्नानाऽऽदावधिकारी, न त्वितरः। के चित्पुनर्वदन्ति-- मलिनाऽऽरम्भ्यपि नेहाधिकारी, यस्माद् वक्ष्यति अयमेव ग्रन्थकारः"धर्मार्थ यस्य वित्तेहा, तस्याऽनीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य, दूराद-स्पर्शनं वरम्" // 1 // इति। अनेन धर्मार्थं सावधप्रवृत्तिर्निषिद्धा, तथा शुद्धाऽऽगमैर्यथालामिति वक्ष्यति, अनेन च पुष्पत्रोटनाभावो देवसंवन्ध्यारामाभावश्च दर्शित इति। न चायं सम्यगुल्लापः, यतः स्नानं विधेयतया देवार्चनार्थमुपदिष्टमेवा यदाह-"तत्थ सुइणा दुहा वि हु, दब्वे हाएणसुद्धवत्थेण।" इति। अथ प्रासङ्गिकः स्नानापेक्षोऽयमुपदेशो, नतु देवतोद्देशिकः। एतदपिनसङ्गतम्। एवं हि यदा कदाचित्स्नातो भवेत् तदा देवार्चनं कुर्यादित्युपदिष्ट स्यात्, न नित्यकृत्यतया। नित्यकृत्यं चैतत्। आह च-"वंदतिचेइयाई, तिकालंपूइउण विहिणा उ।" इति। यत्रोक्तम्धर्मार्थमित्यादिना धर्मार्था सावधप्रवृत्तिर्निषिद्धा, तत् सत्यं, केवल स निषेधः सर्वविरतापेक्षया,तदधिकारेऽस्य श्लोकस्याधिकृतत्वात् / गृहस्थापेक्षया तु सावद्यप्रवृत्तिविशेषोऽनुज्ञात एव / यदाह- "दव्वत्थएँ कूवदिट्टतो।" इति / तथा वाणिज्याऽऽदि-सावधप्रवृत्तिरपि काचित् कस्यचिन्न दुष्टा, विषयविशेषप्रक्षयात्तद्रूपत्वेन पापक्षयगुणबीजलाभहेतुत्वात्, यथा संकाशस्य, संकाशश्रावको हि प्रमादाद्भक्षितचैत्यद्रव्यो निबद्धलाभान्तरायाऽऽदिक्लिष्टकर्मा चिरं पर्यटितदुरन्तसंसारकान्तारोऽनन्तकालाल्लब्धमनुष्यभवो दुर्गतनरशिरः शेखररूपः पारगतसमी