________________ ण्हाण 2163 - अभिधानराजेन्द्रः - भाग 4 ण्हाण विवेकविलासेऽपि"मौनी वस्त्राऽऽवृतः कुर्यादिनसन्ध्याद्वयेऽपि च / उदड़ मुखः शकृन्मूत्रे, रात्रौ याम्याननः पुनः / / 1 / / '' इति। दन्तधावनमपि"अवक्राऽग्रन्थिसत्कूर्च , सूक्ष्मागं च दशाङ्गुलम्। कनिष्ठाऽग्रसमस्थौल्य, ज्ञातवृक्षं सुभूमिजम्।।१।। कनिष्ठिकाऽनामिकयोरन्तरे दन्तधावनम् / आदाय दक्षिणा दंष्ट्रा, वामा वा संस्पृशस्तले / / 2 / / तल्लीनमानसः स्वस्थो,दन्तमांसव्यथां त्यजन्। उत्तराभिमुखः प्राची-मुखो वा निश्चलाऽऽसनः / / 3 / / " इत्यादिनीतिशास्त्रोक्तविधिना विधेयम्। गण्डूपोऽपि"अभावे दन्तकाष्ठस्य, मुखशुद्धिविधिः पुनः। कार्यों द्वादशगण्ड्वैर्जिहोल्लेखस्तु सर्वदा।।१।।" इति विधिना कार्योऽप्रत्याख्यानिना, प्रत्याख्यानिनस्तु दन्तधावनाऽऽदि विनाऽपशुद्धिरेव, तपसो महाफलत्वात्, इदं च द्रव्यस्नानं वपुःपावित्र्यसुखकरत्वाऽऽदिना भावशुद्धिहेतुः / ध० 2 अधिक। (स्नानदोषः अणायार' शब्दे प्रथमभागे 314 पृष्ठे, च शीतोदकाऽऽदिभिः पादाऽऽदिप्रधावने दोषप्रायश्चित्ते उक्ते) ततो देशस्नानं सर्वस्नानं वा सेवंतस्स आणाअणवत्थमि च्छत्तविराहणा भवति। पहाणे इमे दोसाछक्कायाण विराधणा, तप्पडिबंधो य गारव विभूसा। परिसहभीरुत्तं पिय, अविसासो चेव पहाणम्मि||६|| पहायंतो छज्जीवणिकाए वहति, पहाणे पडिबंधो भवति, पुनः पुनः स्नातीत्यर्थः / अस्नातसाधुशरीरेभ्यः निर्मलशरीरोऽहमिति गौरवं कुरुते, स्नान एव विभूषाऽलङ्कार इत्यर्थः / अण्हाहपरीसहाउ वीहेति, तं तं जिनातीत्यर्थः / लोगस्साविभूभणीयो भवति / एते स्नानदोषा उक्ताः / नि०चू० २उ० स्नानाष्टकम्-पूजाऽऽदि स्नानपूर्वकमिति स्नाननिरूपणायाऽऽहद्रव्यतो भावतश्चैव, द्विधा स्नानमुदाहृतम्। बाह्यामाध्यात्मिकं चेति, तदन्यैः परिकीर्त्यते / / 1 / / द्रवति गच्छति तास्तान् पर्यायानिति द्रव्यम्-पुद्गलाऽऽदि, त-स्माद् द्रव्यात् द्रव्यतो जललक्षणं करणभूतम् 1, देहदेशलक्षणं वा शोधनीयम् 2, मनोलक्षण वाऽपनेय, द्रव्यमाश्रित्येत्यर्थः३. अथवा-द्रव्यतोऽपरमार्थतो द्रव्यशब्दस्याप्रधान्यार्थत्वात् 4, अथवा-द्रव्यतो भावस्नानकारणत्वेन कारणार्थत्वाद् द्रव्यशब्दस्य 5 / तथा भवनं भावःपरिणामः, तस्माद्भावतः शुभध्यानलक्षण करणभूतम् 1, उपयोगभावाऽऽत्मकजीवलक्षणं वा शोधनीयम् 2, अथवा-औदयिकभावकारणभूतकर्ममललक्षणमपनेतव्यं, लक्षणं करणभूतभावमाश्रित्येत्यर्थः 3, भावतः परमार्थतो भवति / चशब्दः समुच्चये। एवकारोऽवधारणे / एवं चाऽनयोः प्रयोगः-द्रव्यतो भावत एव / ततश्च द्रव्यभावभेदेनैव द्विधा द्विप्रकारं, नामाऽऽदिभेदेन तु चतुर्धाऽपि केवलमिह चतुःप्रकारत्वं स्नानस्य नाश्रितम्, नामस्थापनयोः प्ररूपणामात्रोपयोगित्वात् / न हि स्नानस्य नामस्थापने जिननामस्थापने इव प्रमोदहेतुत्वेन पूजागोचरत्वेन च सोपयोग इति। अथवा-एवकारो द्विधेत्यनेन संबद्ध्यते, तथा द्रव्यतो भावतश्चेति! एवं द्विधैव स्नानमुदाहृतं, न तु सप्तधा। यथाऽऽहुरेके"सप्त स्नानानि प्रोक्तानि, स्वयमेव स्वयंभुवा / द्रव्यभावविशुद्ध्यर्थमृषीणां ब्रह्मचारिणाम्।।१।। आग्न्येयं वारुणं ब्राह्म, वायव्यं दिव्यमेव च। पार्थिवं मानसं चैव, स्नान सप्तविधं स्मृतम्।।२।। आग्न्येय भस्मना स्नानमवगाह्य तु वारुणम्। आपोतृष्णामयं ब्राह्म, वायव्य तु गवां रजः।।३।। (मन्त्रस्नान-मित्यर्थः) "सूर्यदृष्ट तुयद्दृष्ट, तद्दिव्यमृषयो विदुः।। पार्थिवं तु मृदा स्नान, मनःशुद्धिस्तु मानसम्॥४॥' इति सप्तविधरनानकथनं ह्यनर्थकम्, यतो यद् बाह्यमलक्षाल-नप्रत्यल तत्सर्व द्रव्यस्नानमेव ।यचाऽऽन्तरमलोन्मूलनायालं, तद्भावस्नानम् / यत्पुनरन्यथाविधं तदस्नानमेव / न च गोरजसा मन्त्रेण वा मलापनयनमुपलभ्यत इति / अतः सुष्टुच्यते द्विधैव / अथवा-द्रव्यतो द्विविधैव, भावतश्च द्विविधैव इत्येवं द्विधाशब्दप्रयोगः। द्वैविध्यं च प्रधानाऽप्रधानभेदात् / तच दर्शयिष्यत इति / द्रव्यतो भावतश्चैयमिति पाठान्तरे तु, एवकार उपप्रदर्शनार्थः / तेन एवमनेन प्रकारेण द्विधा स्नानं शुचीकरणमुदाहृतं तत्त्ववेदिभिरभिहितम् / अत्रार्थे परेषामप्यविप्रतिपत्तिमुपदर्शयन्नाह-बहिर्भव बाह्य शारीरम्, अध्यात्मे मनसि भवमाध्यात्मिक, मानसमित्यर्थः / चशब्दः समुच्चयार्थः। इति रूपप्रदर्शने / एवं चानयोः प्रयोगः- बाह्यमिति, आध्यात्मिकमिति च। तदनतिक्रमेण द्रव्यस्नान भावस्नानं च, अन्यैरिति जैनव्यतिरिक्ततार्थिकविशेषः परिकीर्त्यते संशब्दयते इति / / 1 / / तत्र द्रव्यस्नानप्रतिपादनायाऽऽहजलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् / प्रायोऽन्यानुपरोधेन, द्रव्यस्नानं तदुच्यते // 2 // जलेनाम्भसा न भस्माऽऽदिभिः, तैर्हि द्रव्यस्नानमपि न भवति, मलाऽऽद्यपनयनासमर्थत्वात्तेषाम्, "गन्धले पापहं शौचम्" इति स्नानलक्षणाच, देहदेशस्येति शरीरत्वग्लक्षणावयवस्य। इह च देहग्रहणेन स चेलस्नानेन देवार्चनं कार्यमिति मतमपाकृतम्, जलार्द्रवस्त्राणां स्नानतयाऽप्रतीतेः। देशस्येत्यनेन तु ये मन्यन्ते"एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश। उभयोः सप्त विज्ञेयाः,मृदः शुद्धौ मनीषिभिः / / 1 / / एतच्छौच गृहस्थानां, द्विगुणं ब्रह्मचारिणाम्। त्रिगुणं वानप्रस्थाना, यतीनां च चतुर्गुणम् / / 2 / / '' इति। ते उपहसिता भवन्ति / न हि तैरेवं शौचं प्रति प्रयत्नवद्भिरपि लिङ्ग गुदाऽऽद्यतभागस्य शौच कर्तुं शक्यं, किं तु त्वड् मात्रस्यैव, न च कर्णनासाऽऽदीनामेवं शौचं तैर्विधीयते, न चैतान्यशुचीनि न भवन्तीति, क्षणं मुहूर्त यावन्न प्रभूतकालं, यदिति स्नान, शुद्धिकारणं मलविलयहेतु, प्रायो बाहुल्येन, प्रायोग्रहणात्तधाविधरोगग्रस्तस्य क्षणमपि शुद्धिकारण न भवतीति दर्शितम्। कुतःपुनः क्षणमेव शुद्धिकारणम्? इत्यत आहअन्यस्य प्रक्षालितमलापेक्षयाऽपरस्य मलस्याऽनुपरोधोऽनिरोधोऽप्रतिषेधोऽन्यानुपरोधः, तेनान्यानुपरोधेन हेतुना, न हि स्नानं मलाऽऽश्रयस्वभावत्वाच्छीरस्य मलान्तरमुपरोद्धुं शक्नोतीति तदित्येवं विधं स्नानम्, किमित्यत आह-द्वव्याण्युक्तलक्षणानि नीराऽऽदीन्याश्रित्य स्नानं द्रव्यभूतं वा स्नानं द्रव्यस्नानमुच्य