________________ णिहि 2151 - अभिधानराजेन्द्रः - भाग 4 णिहि अत्रोक्तम्-“विद्यया राजपूज्यः स्यात्, विद्यया कामिनीप्रियः। विद्या हि सर्वलोकस्य, वशीकरणकार्मणम्''॥१॥ इति।। तथा धननिधिः कोशः / धान्यनिधिः कोष्ठाऽगारमिति / अनन्तरं निधिरुक्तः; स च द्रव्यतः पुत्राऽऽदिः। भावतस्तु कुशलानुष्ठानरूपं ब्रह्म। स्था०५ ठा०३उ०। भाण्डागारे, ज्ञा०१ श्रु०३अ०। ____ महापुरुषाणां चक्रवर्तिनां संबन्धि निधिप्रकरणमाह-- एगमेगे णं महानिही नवनवजोयणाई विक्खंभेणं पण्णत्ते / / एगमेगस्स णं रण्णो चाउरंतचकवट्टिस्स नव महानिहीओ पण्णत्ताओ। तं जहानेसप्पे पंडुए पिंगले य सव्वरयणे महापउमे। काले य महाकाले, माणवगमहानिही संखे / / 1 / / "एगमेगे" इत्यादि सुगमम्। नवरंनेसप्पम्मि निवेसा, गामागरनगरपट्टणाणं च / दोणमुहमडबाणं,खंधाराणं गिहाणं च / / 2 / / इह निधानतन्नायकदेवयोरभेदविवक्षया नैसर्पो देवः,तस्मिन्सति, तत इत्यर्थः / निवेशाः स्थापनानि अभिनवग्रामाऽऽदीनामिति / अथवाचक्रवर्तिराज्योपयोगिद्रव्याणि सर्वाण्यपि नवसु निधिष्ववतरन्ति, नवनिधानतया व्यवह्रियन्त इत्यर्थः / तत्र ग्रामाऽऽदीनामभिनवानां पुरातनानां च ये सन्निवेशा निवेशनानि, ते नैसर्पनिधौ वर्तन्तो, नैसर्पनिधितया व्यवह्रियन्त इति भावः / तत्र ग्रामो जनपदप्रायलोकाधिष्ठितः, आकरो यत्र सन्निवेशे लवणाऽऽद्युत्पद्यते, न करो यत्रास्ति तन्नकरम्, पत्तनं देशीस्थानं, द्रोणमुखं जलपथस्थलपथयुक्तम्, मडम्वमविद्यमानप्रत्यासन्नावासं, स्कन्धवारः कटकनिवेशः, गृह भवनमिति / / गणियस्सय वीयाणं, माणुम्माण्णस्स जं पमाणं च / पण्णस्स य वीयाणं, उप्पत्ती पंडुए भणिया।।३।। गणितस्य दीनाराऽऽदिपूगफलाऽऽदिलक्षणस्य, चकारस्य व्यवहितसम्बन्धः; स च दर्शयिष्यते। तथा बीजानां तन्निबन्धन-भूताना, तथा मान सेटिकाऽऽदि, तद्विषयं यत्तदपि मानमेव, धान्याऽऽदिमयमिति भावः / तथोन्मानं तुलाकर्षाऽऽदि, तद्विषयं यत्तदप्युन्मानं, खण्डगुडाऽऽदि धरिममित्यर्थः / ततो द्वन्द्व समाहारः कार्यः। ततस्तस्य च किमित्याहयत्प्रमाणं,चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते। तत्पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः / तथा धान्यस्य ब्रीह्यादेवीं जानां च तद्विशेषाणामुत्पत्तिश्च या सा पाण्डुके पाण्डुकनिधिविषया, तद् व्यापारोऽयमिति भावः। भणितोक्ता जिनाऽऽदिभिरिति / / 3 / / सव्वा आभरणविही, पुरिसाणं जा य होइ महिलाणं / आसाण य हत्थीण य, पिंगलयणिहिम्मि सा भणिया।। कण्ठ्या ||4|| रयणाइँ सव्वरयणे, चउदस पवराई चक्कवट्टिस्स / उप्पाजंति य एगिं-दियाई पंचिंदियाइंच // 5 // अक्षरघटनैवम्-रत्नान्येकेन्द्रियाणि चक्राऽऽदीनि सप्त, पञ्चेन्द्रियाणि, सेनापत्यादीनि सप्त, उत्पद्यन्ते भवन्ति, यानि चक्रवर्तिनस्तानि सर्वाणि सर्वरत्ने सर्वरत्ननामनि निधौ द्रष्टव्यानीति भावः।।५।। वत्थाण य उप्पत्ती, निप्फत्ती चेव सव्वभत्तीणं। रंगाण य धोवाण य, सव्वा एसा महापउमे॥६॥ वस्त्राणा वाससा योत्पत्तिः सामान्यतो, या च विशेषतो निष्पत्तिः सिद्धिः सर्वभक्तीनां सर्ववस्त्रप्रकाराणा, सर्वा वा भक्तयः प्रकारा येषां तानि तथा, तेषाम्। किंभूतानां वस्त्राणामित्याह-रङ्गाणां रङ्गवतां, रक्तानामित्यर्थः / धौताना शुद्धस्यरूपाणां,सवैषा महापद्मे महापद्यनिधिविषया।६।। काले कालण्णाणं,नव्वपुराणं च तीसु वासेसु / सिप्पसयं कम्माणि य, तिन्नि पयाए हियकराई / / 7 / / काले कालनाम्नि निधौ, कालज्ञानं कालस्य शुभाशुभरूपस्य ज्ञानं वर्तते, ततो ज्ञायत इत्यर्थः / किंभूतमित्याह-नवीनवस्तु-विषयं नव्यं, पुरातनवस्तुविषयं पुराणं, चशब्दाद्वर्तमानवस्तुविषयं वर्तमानं, (तीसु वासेसु त्ति) अनागतवर्षत्रयविषयमतीतवर्षत्रय-विषयं चेति / तथाशिल्पशतं कालनिधौ वर्तत, शिल्पशतं च घट 1 लोह 2 चित्र 3 वस्त्र 4 नापित 5 शिल्पाना प्रत्येक विंशतिभेदत्वादिति / तथा कर्माणि च कृषिवाणिज्याऽऽदीनि, कालनिधाविति प्रक्रमः। एतानि च त्रीणि कालज्ञानशिल्पकर्माणि, प्रजाया लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति // 7 // लोहस्स य उप्पत्ती, होइ महाकाले आगराणं च। रुप्पस्स सुवण्णस्स य, मणिमुत्तसिलप्पवालाणं / / 6 / / लोहस्य चोत्पतिर्महाकाले निधौ भवति वर्तते, तथा आकराणां च लोहाऽऽदिसत्कानामुत्पत्तिराकरी करणलक्षणा, एवं रूप्याऽऽ-- दीनामुत्पत्तिः सम्बन्धनीया / केवलं मणयश्चन्द्रकान्ताऽऽदयः, मुक्ता मुक्ताफलानि, शिलाः स्फटिकाऽऽदिकाः, प्रवालानि विद्रुमाणीति // 8 // जोहाण य उप्पत्ती, आवरणाणं च पहरणाणं च। सव्वा य जुद्धणीई, माणवए दंडनीई य |6|| योधानां शूरपुरुषाणां योत्पत्तिरावरणानां संनाहानां प्रहरणानां खड्गाऽऽदीनां, सा युद्धनीतिश्च व्यूहरचनाऽऽदिलक्षणा, माणवके निधौ निधिनायके वा भवति, ततः प्रवर्तत इति भावः / दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च सामाऽऽदिश्चतुर्विधा / अत एवोक्तमावश्यके-"सेसा उदंडनीई, माणवगनिहीउ होइ मरहस्स।"EN णट्टविहिणाडयविही,कव्वस्स चउव्विहस्स उप्पत्ती। संखे महानिहिम्मी, तुडियंगाणं च सव्वेसिं // 10 // नाट्य नृत्यं, तद्विधिस्तत्करणप्रकारो,नाटकं चरितानुसारिनाटकलक्षणोपेतं, तद्विधिश्च इहपदद्वये द्वन्द्वः / तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य 1, अथवा संस्कृतप्राकृतापभ्रंशसंकीर्णभाषानिबद्धस्य 2, अथवा-समविषमार्द्धसमवृत्तबद्धतया गद्यतया चेति३, अथवा-गद्यपद्यगेयचीर्णपदभेदबद्धस्येति 4 / उत्पत्तिः प्रभव शङ्के महानिधौ भवति , तथा तूर्याङ्गाणां च मृदङ्गाऽऽदीनां सर्वेषामिति // 10 //