________________ णिदिवइय 2131 - अभिधानराजेन्द्रः - भाग 4 णिदिवइय डलीए पयरगच्छेदी तिसु विधीए समुद्दिट्ट / एवंविहं पुव्ववन्त्रियाण आवलियाणं कप्पइ समुद्दिसिओ।१। इयाणि वितिय भंगो तहेव-विहीए गहिय, भुत्तं पुण कागसियालादिदोसदुट्ट, एवं अविहीए भुत्ता तरथ जइ उव्वरइ, न उज्झिज्जइ, न कप्पइ, छड्डिमाई दोसा हवंति। एरिसं जो देइ, जो य भुंजइ,दोण्ह वि विवेगो कीरइ, अपुण कारए वा उवट्टियाणं पंचकल्लाणयं दिजइ / 2 / इयाणिं तइयभंगोतत्थ अविहिगहियं वीसुं२ उकोसगादिदव्वाणि भाणियव्वाणि। कत्थ पुङगम्भिव पडिगहे वियारेइ.. एवं मे भोजव्वं ति,आगतो पच्छा मंडलीए, रावणिएण समरसंकाउंमंडलीए विहीए समुद्दिटुं। एवंविहे जं उव्वरियं, तं पारिट्ठावणियागारं आवलियाणं विहिभुत्तं ति काउंकप्पइ।३। चउत्थभंगे आवलियाणन कप्पइ भोत्तुं, ते चेव पुव्व-वन्निया दोसा / एवमेव भावपचक्खाणं भणियं ति गाथाऽर्थः / / 64 // आव०६ अ०1 अथ यदुक्तं "निव्विइए अट्ट नय य आगारा(१०)" इति, तद्विभागदर्शनायाऽऽहणवणीओगाहिमए, अद्दवदहिपिसियघयगुले चेव। णवआगारा तेसिं, सेसदवाणं च अटेव।।११।। नवनीतं च मक्षणम् / अवगाहेन स्नेहबोलनेन निर्वृत्तमपगाहिमम, तदेवावगाहिमकं पक्वान्नं तचेति नवनीताऽवगाहिमकम्, तत्र।तथाऽअद्रवं कठिनं यद्दधिपिशितधृतगुडं प्रतीतस्वरूपं तत्तथा / समाहारद्वन्द्वगर्भ कर्मधारयपदमिदम् / तथाऽद्रवदधिपिशितघृतगुडमेव / चैवशब्दो समुच्चयावधारणाएँ / दर्शित एव चाऽनयोः प्रयोगः / किमित्याह-- नवाऽऽकारा भवन्ति / एतेषूत्क्षिप्तविवेकस्य संभवात् / तथाहि-- भक्तस्योपरि नवनीतं दधिपिशिताऽऽदीनि चाद्रवं मुक्तं,तदुत्क्षिप्यमाणं कठिनत्वेन सर्वथा विवेचयितुं शवय-मतस्तत्संसृष्टमपि भक्तं भुजानस्य "उक्खित्तविवेगेणं" इत्येत-दाकारबलाद्न भङ्गः। एवं तावदाकारनवकसंभव उक्तः। अथ तदष्टकसंभवभाह-तेषां दध्यादीनां विकृतिविशेषाणाम् / पूर्वमद्रवशब्देन विशेषितत्वादिह द्रवाणामिति विशेषणं द्रष्टव्यम् / तथा शेषाः प्रागुक्तनवनीताऽऽदिव्यतिरिक्ता विकृतिविशेषाः, ते च ते द्रवाश्च श्लथा भोजने निक्षिप्ताः सन्तः सर्वथा विवेतुमशक्याः शेषद्रवाः, तेषां शेषद्रवाणां मद्याऽऽदीनाम्। चशब्दः समुच्चये। सम्बन्धिनि प्रत्याख्यान इति गम्यते। किमित्याह--अष्टैव, न तु नव भवन्त्या-काराः। इह च विकृत्यन्तरप्रत्याख्यानमपि निर्विकृतिकमुच्यते / तेन यो मद्यदुग्धतैलाऽऽदीनां प्रत्याख्यानं करोति, तस्योरिक्षप्त-विवेकोचारणं नाऽर्थवत्, दध्यादिप्रत्याख्यातुः पुनरर्थवत्, तद्विवेकस्य संभवादिति भावना / इदं च वस्तुविचारमात्रमेव यतो दुग्धाऽऽदिकमपि प्रत्याचक्षाणेनोत्क्षिप्तविवेक उचारणीय एव, भग-वतीयोगवाहिना गृहस्थसंसृष्टाऽऽदिवदिति। अन्ये त्याहुः-वचन-प्रामाण्यान्नोच्चारणीय एवेति / एते चैवम्"निध्विगइयं पञ्चक्खाइ अण्णत्थऽणाभागेणं सहसागारेण लेवालेवेणं गिहत्थसंसट्ठणं उक्खित्तविवेगेणं पडुच मक्खिएणं पारिट्टावणियागारेणं महत्तरागा-रेणं सव्वसमाहिवत्तियागारेणं वोसिरइ / "व्यक्तम् / नवर गृहस्थसंसृष्टस्य निर्विकृतिक प्रति विशेषव्याख्यानमिदम्, गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनो, दुग्धं यदि तमतिक्रम्योत्कर्षतश्वत्वार्यगुलानि यावत् उपरि वर्तते, तदा तद् दुग्धमविकृतिः, पश्चमामुलाऽऽरम्भे तु विकृतिरेव / अनेन न्यायेनान्या अपि। / तत्रोक्तम्"खीरदहीवियडाणं, चत्तारि उ अंगुलाई संसहूं। कामियतेल्लघ्याणं, अंगुलभेगंतु संसट्ठ॥६०॥ महुपोग्गलरसयाणं, अद्धंगुलयं तु होइ संसहूं। गुलपोग्गलणवणीय, अद्यामलयं तु संसट्ट।।६१।।"(आव०नि०) फाणियं काकवः। पुद्गलरसको मांसरसः। पुद्गलं मासम्। आर्द्रामलकंतु पीलुमयूर इति सम्प्रदाय इति। (पडुच्च मविखएणं ति) प्रतीत्य सर्वथा रूक्ष मण्डकाऽऽदिकमपेक्ष्य मेक्षितं स्नहितम, ईषत्सौकुमार्योत्पादनात्, म्रक्षणकृतविशिष्टस्वादुताया अभावाच मक्षितमिव यद्वर्तते तत्प्रतीत्यम्रक्षितं, म्रक्षिताभास इत्यर्थः। तस्मात्प्रतीत्य मक्षितादन्यत्र निर्विकृतिकम्। इह च पञ्चम्यर्थे तृतीयेति। इह चाय विधिः- यद्यड्गुल्या तैलाऽऽदि गृहीत्वा मण्डकाऽऽदि म्रक्षित, तदा कल्पते निर्विकृतिकस्य, धारया तुन कल्पते / व्युत्सृजति विकृति त्यजतीत्यर्थः। इह सूत्रे-"निव्विइए अट्ठ नव य आगारा"(१०) इत्येव निर्विकृतिकस्यैव प्रत्याख्यानतयाऽभिधानेऽपि विकृतिपरिमाणप्रत्याख्यानमपिन दुष्टम,अप्रमादवृद्धिहेतुत्वात्। अत एव सूत्रे "चउव्विहं पि आहारं'' इत्येवं पाठेऽपि द्विविधाऽऽहारस्य त्रिविधाऽऽहारस्य च पौरुष्यादिप्रत्याख्यानमदुष्टमेवमेकाशनकस्य पौरुष्याः पुरिमार्द्धस्यैव च सूत्रेऽभिधानेऽपि व्याशनकस्य सार्द्धपौरुष्या अपार्द्धस्य च प्रत्याख्यानमदुष्टमिति केचित्, अप्रमादवृद्धाशनकाऽऽदिष्वपि संभवात्। आकारा अपि य एवैकाशनकाऽऽदिषुतएवेतरेष्वपिन्याय्याः, अशनाऽऽदिशब्दसाम्यात्, विकृतिपरिमाणद्विविधाऽऽद्याहारपौरुष्यादिप्रत्याख्यानेष्विवेति। न च वाच्यमभिग्रहप्रत्याख्यानानि द्व्याशनकाऽऽदीनि, ततस्तेषु चत्वार एवाऽऽकारा भविष्यन्ति एकाशनाऽऽदिभिस्तुल्ययोगक्षेमत्वादितरेषामिति / अन्ये तु मन्यन्ते-एवं हि प्रत्याख्यानमर्यादा न काचित्स्यात्। तत एकाशनकाऽऽदीन्येव प्रत्याख्यानानि। एकाशनकाशक्तस्तु सार्द्धपौरुषी वा यावद् बुभुक्षुर्ग्रन्थिसहितमेव तदुपरि प्रत्याख्यातीति गाथाऽर्थः // 11 // अथाऽऽकाराः किमर्थमिहाभिधीयन्ते? इत्यत्राऽऽहवयभंगो गुरुदोसो, थोवस्स वि पालणा गुणकरी उ। गुरुलाघवं च णेयं,धम्मम्मि अओ उ आगारा ||12|| व्रतभङ्गो नियमभङ्गः। किमित्याह- गुरुर्महान् दोषो दूषणमशुभकर्मबन्धाऽऽदिरूपो यस्मिन्नसौ गुरुदोषः, भगवदाज्ञाविराधनात् / तथा स्तोकस्याप्यल्पस्याप्याकाराऽऽश्रयणतो व्रतस्यास्तां महतः। पालनाऽऽराधना / गुणकरी तु कर्मनिर्जरालक्षणोपकारकारिण्येव, विशुद्धकुशलपरिणामरूपत्वात् / तथा गुरु च सारं, लघु चासारं, तयोर्भावो गुरुलाघवम् / तत्र ज्ञेयं ज्ञातव्यं भवति / क्वेत्याह-धर्मे चारित्रधर्मे / तथाहि-उपवासे कृतेऽपि संजातासमाधेरौषधाऽऽदिदानतः समाधिसंपादने निर्जरागुणो गुरुर्भवति, इतरथा पुनरल्प इति विमर्शनीयम् / एकान्ताग्रहस्य प्रभूताषकारकारित्वेनाऽशोभनत्वात्, यत एवमतोऽस्मात्कारणात् / तुशब्दः पूरणार्थः / आकारा अपवादाः प्रत्याख्याने क्रियन्ते इति / इदमुक्तं भवति-कृतप्रत्याख्यानस्यापि गुरुलाघव चिन्तया समाध्याद्यर्थमाहारस्यावश्यं ग्रहणमुचितमतः कृताऽऽकारत्वेनाल्पमपि व्रतं सम्यक् पालितां भवति, अकृता