SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ णिव्वाण 2127- अभिधानराजेन्द्रः - भाग 4 णिव्वाण ज्ञानसुखापगमः, तदसत्त्वे च तयोः सदाऽवस्थितत्वात् कथमनित्यत्वम्? न च चेतनधर्माः सर्वेऽप्यनित्या भवन्ति, जीवगतद्रव्य-- त्वामूर्तत्वाऽऽदिभिर्व्यभिचारात् / 'ततश्च चेतनधर्मत्वात्' इत्यनैकान्तिको हेतुः, तथा कृतकत्वाऽऽदिरप्यनैकान्तिकः, घटप्रध्वंसाभावेन व्यभिचारात् / असिद्धश्चायम, सिद्धस्य ज्ञानसुचयोः स्वाभाविकत्वेन कृतकत्वाऽऽद्ययोगात् / आवरणाऽऽबाधकारणाभावेन च तत्तिरोभावमात्रमेव निवर्तते, न पुनस्ते क्रियेते, घटाऽऽदिवत्, नाप्यभूते प्रादुर्भवतः, विद्युदादिवत्, येन तयोरनित्यत्वं स्यात्। न हि धनपटलापगमे चन्द्रज्योत्स्नायाः सूर्यप्रभाया वा तिरोभावमात्रनिवृत्तौ कृतकत्वम्, अभूतप्रादुर्भावो वा वक्तुं युज्यत इति। अथ तेनाऽऽविर्भूतेन विशिष्टेन रूपेण कृतकत्वादनित्ये सिद्धस्य ज्ञानसुखे, प्रतिक्षणं च पर्यायरूपतया ज्ञेयविनाशे ज्ञानस्य विनाशात्. सुखस्यापि प्रतिसमयं परापररूपेण परिणामादेतयोरनित्यत्वमुच्यते, तर्हि सिद्धसाध्यतेति दर्शयति-"उप्पायटिइ'' इत्यादि। इत्थमात्माऽऽकाशघटाऽऽदिरूपस्य सर्वस्यापि वस्तुस्तोमस्य स्थित्युत्पादप्रलयस्वाभाव्याभ्युपगमात्सिद्धसुखज्ञानयोरपि कथश्चिदनित्यत्वाद् नायं तदनित्यत्वाऽऽपत्तिलक्षणोऽस्माकं दोष इति / / 2014|| तदेव जीवस्य सदवस्थालक्षणं निर्वाणं, निवृत्तस्य च निरुपमसुखसद्भावं युक्तितः प्रसाध्य वेदोक्तद्वारेणापि ___ तत्साधनार्थमाहन ह वै ससरीरस्स, प्पियऽप्पियावहतिरवेमादि व जं। तदमोक्खे नासम्मि व, सोक्खाभावम्मि व न जुत्तं / / 2015|| "न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति।" "अशरीरं वा वसन्त प्रियाप्रिये न स्पृशतः" इति च यद्वेदोक्तं, तदप्यमोक्षे मोक्षाभावेजीवकर्मणोवियोगेऽनभ्युपगम्यमाने इत्यर्थः / तथा-'मतिरपि न प्रज्ञायते' इति वचनाद् मुक्तावस्थायां सर्वथा नाशे वा जीवस्याऽभ्युपगम्यमाने, सत्त्वे वा मुक्ताऽऽत्मनः सुखाभाव इष्यमाणे न युक्तं प्राप्नोति-- अभ्युपगमविरोधस्तवेत्यर्थः / अनेन हि वाक्येन किल यथोक्तो मोक्षः, मुक्तौ च निष्कर्मणो जीवस्य सत्त्वं, निरुपमसुखं च तस्य, एतानि त्रीण्यपि अभ्युपगम्यन्ते। एतच्च पुरस्ताद्व्यक्तीकरिष्यते। ततोऽस्य त्रितयस्य निषेध कुर्वतस्तवाभ्युपगमविरोध इति भावः / / 2015 // अत्राऽऽधन्तपक्षौ परिहत्य मध्यगतं जीवनाशपक्षसंभविन मभ्युपगमविरोधं परिहर्तुं तावत्परः प्राऽऽहनट्ठो असरीरो चिय, सुहदुक्खाइं पियऽप्पिआइंच। ताइँ न फुसंति नर्से, फुडमसरीरं ति को दोसो? / / 2016 // "न ह वै" इत्यादिवेदवाक्यस्य किल परोऽमुमर्थं मन्यतेशरीरं सर्वनाशेन नष्टः खरविषायकल्प एवोच्यते, तमेवंभूतमशरीरं नष्ट प्रियाप्रिये सुखदुःखेयन्न स्पृशतः.तत्स्फुटमेव बुध्यतएवेदम्, नष्टस्यसुखदुःखस्म संयोगात्, अशरीरशब्देन च जीवनाशाभिधानात् / एवंभूते चास्य वाक्यस्यार्थे मुमुक्षोर्जीवस्य निर्वाणप्रदीपस्येव सर्वनाशमभ्युपगच्छता कोऽस्माकमभ्युपगमविरोधलक्षणो दोषः? न कश्चिदषीति पराभिप्राय इति // 2016|| अत्र प्रभासस्य भगवान् बोधान्यथात्वमवगम्य, एतेषां वेद पदानां यथाऽवस्थितमर्थ व्याचिख्यासुराह... वेयपयाण य अत्थं, न सुटु जाणसि इमाण तं सुणसु / असरीरव्ववएसो, अधणो व्व सओ निसेहाओ॥२०१७॥ न निसेहओ य अन्नम्मि तविहे चेव पच्चओ जेण। तेणासरीरगहणे, जुत्तो जीवो न खरसिंगं / / 2018|| आयुष्मन् ! प्रभास! न केवलंयुक्ति, वेदपदानाममीषामर्थं च त्वं सुष्टुन जानासि, ततस्तंशृणु-"न हवै" इत्यादि-पूर्वार्द्ध सुगमत्वादत्र गाथाद्वये न व्याख्यातं, तदपि सुखप्रतिपत्त्वर्थ व्याख्यायते- 'न' इति निपातो निषेधार्थः / 'हवै' इत्येतदपि निपातद्वयं हिशब्दार्थत्वाद्यस्मादर्थे / सह शरीरेण वर्शत इति सशरीरो जीवस्तसय सशरीरस्येत्यत्र एवकारो द्रष्टव्यः। ततश्चायमर्थः यस्मात् सशरीरस्यजीवस्य प्रियाप्रिययोः सुखदुःखयोरपहतिर्विघातोऽन्तरं नास्ति, न त्वशरीरस्य; तस्मादशरीर शरीररहितं मुक्त्य-वस्थायां वसन्तं लोकान्तस्थितं जीवं प्रियाप्रिये सुखदुःखे न स्पृशतः। इदमुक्तं भवति-यावदयं जीवः सशरीरः, तावत् सुखेन दुःखेन वा अन्यतरेण कदाचिदपि न मुच्यते। अशरीरस्त्वसौ क्षीणवेदनीयत्वात् सुखदुःखाभ्या कदाचिदपि नस्पृश्यत इति / एवंभूते चास्य वावयस्यार्थे सति योऽयमशरीरव्यपदेशः, असौ सत एव विद्यमानस्यैव जीवस्य मुतयवस्थायां विधीयते, नतु सर्वथा नष्टस्य। कुतः? इत्याह-निषेधात, इह यो यस्य निषेधः स तस्य सत एव विधीयते, न त्वसतः, यथाऽधन इति, अत्र सत एव देवदत्तस्य धननिषेधो विधीयते, न त्वसतः खरविषाणस्य। आह-न विद्यते शरीरं यस्येत्येवं निषेधादन्यपदार्थे जीव एव कथं प्रतीयते? इत्याह-"न निसेहओ य" इत्यादि व्याख्यानतो विशेषप्रतिपत्तेः पर्युदासवृत्तिना नजा निषेधो न -निषेधस्तस्मान्नजूनिषेधात्कारणात् सशरीरादन्यस्मिस्तद्विध एव शरीरसदृशे करिमश्चिदन्यपदार्थे संप्रत्ययो विज्ञेयः, यथा "न ब्राह्मणोऽब्राह्मणः'' इत्युक्ते ब्राहाणसदृशः क्षत्रियाऽऽदिरेव गम्यते, न तु तुच्छरूपो भावः। उक्तं च"नजिवयुक्तमन्यसदृशाधिकरणे लोके तथाह्यर्थगतिः" इति / इह च शरीरसदृशोऽशरीरो जीव एव गम्यते, द्वयोरप्युपयोगरूपत्वेन सदृशत्वात्। न चेह शरीरं सादृश्यबाधकं, तस्य जीवेन सह क्षीरनीरन्यायतो लोलीभूतत्वेनैकत्वादिति। तदेवं येन यस्मात् कारणात् ननिषेधादन्यस्मिस्तद्विध एवान्यपदार्थे सम्प्रत्ययो भवति, तेन तस्मात्कारणात, 'अशरीरं वा वसन्तम्' इत्यत्राशरीरग्रहणे जीव एवाशरीरो युज्यते, नतु खरविषाणं तुच्छरूपोऽभाव इत्यर्थः / तदेवमशरीरमिति व्याख्यातम् // 2017||2018 // इदानी "वा वसन्तम्" इत्येतद्व्याचिख्यासुराहजं व वसंतं संतं, तमाह वासद्दओ सदेहं पि। न फुसेज वीयरागं, जोगिणमिटेयरविसेसा // 2016 / / यस्माचाशरीरं, कथं भूतम् ? वसन्तं लोकाग्रे निवसन्तं, तिष्ठन्तमिति यावत्। अनेन वसनविशेषणेन तमशरीरशब्दवाच्यमर्थ सन्तं विद्यमानमाह, न त्वसद्भूतं, वसनस्य सद्धर्मत्वात् / तस्मात्कथं जीवनाशरूपं निर्वाण निर्वाणं स्यात् ? न केवलमशरीरं मुक्तं,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy