________________ णिव्वाण 2126 - अभिधानराजेन्द्रः - भाग 4 णिव्वाण तत्र सुखव्यपदेशः प्रवर्तते, स उपचारात्। न चोपचारस्तथ्यं पारमार्थिकं | विना क्वापि प्रवर्त्तते, माणवकाऽऽदौ सिंहाऽऽद्युप चारवदिति।।२००६।। ततः किमित्याहतम्हा जं मुत्तसुहं, तं तचं दुक्खसंखएऽक्स्सं / मुणिणोऽणाबाहस्सव, णिप्पडियारप्पसुईओ // 2007 / / तस्माद्यन्मुक्तस्य संबन्धि तदेव सुखं तथ्य निरुपचरितम् / कुतः? स्वाभाविकत्वेन निष्प्रतीकाररूपस्य तस्य प्रसूतेरुत्पत्तेः / कथम् ? अवश्यम् / व सति? दुःखसंक्षये। सांसारिकं हि सर्व पुण्यफलमपि दुःखरूपतया समर्थित, ततः पापफलम्, इतरच सर्व दुःखमेवेहास्ति, नान्यत्, तच मुक्तस्य क्षीणम्, अतस्तत् संक्षये अवश्यतया यत् तस्य निष्प्रतीकारं स्वाभाविक निरुपम सुखमुत्पद्यते, तदेव तथ्यम्। कस्येव? विशिष्टज्ञानवतोऽनाबाधस्य मुनेरिव / उक्तंच"निर्जितमदमदनाना, वाकायमनोविकाररहितानाम् / विनिवृत्तपराशानामिहेव मोक्षः सुविहितानाम्" ।।इति 2007 / अथवा प्रकारान्तरेणापि मुक्तस्य तथ्यसुखसंभवमाहजह वा नाणमओऽयं, जीवो नाणोवघाइ चावरणं / करणमणुग्गहकारिं, सव्वाऽऽवरणक्खए सुद्धी।।२००८।। तह सोक्खमओ जीयो, पावं तस्सोवघाइयं नेयं / पुण्णमणुग्गहकारिं, सोक्खं सव्यक्खए सयलं / / 2006 / / यथा वाऽनन्तज्ञानमयोऽसौ स्वरूपेण जीवः। तदीयज्ञानस्य च मत्यावरणाऽऽदिकमावरणमुपघातक मन्तव्यम्। करणानित्यिन्द्रियाणि तज्ज्ञानस्थ, सूर्याऽऽतपस्य तदावारकमेघपटलच्छिद्राणीवोपक? काणि / सर्वाऽऽवरणक्षये तु ज्ञानशुद्धिनिर्भलता सर्वथाऽवभासकत्वलक्षणा भवति / प्रकृतयोजनामाह-तथा तेनैव प्रकारेण स्वरूपतः स्वाभाविकानन्तसोख्यमयो जीवः, तस्य च सुखस्यैवोपधातकारकं पापकर्म विज्ञेयम्। पुण्य त्यनुत्तरसुरपर्यन्तसुखफलं तस्य स्वाभाविकसुखस्यानुग्रहकारकम्। ततः सर्वाऽऽवसापगमे प्रकृष्टज्ञानमिव समस्तपुण्यपापक्षये सकलं परिपूर्ण निरुपचरितं निरुपर्म स्वाभाविकमनन्तं सुखं भवति सिद्धस्येति // 2008||2006 / / अन्येन वा प्रकारेण मुक्तस्य तस्य सुखसम्भवमाहजह वा कम्मक्खयओ, सो सिद्धत्ताइपरिणइं लभइ। तह संसाराईयं, पावइ तत्तो चिय सुहं ति // 2010 / / यथावासकलकर्मक्षयादसौ मुक्ताऽत्मा सिद्धत्वाऽऽदिपरिणतिं लभते, तत एव सकलकर्नक्षयात् संसारातीत वैषयिकसुखाद्विलक्षणस्वरूप निरुपमं तथ्य सुखं प्राप्नोति / एतेन यदुक्तम्- "क्षीणपुण्यपापत्वेन कारणाभावान्निःसुखदुःखे मुक्ताऽऽत्मा, व्योभवत्' इत्येतदपि प्रत्युक्तं द्रष्टव्यग, 'कारणाभावात्' इत्यस्य हेतोरसिद्धत्वात्, सकलकर्मक्षयलक्षणकारणजन्यत्वेन सिद्धसुखस्य सकारणत्वादिति // 2010 / / यदुक्तम्-"आधारो देहो चिय,जं सुहदुक्खोवलद्धीणं' (2003) इति तत्राऽऽहसायाऽसायं दुक्खं, तव्विरहम्मि य सुहं जओ तेणं / देहिदिएसु दुक्खं,सोक्खं देहिंदियाभावे // 2011|| ननु यत्पुण्यफलं सातं सुखतया लोकव्यवहारतो रूद, तत्सर्व दुःखमेवेत्यनन्तरमेव समर्थितम् / असातं तु पापफलत्वान्निर्विवादं दुःखमेव / एवं च सति सर्व दुःखमेवास्ति संसारे, न सुखम्। तच्च दुःख सिद्धस्य सर्वथा क्षीणम् / अतस्तद्विरहे यद्यस्मात्सिद्धस्य स्वाभाविक, निरुपमम्, अनन्तं च युक्तिसिद्धमेव सुखं, तेन तस्मात्कारणात् पारिशेष्यन्यायात् संसारिणामेव जीवानां देहेन्द्रियेष्वाधारभूतेषु यथोक्तस्वरूपं दुःखम, सुखं तु देहेन्द्रियाभाव एव, सिद्धस्य क्षीणनिःशेषसुखदुःखत्वेन तस्य तत्र युक्तिसिद्धत्वादिति // 2011 / / अथवा देहेन्द्रियाभावे सुखाभावलक्षणो दोषस्तस्य भवतु यः, किमित्याह जो वा देहिं दियज, सुहमिच्छइ तं पडुच दोसोऽयं / संसाराईयमिदं, धम्मंतरमेव सिद्धिसुहं / / 2012 // यो वा कश्चित् संसाराभिनन्दी मोहमूढः परमार्थादी विषयामिषमात्रगृद्धो देहेन्द्रियजमेव सुखं मन्यते, न तु सिद्धसुखं, तस्य तेन स्वप्नेऽप्यदर्शनात्, तस्य वादिनः संसारविपक्षे मोक्षे प्रमाणतः साधिते सति ''निःसुखः, सिद्धः, देहेन्द्रियाभावात्" इत्ययं दोषो भवेत्, न त्वस्माकं संसारातीतं पुण्यपापफल सुखदुःखाभ्यां सर्वथा विलक्षणं धर्मान्तरभूतमेवानुपममक्षयं निरुपचरितं सिद्धिसुखमिच्छतामिति / / 2012 / / अत्र प्रेर्यमाश क्य परिहरन्नाहकह नणु मेथं ति मई, नाणाणाबाहउ त्ति नणु भणियं / तदणिचं णाणं पिय, चेयणधम्मो त्ति रागो ध्व // 2013 / / अत्रैवंभूता मतिः परस्य भवेत् नन्विच्छन्ति भवन्तः सिद्धस्य यथोक्त सुखं, किन्तु नेच्छामात्रतो वस्तुसिद्धिः, अपि तु प्रमाणतः, ततो येन प्रमाणेन तत्सिद्ध्यति तद्वक्तव्यम् / अनु मानेन तदनुमीयत इति चेत्, तर्हि के नानुमानेन तदनुमेयम्- अनुमीयत इत्यर्थः? इत्याह"नाणाणाबाहउ त्ति नणु भणियं ति।" ननु भणितमत्रार्थे प्रागनुमान सिद्धस्य प्रकृष्टं सुखं, ज्ञानत्वे सत्यनाबाधत्वाद्, मुनिवदिति / पुनरपि परः प्राऽऽह-यद्येवं त नित्यं सुखं ज्ञानं च सिद्धस्य, चेतनधर्मत्वात्, रागवदिति // 2013 // अथवा हेत्वन्तरमाहकयगाइभावओवा, नाऽऽवरणाऽऽबाहकारणाभावा / उप्पायट्ठिइभंगस्सहावओ वा न दोसोऽयं / / 2014 // अथवाऽनित्ये सिद्धस्य सुखज्ञाने, तपःप्रभृतिकष्टानुष्ठनिन क्रियमाणत्वात्, आदिशब्दादभूतप्रादुर्भावात्, घटवदिति अत्रो-त्तरमाह"नावरणेत्यादि।" न सिद्धस्यानित्ये ज्ञानसुखे / कुतः? आवरण चाऽऽबाधश्वाऽऽवरणाऽऽबाधौ, तयोः कारणं हेतुस्तस्याभावात्, आकाशवदिति / इदमुक्तम्भवति-सिद्धस्य ज्ञानं सुखं च यद्यपगच्छेत् तदा स्यादनित्यम्, अपगमश्च ज्ञानस्याऽऽवरणोदयात्, सुखस्य त्वाबाधहेतुभूतादसातवेदनीयोदयाऽऽदिकारणाद्भवेत्, आवरणवेदनीयाऽऽदीनि च मिथ्यात्वाऽऽदिभिर्बन्धहेतुभिर्बध्यन्ते, ते च सिद्धस्य न विद्यन्ते, अतस्तदभावाद नाऽऽवरणाऽऽबाधाकारणसद्भावः, तदभावाचन सिद्धस्य