SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ णिव्वाण 2125 - अभिधानराजेन्द्रः - भाग 4 णिव्वाण स जन्तुः परदेहेऽपि ज्ञानस्वरूपे एवेति ग्राह्यः / कुतः? तथाविध-- प्रवृत्तिनिवृत्तिलिङ्गादीति // 1668) अपि च मुक्तावज्ञानित्वाऽऽपादने महान् विपर्यासः, कुतः? इत्याहसव्वाऽऽवरणावमे, सो सुद्धयरो भवेज सूरो व्व। तम्मयभावाभावादण्णाणित्तं न जुत्तं से ||1966il सेन्द्रियो जन्तुर्देशतोऽप्यावरणक्षये तावत्तारतम्येन ज्ञानयुक्तएव भवति, यस्य त्वनीन्द्रियस्य सर्वमप्यावरणं क्षीणं, स निःशेषाऽऽवरणापगमे शुद्धतर एव भवति-संपूर्णज्ञानप्रकाशयुक्त एव भवतीत्यर्थः, यथा समस्ताभ्राऽऽवरणापगमे सम्पूर्णप्रकाशमयः सूर्यः, ततस्तन्मयभावस्य प्रकाशमयत्वस्य करणाभावेनाभावाद्धेतोः 'से' तस्य मुक्तस्य यदज्ञानित्व प्रेर्यते भवता, तन्न युक्तम्, आवारकाभावे, तस्यैव प्रकर्षवतो ज्ञानप्रकाशस्य सद्भावादिति / 1966 // तदेवं सति किमिह स्थितम् ? इत्याहएवं पगासमइओ,जीवो छिद्दावभासयत्ताओ। किंचिम्मेत्तं भासइ, छिद्दाऽऽवरणप्पईवो व्व / / 2000 / / सुबहुयतरं वियाणइ. मुत्तो सव्वप्पिहाणविगमाओ। अवणीयघरो व्व नरो, विगयाऽऽवरणप्पईवो व्व // 2001 / / तदेवं सति सर्वदा प्रकाशमयः प्रकाशस्वभाव एव जीवः, केवलं संसार्यवस्थायां छद्मस्थः किश्चिन्मात्रमवभासयति, क्षीणाक्षीणाऽऽवरणच्छिद्रैरिन्द्रियच्छिदैश्वावभासनात्, सच्छिद्रकुटकु ड्याऽsधन्तरितप्रदीपवदिति / मुक्तस्तु मुक्तावस्थायां प्रासरे जीवः सुबहुतरं विजानातियदस्ति तत्सर्वं प्रकाशयतीत्यर्थः, सर्वपिधानविगमात्सर्वाऽऽवरणक्षयादित्यर्थः / अपनीतसमस्तगृहः पुरुष इव, विगतसमस्तकुटकुड्याऽऽद्यावरणप्रदीप इव वेति / यो हि सच्छिद्राऽऽवरणान्तरिता स्तोकं प्रकाशयति, स निःशेषाऽऽवरणापगमे सुबहेव प्रकाशयति, न तु तस्य सर्वथा प्रकाशाभाव इति भावः / तस्मात् "मुत्तस्स परं सोक्खं, नाणाणावाहओ" (1962) इत्यादि स्थितम्॥२०००॥२००१।।। अथाद्यापि मुक्तस्य सुखाभावं पश्यन् परः प्राऽऽहपुण्णापुण्णकयाई, जं सुहदुक्खाइँ तेण तन्नासे / तन्नासाओ मुत्तो, निस्सुहदुक्खो जहाऽऽगासं // 2002 / / अहवा निस्सुहदुक्खो, नभं व देहिंदियादभावाओ। आधारो देहो चिय, जं सुहदुक्खोवलद्धीणं / / 2003 / / पुण्यात्सुखमुपजायते, पापाच दुःखमिति भवतामपि सम्मतं, तेन तस्मात् तयोः पुण्यपापयोः कारणभूतयो शे सुखदुःखयोः कार्य-- रूपयो शानिः सुखदुःख एव मुक्ताऽऽत्मा प्राप्नोति, तत् कारणाभावात्, आकाशवदिति अथवा निःसुखदुःखोऽसौ, देहेन्द्रियाभावात्, नभोवत् यद् यस्मादेह एव, तथेन्द्रियाणि च सुखदुःखोपलब्धीनामाधारो दृश्यते, न पुनर्दहाभावे सुखदुःखे दृश्यते, नापीन्द्रियाभावे ज्ञानं काप्युपलभ्यते / ततः सिद्धस्य कथं तदभावात्तानि श्रद्धायिन्ते? इति // 2002 // 2003 // अत्रोत्तरमाहपुण्णफलं दुक्खं चिय, कम्मोदयओ फलं व पावस्स। नणु पावफले वि समं, पचक्खविरोहिया चेव / / 2004|| चक्रवर्तिपदलाभाऽऽदिकं पुण्यफलं निश्चयतो दुःखमेव, कर्मोदयजन्यत्वात्, नरकत्वाऽऽदिपापफलवत् / परः प्राऽऽहननु पापफलेऽपि समानमिदम् / तथाहि-अत्रापि वक्तुं शक्यत एतत्-उक्तं पापफलं दुःखत्वेनाभिमतं परमार्थतः सुखमेव, कर्मोदयजन्यत्वात्, पुण्यफलवत्, एवं च वदतां प्रत्यक्षविरोधिता, स्वसंवेद्यसुखदुःखयोर्वेपरीत्वेन सवित्यभावादिति // 2004 // भगवानाहजत्तो चिय पचक्खं, सोम्म ! सुहं नत्थि दुक्खमेवेदं। तप्पडियारविभत्तं, तो पुण्णफलं ति दुक्खं ति // 2005 / / सौम्य ! प्रभास ! यत एव-दुःखे अनुभूयमाने कस्याप्यविपर्यस्तमतेः सुखं प्रत्यक्ष नास्ति, सुखानुभवः स्वसंविदितो न विद्यते, अत एवारमाभिरुच्यते-दुःखमेवेदम् इति, यत् किमप्यत्र संसारचक्रे सक् चन्दनाङ्गनासंभोगाऽऽदिसमुत्थमपि विद्यते, तत्सर्व दुःखमेवेत्यर्थः। केवलं तस्याङ्गनासभोगाऽऽदिविषयौत्सुक्यजनितारतिरूपस्य दुःखस्य प्रतीकारोऽङ्गनासंभोगाऽऽदिकस्तत् प्रतीकारस्तेन तत्प्रतीकारेण दुःखमपि सद्विभक्तं मूढर्भेदेन व्यवस्थापितं तत्प्रतीकाररूपं कामिनीसंभोगाऽऽदिकंपामाकण्डूयनाऽऽदिवत्सुखमध्यवसितम्, शूलाऽऽरोपणशूलशिरोबाधाऽऽदिव्याधिबन्धवधाऽऽदिजनितं तु दुःखमिति / रमणीसंभोगचक्रवर्तिपदलाभाऽऽदि सुखं स्वसंविदितं दुःखमिति वदत्ता प्रत्यक्षविरोध इति चेत् / तदयुक्तम् / मोहमूढप्रत्यक्षत्वात्तस्य, तल्लाभौत्सुक्यजनितारतिरूपदुःखप्रतीकाररूपत्वाद् दुःखेऽपि तत्र सुखाध्यवसायः, पामाकण्डू-यनाऽपथ्याऽऽहारपरिभोगाऽऽदिवत्। तथा चोक्तम्"नग्नः प्रेत इवाऽऽविष्टः, क्वणन्तीमुपगृह्य ताम्। गाढाऽऽयासितसर्वाङ्गः, स सुखी रमते किल / / 1 / / औत्सुक्यमात्रमवसादयति प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनवृत्तिरेव / नातिश्रमापनयनाय यथा श्रमाय, राज्यं स्वहस्तधृतदण्डमिवाऽऽतपत्रम् / / 2 / / भुक्ताः श्रियः सकलकामदुधास्ततः किं? संप्रीणिताः प्रणयिनः स्वधनैस्ततः किम् ? दत्तं पदं शिरसि विद्विषतां ततः किं? कल्पं स्थितं तनुभूतां तनुभिस्ततः किम्? / / 3 / / इत्थं न किञ्चिदपि साधनसाध्यजातं, स्वप्नेन्द्रजालसदृशं परमार्थशून्यम्। अत्यन्तनिवृतिकरं यदपेतबाधं, तद्ब्रह्म वाञ्छत जना यदिचेतनाऽस्ति // 4|| इत्यादिना। "पुण्णफलं ति दुक्खं ति।" यत एवमुक्तप्रकारेण दुःखेऽपि सुखाभिमातः, तस्मात्पुण्यफलमपि सर्वं तत्त्वतो दुःखमेवेति।।२००५।। एतदेव प्रपञ्चयतिविसयसुहं दुक्खं चिय, दुक्खपडीयारओ तिगिच्छ व्व। तं सुहमुवयाराओ, नो उवयारो विणा तचं // 2006|| विषयसुखं तत्त्वतो दुःखमेव,दुःखप्रतीकाररूपत्वात्, कुष्ठगण्डाझे रोगक्वाथपानच्छेदनदम्भनाऽऽदिचिकित्सावत् / यश्च लोके
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy