________________ णिव्वाण 2123 - अभिधानराजेन्द्रः - भाग 4 णिव्वाण नित्यो मुक्ताऽऽत्मा,द्रव्यत्वे सत्यमूर्तत्वात् : (दव्वतय त्ति) यथा द्रव्यत्वे सत्यमूर्तत्वान्नित्यं नमः / आह-नन्वनेन दृष्टान्तेन व्यापकत्वाऽऽद्यपि सिध्यति जीवस्य / तथाहि-विभुयापकः सर्वगतो जीवः, द्रव्यत्वे सत्यमूर्तत्वात्, यथा नभः / तदेतन्न / कुतः? सर्वगतत्वबाधकानुमानसद्भावात् / तथाहि-त्वपर्यन्तदेहमात्रव्यापको जीवः तत्रैव तद्गुणोपलब्धेः, स्पर्शनवत्, इत्यनुमानाबाध्यते सर्वगतत्वं जीवस्य। एवं "न बध्यते, नापि मुच्यते जीवः,द्रव्यत्वे सत्यमूर्तत्वात, नभोवद्" इत्याद्यपि दूषणं, "बध्यते पुण्यपापकर्मणा जीवः, दानहिंसाऽऽदिक्रियाणां सफलत्वात्, कृष्यादि-क्रियावत्, तथा विघटते सम्यगुपायात्कोऽपि जीवकर्मसंयोगः, संयोगत्वात, काञ्चनधातुपाषाणसंयोगवद्'' इत्याद्यनुमानात्परिहर्तव्यमिति // 1985 / / अथवा-किमेकान्तेनबद्धाऽऽग्रहर्मोक्षस्य नित्यत्वं साध्यते, सर्वस्याऽपि वस्तुतः परमार्थतो नित्यानित्यरूपत्वात्? उत्कटानुत्कटपर्यायविशेषविवक्षामात्रेणैव हि केवलम्' इत्यादिव्यपदेश इति दर्शयन्नाहको वा निचग्गाहो, सव्वं चिय विभवभंगठिइमइयं / पजायंतरमेत्तप्पणादनिच्चाइववएसो।।१९८६॥ अथ कथञ्चिदनित्यत्वेऽपि मोक्षस्य न किञ्चिद् नः सूयत इति भावः / इह "कालतरनासी वा धडो व्व" इत्यादिगाथाः प्रागपि षष्ठगणधरे बन्धमोक्षविचारे व्याख्याता एव / ततो यदिह न व्याख्यातं, तत्ततो (ग्रन्थतो)ऽवगन्तव्यमिति।।१६८६|| अथ प्रथमपक्षे यदुक्तम्- 'किं दीवस्सव नासो निव्वाणं' (1975) इत्यादि। तत्रोत्तरमाहन य सव्वहा विणासो-ऽणलस्स परिणामओ पयस्सेव। कुंभस्स कवालाण व, तहाविगारोवलंभाओ // 1987|| न प्रदीपानलस्य सर्वथा सर्वप्रकारैर्विनाशः, परिणामत्वात, पयसो दुग्धस्येव / अथवा-यथा मुद्गराऽऽद्याहतस्य कपालतया परिणतस्य घटस्य, यथा वा चूर्णिकृतानां कपालानाम् / कुतो न सर्वथा विनाशः? इत्याह तथा तेन रूपान्तरप्रकारेण विकारस्य प्रत्यक्षाऽऽदिप्रमाणोपलम्भादिति / / 1687|| अथ प्रेर्य , परिहारं चाऽऽहजइ सव्वहान नासो-ऽणलस्स किं दीसएन सो सक्खं? परिणामसुहुमयाओ, जलयविगारंजगरउ व्व / / 1688| यदि सर्वथाऽनलस्य न नाशस्तर्हि विध्यातानन्तरं किमित्यसो साक्षान्न दृश्यते? अत्रोत्तरमाह-(परिणामेत्यादि) विध्याते प्रदीपेऽनन्तरमेव तामसपुगलरूपो विकारः समपलभ्यत एव, चिरं चासो पुरस्ताद्यनोपलभ्यते, तत्सूक्ष्मसूक्ष्मतरपरिणामभावात्। तथाहि-विशीर्यमाणस्य जलदस्यापि यः कृष्णाभ्रपुद्गलविकारः स परिणामसौक्ष्म्यान्नोपलभ्यते। तथाऽजनस्यापि पवनेन हियमाणस्य यदुत्कृष्टरज उड्डीयते, तदपि परिणामसौक्षम्यान्नोपलभ्यते, न पुनरसत्त्वादिति / / 1688 / / चित्ररूपश्च पुद्गलपरिणाम इति दर्शयन्नाहहोऊण इंदियंतर-गज्झा पुणरिदियंतरग्गहणं / खंधा एंति न एंति य, पोग्गलपरिणामया चित्ता // 1986|| इह सुवर्णपत्रलवणसुण्ठीहरीतकीचित्रक गुमाऽऽदयः स्कन्धाः | पूर्वमिन्द्रियान्तरग्राह्याश्चक्षुरादीन्द्रियविषया भूत्वा पुनद्रव्यक्षेत्रका.. लाऽऽदिसामग्रयन्तरं प्राप्य पुद्गलपरिणामवैचित्र्यादिन्द्रियान्तरग्रहण स्पर्शनरसनाऽऽदीन्द्रियग्राह्यतामायान्ति / तथाहि-सुवर्ण पत्रीकृत चक्षाा भूत्वा शोधनार्थमग्नौ प्रक्षिप्तं भस्मना मिलितं सत्स्पर्शनन्द्रियग्राह्यतामेति, पुनः प्रयोगेण भस्मनः पृथक् कृतं चक्षुर्विषयतामुपगच्छति। लवणसुण्टीहरीतकीचित्रकगुडाऽऽदयोऽपि प्राक् चक्षुरिन्द्रियग्राह्या भूत्वा पश्चात्सूपाऽऽद्यन्ते बहौषधसमुदाये च छाथचूर्णावलेहाऽऽदिपरिणाभान्तरमापन्नाः सन्तो रसनेन्द्रियसंवेद्या भवन्ति। कर्पूरकस्तूरिकाऽ5दीनामपि पुद्गलाश्चक्षुर्गाह्या अपि वायुना दूरमुपनीताघ्राणसंवेद्या भवन्ति / योजननवकात्तु परतो गतास्तथाविधं कशित्सूक्ष्मपरिणाममापन्ना नैकस्याऽपीन्द्रियस्य विषयता प्रतिपद्यन्ते इति। अनया दिशाऽन्याऽपि पुद्गलपरिणामता चित्रा भावनीयेति // 1686|| अथास्यैव पुद्गलपरिणामवैचित्र्यस्य प्रस्तुते योजनार्थमाह-- एगेगेंदियगज्झा, जह वा दव्वादयो तहा गेया। होउं चक्खुग्गज्झा, घाणिंदियगज्झयामेंति॥१६६०।। वायुः स्पर्शनन्द्रियस्यैव ग्राह्यः, रसो रसनस्यैव, गन्धो घाणस्यैव, रूपं चक्षुष एव, शब्दस्तु श्रोत्रस्यैव ग्राह्यः। तदेवं यथा वाय्वादयः पुद्रला एकैकस्य प्रतिनियतस्येन्द्रियस्य ग्राह्या भूत्वा पश्चात्परिणामान्तरं किमप्यापन्ना इन्द्रियान्तरग्राह्या अपि भवन्तीति स्वयमेव गम्यते, तथा प्रस्तुता अपि प्रदीपगता आग्नेयाः पुद्गला-श्वक्षुाह्या भूत्वा पश्चाद्विध्याते तस्मिन प्रदीप त एव तामसीभूताः सन्तो घ्राणेन्द्रियग्राह्यतामुपयान्ति, तत्किमुच्यते?''किं दीसएनसोसक्खंति'' (1688) ननुघ्राणेन्द्रियेणोपलभ्यते एव विध्यातप्रदीपविकार इति // 1660|| यद्येवं, ततः प्रस्तुते किमित्याहजह दीवो निव्वाणो, परिणामंतरमिओ तहा जीवो। भण्णइ परिनिव्वाणो, पत्तोऽणावाहपरिणामं / / 1961|| यथाऽनन्तरोक्तस्वरूपपरिणामान्तरं प्राप्तः प्रदीपो 'निर्वाणः' इत्युच्यते, तथा जीवोऽपि कर्मविरहितकेवलामूर्तजीवस्वरूपभावलक्षणमबाध परिणामान्तरं प्राप्तो निर्वाणो निवृति प्राप्त उच्यते। तस्माद्दुःखाऽऽदिक्षयरूपा सतोऽवस्था निर्वाणमिति स्थितम् / / 1661!! तर्हि शब्दाऽऽदिविषयोपभोगाभावान्निःसुख एवायमिति चेत्। नैवम् / कुतः? इत्याह-- मुत्तस्स परं सोक्खं, णाणाणावाहओ जहा मुणिणो। तद्धम्मा पुण विरहा-दावरणाऽऽवाहहेऊणं / / 1662 / / मुक्तस्य जन्तोः परं प्रकृष्टमकृत्रिमममिथ्याभिमानजं स्वाभाविक सुखमिति प्रतिज्ञा / (णाणाणावाहउ त्ति) ज्ञानप्रकर्ष सति जन्मजराव्याधिमरणेष्टवियोगारतिशोकक्षुत्पिपासाशीतोष्णकामक्रोधमदशाठ्यतृष्णारागद्वेषचिन्तौत्सुक्याऽऽदिनिःशेषाबाधविरहितत्वादिति हेतुः / तथाविधप्रकृष्टमुनेरिव / यथोक्ताबाधरहितानि काष्ठादीन्यपि वर्तन्ते, परं तेषां ज्ञानाभावान्न सुखम्, अतस्तद्-व्यवच्छे दार्थ ज्ञानग्रहणम्। कथं पुनरसौ प्रकृष्टज्ञानवान्, आबाधरहितश्च? इत्याह(तद्धम्मेत्यादि) तद्धर्मा प्रकृष्टज्ञानानाबाधवान् मुक्ताऽऽत्मा। कुतः? विरहाद्अभावात्। केषाम्? आवरणहेतूनामाबाधहेतूनांच। एतदुक्तं भवतिक्षीणनिः