SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ णिव्वाण 2122 - अभिधानराजेन्द्रः - भाग 4 णिव्वाण दुक्खक्खयाइरूवा, किं होज व से सओऽवत्था? ||1975|| आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे-किं दीपस्येवास्य जीवस्य नासो ध्वंस एव निर्वाणम् ? यथाऽऽहुः सौगतविशेषाः केचित्। तद्यथा"दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काश्चिद्विदिशं न काञ्चित्, स्नेहक्षयात्केवलमेति शान्तिम् // 1 // जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद्विदिशं न काञ्चित्, क्लेशक्षयात्केवलमेति शान्तिम् // 2 // इति। किं वा यथा जैनाः प्राऽऽहुः तथा निर्वाणं भवेत्? किं तदित्याह- सतो विद्यमानस्य जीवस्य विशिष्टा काचिदवस्था। कथं भूता? रागद्वेषमदमोहजन्मजरारोगाऽऽदिदुःखक्षयरूपा। उक्तं च- "केवलसंविदर्शनरूपाः सर्वार्तिदुःखपरिमुक्ताः। मोदन्ते मुक्तिगताः, जीवाः क्षीणाऽऽन्तरारिगणाः // 1 // " इति // 1675|| प्रकारान्तरेणापि संशयकारणमाहअहवाऽनाहत्तणओ,खस्स व किं कम्मजीवजोगस्स? अविओगाओ न भवे, संसाराभाव एव त्ति / / 1676|| अथवा त्वमेवं मन्यसे-नूनं संसाराभाव एव न भवेत् / कुतः? अवियोगाद्वियोगायोगात् / कस्य? कर्मजीवयोः संयोगस्य / कुतः? अनादित्वात्, खस्येव / इह ययोरनादिः संयोगस्तयोवियोगो नास्ति, यथा जीवाऽऽकाशयोः / अनादिश्च जीवकर्मणोः संयोगः। ततो वियोगानुपपत्तिः / ततश्च न संसाराभावः / तथा च सति कुतो मोक्षः? इति / / 1676|| अथ प्रत्यासत्तेरेवानन्तरोक्तस्यैव प्रतिविधा नमाहपडिवज्ज मंडिओ इव, विओगमिह कम्मजीवजोगस्स। तमणाइणो वि कंचण-धाऊण व णाणकिरियाहिं / / 1977|| (अणाइणो वित्ति) अनादेरपि जीवकर्मसंयोगस्य (तमिति) त्वं प्रतिपद्यस्व वियोग, बन्धमोक्षवादे मण्डिकवत्। कयोरिव यो वियोगः? काञ्चनधातुपाषाणयोरिव। किं निर्हेतुष्क एव जीवकर्म–णोर्वियोगः? न, इत्याह-ज्ञानक्रियाभ्याम् / इदमुक्तं भवति-नाय-मेकान्तो यदनादिसंयोगो न भिद्यते, यतः काञ्चनधातुपाषाणयोर-नादिरपि संयोगोऽग्न्यादिसंपर्केण विघटत एव, तद्वजीवकर्मसंयोगस्याऽपि सम्यग्ज्ञानक्रियाभ्यां वियोग मण्डिकवत् त्वमपीह प्रतिपद्यस्वेति ||1677|| अथ प्रकारान्तरेणाऽपि मोक्षाभावप्रतिपादकं प्रभा साभिप्रायं भगवान् प्रकटयितुमाहजं नारगाइभावो, संसारो नारगाइभिण्णो य। को जीवो तं मन्नसि, तन्नासे जीवनासो त्ति // 1978|| यद्यस्मानारकतिर्यनरामरभाव एव नारकाऽऽदित्वमेव संसार उच्यते, नान्यः, नारकाऽऽदिपर्यायभिन्नश्च कोऽन्यो जीवः? न कोऽपीत्यर्थः / नारकाऽऽदिभावादन्यत्वेन कदाचिदपि जीवस्यानुपलम्भादिति भावः। ततस्तन्नाशे नारकाऽऽदिभावरूपसंसारनाशे जीवस्य स्वस्वरूपनाशात्सर्वथा नाश एव भवति, ततः कस्याऽसौ मोक्षः? इति त्वं मन्यसे? / / 1678|| तदेतदयुक्तम्। कुतः? इत्याहन हि नारगाइपज्जा-यमेत्तनासम्मि सव्वहा नासो। जीवद्दव्वस्स मओ, मुद्दानासे व हेमस्स / / 1976|| कम्मकओ संसारो, तन्नासे तस्स जुज्जए नासो। जीवत्तमकम्मकयं, तन्नासे तस्स को नासो ? / / 1680|| नारकतिर्यगादिरूपेण यो भावः स जीवस्य पर्याय एव, न च पर्यायमात्रनाशे पर्यायिणो जीवद्रव्यस्यापि सर्वथा नाशो मतः, कथञ्चित्तु भवत्यपि। न हि मुद्राऽऽदिपर्यायमात्रनाशे हेम्नः सुवर्णस्य सर्वथा नाशो दृष्टः / ततो नारकाऽऽदिसंसारपर्यायनिवृत्तौ मुक्तिपर्यायान्तरोत्पत्तिजीवस्य, मुद्रापर्यायनिवृत्तौ कर्णपूरपर्यायान्तरोत्पत्तिरिव सुवर्णस्य, न किञ्चिद्विरुध्यत इति / ननु यथा कर्मणो नाशे संसारो नश्यति, तथा तन्नाशे जीवत्वस्यापि नाशान्मोक्षाभावो भविष्यति? एतदप्यसारम् / कुतः ? इत्याह-(कम्मकओ इत्यादि) कर्मकृतः कर्मजनितः संसारः, ततस्तन्नाशे कर्मनाशे तस्य संसारस्य नाशो युज्यत एव, कारणाभावे कार्याभावस्य सुप्रतीतत्वात्। जीवत्वं पुनरनादिकालप्रवृत्तत्वात्कर्मकृतं न भवत्यतस्तन्नाशे कर्मनाशे तस्य जीवस्य को नाशः? न कश्चित् / कारणव्यापकयोरेवकार्यव्याप्यनिवर्तकत्वात्, कर्म तुजीवस्यन कारणं, नापि व्यापकमिति भावः / / / 1676 1680|| इतश्च जीवो न विनश्यति; कुतः? इत्याहन विगाराणुवलंभा-दागासं पि व विणासधम्मो सो। इह नासिणो विगारो,दीसइ कुंभस्स वाऽवयवा।।१६८१।। न विनाशधा जीव इति प्रतिज्ञा। विकारानुपलम्भादिति हेतुः। इह यो विनाशी तस्य विकारो दृश्यते / यथा मुद्गराऽऽदिध्वस्तस्य कुम्भस्य कपाललक्षणा अवयवाः; यस्त्वविनाशी न तस्य विकारदर्शनम्, यथा आकाशस्येति। ततो मुक्तस्य जीवस्य नित्यत्वान्नित्यो मोक्ष इति // 1681 // स्यान्मतिः, तर्हि प्रतिक्षणध्वंसी मोक्षो मा भूत, कालान्तरविनाशी तु भविष्यति, कृतकत्वात्, घटवत्। तदयुक्तम्, घटप्रध्वंसाभावेनानै-- कान्तिकत्वादिति दर्शयन्नाहकालंतरनासी वा, घडो व्व कयगाइओ मई होज्जा। नो पद्धंसाभावो, भुवि तद्धम्मा वि जं निचो // 1952 // अत्र प्रेर्य परिहारं चाऽऽहअणुदाहरणमभावो, खरसिंग पि व मई न तं जम्हा। कुंभविणासविसिट्ठो, भावो चिय पोग्गलमओ सो॥१६८३|| यद्वा-कृतकत्वं मोक्षस्याभ्युपगम्योक्तम्, इदानीं तदेव तस्य नास्तीति सोदाहरणमुपदर्शयन्नाहकिं वेगतेण कयं, पोग्गलमेत्तविलयम्मि जीवस्स। किं निव्वत्तियमहियं, नभसो घडमेत्तविलयम्मि।।१९८४|| अनुमानात्पुनरपि मुक्तस्य नित्यत्वं साधयतिदव्वामुत्तत्तणओ, मुत्तो निचो नभं व दव्वतया। नणु विभुयाइपसंगो, एवं सइ नाणुमाणाओ / / 1955||
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy