________________ णियाण 2107 - अभिधानराजेन्द्रः - भाग 4 णियाणमरण ऽनेकभेदप्रदर्शनार्थः। एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यम्, यः तपःसंयमोद्यमवान् वर्तते। इयमत्र भावना-अयं हि नियमाद्ज्ञानदर्शनसंपन्नो भवत्ययमेव च गुरुलाघममालोच्य चैत्याऽऽदिकृत्येषु सम्यक् प्रवर्तते। यथैहिकाऽऽमुष्मिकगुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयत्यत्र बहु वक्तव्यमिति गाथार्थः // 63 / / आव०२ अ०। पं०सू०। (प्रणिधानलक्षणं 'पणिहाण' शब्दे वक्ष्यते) ("जय वीयराय जगगुरु, होउ ममं तुह पभावओ भयव ! भवणिवेओ मग्गाणुसारिया इट्टफलसिद्धी॥३३॥" इति प्रणिधानसूत्रं "चेइयवंदण' शब्दे तृतीयभागे 1320 पृष्ठे उक्तम्) ("एतो चियण णियाणं, पणिहाणं बोहिपत्थणासरिसं / सुहभावहेउभावा, णेयं इहराऽ पवित्ती उ'' // 30 // इत्यपि तत्रैव 1321 पृष्ठे व्याख्यातम्) यदुक्तं प्रणिधानं निदानं न भवतीत्यस्यार्थस्य साधकं प्रमाणं दर्शयन्नाहमोक्खंगपत्थणा इय, ण णियाणं तदुचियस्स विण्णेयं / सुत्ताणुमइत्तो जह, बोहीए पत्थणा माणं // 36| म्लक्षाङ्गानी निवृतिकारणानां प्रार्थना आशंसा। अथवा-मोक्षाङ्गं चासौ प्रार्थना चेति मोक्षाङ्ग प्रार्थना / इति एषा "जय वीयराय (33)" इत्याद्यनन्तरोक्तप्रकारा, अनेन च तीर्थकरत्वं मे भूयादित्यादिकाया रागाऽऽकुलमानसकृताया भवाङ्ग भूताया व्युदासः। 'न' नैव, निदानमार्त्तध्यानविशेषो भवतीति , विज्ञेयं ज्ञातव्यमिति प्रतिज्ञा / कुतः? इत्याह-तदुचितस्य प्रणिधानोचितस्य, प्रमत्तसंयमान्तस्य गुणस्थानित इत्यर्थः। सूत्रानुमतित आगमानुज्ञातत्वात्। अप्रमत्तसंयताऽऽदेहि तत्सूत्रं नानुमन्यते, तस्यानभिष्वङ्गत्वाद्, तदन्यस्य त्वनुमन्यते, साऽभिष्वइत्वाद्, विशिष्टप्रणिधानस्य निरभिष्वङ्गताहेतुत्वादिति / अनेन च हेतुरुक्तः। यथेति दृष्टान्तसूचनार्थः / बोधेर्वोधिलाभस्य, प्रार्थनाऽऽशंसेति, मानं प्रमाणम् / इदमनुमानलक्षणं प्रणिधानस्य निदानत्वाभावसाधकत्वमिति। प्रयोगश्चास्यैवम्-यत् सूत्रानुमतं मोक्षाड्गप्रार्थन, तन्निदानं न भवति, यथा बोधिप्रार्थनम्, सूत्रानुमतं चेदमधिकृतं मोक्षाङ्गप्रार्थनमिति गाथाऽर्थः // 36 / / नन्वमोक्षाङ्गानां प्रार्थनं निदानं, तीर्थकरत्वं तु मोक्षाङ्गम्, अतस्तस्यापि प्रार्थनाप्रतिषेधो यो दशाश्रुत स्कन्धेऽभिहितो नासौ युक्तः? इत्याशक्याऽऽहएवं च दसाऽऽईसुं, तित्थयरम्मि विणियाणपडिसेहो। जुत्तो भवपडिबद्धं, साभिस्संगं तयं जेण // 37 // एवं चानेन च पूर्वो केन प्रकारेण मोक्षाङ्गप्रार्थनाया एवानिदानताप्रतिपादनलक्षणेन; दशाऽऽदिषु दशाश्रुतस्कन्धप्रभृतिषु (2104 पृष्ठेऽत्र स विषय उक्तः। आवश्यकसूत्ररथ ध्यानशतकम्।), आदिशब्दाद्ध्यानशतकाऽऽदिपरिग्रहः / तीर्थकरेऽपि भवभवनभीतजननिर्वाणनगरगमनसार्थवाहकल्पे जिनेऽपि विषये, आस्तां संसाराऽऽवर्त्तपातनिमित्तभूतभूपतित्वाऽऽदौ। निदानस्य 'अमुतो धर्मात्तीर्थकरो भूयासम्' इत्येवं प्रार्थनस्य प्रतिषेधो विधेयतया निषेधो निदानप्रतिषेधः / किमित्याहयुक्तः सङ्गतो वर्तते। केन कारणेनेत्याह-भवप्रतिबद्धं संसारानुषक्तम्, येन यस्मात्कारणात्। (तयं तितकं तीर्थकरत्वप्रार्थनं भवप्रतिबद्धमेव। कुतः? इत्याह-यतः साभिष्वङ्ग रागोपेतम् / यतस्तीर्थकरसत्क स्यामरवरनिर्मितसमवसरणकनककमलप्रमुखविभवस्य दर्शनात् श्रवणाद्वा संजाततदभिलाषः कोऽपि विकल्पं करोति, भवभ्रमणतोऽप्यह तीर्थकरो भूयासमिति गाथार्थः // 37 / / एतस्यैव साभिष्वङ्गताविपर्यये दोषाभावामाहजं पुण णिरभिस्संगं, धम्मा एसो अणेगसत्तहिओ। णिरुवमसुहसंजणओ, अपुव्वचिंतामणीकप्पो॥३८|| ता एयाणुट्ठाणं, हियमणुवहायं पहाणभावस्स। तम्मि पवित्तिसरूवं, अत्थापत्तीऍतमदुटुं / / 36 / / (युग्मम्) (जं पुण त्ति) साभिष्वङ्गं तावत् दुष्टमेव, यत्पुनस्तीर्थकरत्वप्रार्थन निरभिष्वङ्ग रागाभावेन विहितं, तत् अदुष्टमिति संबन्धः। निरभिष्वइतामेव तस्याऽऽहधर्मात् कुशलानुष्ठानरूपादर्हद्वात्सल्याऽऽदेः सकाशाद्धर्मायया भव्यानाम्, एष तीर्थकरः, भवतीति गम्यम्। किम्भूतः? अनेकसत्त्वहितः निखिलजगज्जन्तुजातपरमबान्धवः। कथम् ? यतो निरुपमसुखसंजनकः अनुपमाऽऽनन्दसंपादको, निर्वाणहेतुत्वात्। अत एवापूर्वचिन्तामणिकल्पः चिन्तातिक्रान्तसुखविधायित्वादिति / (ता इति) यस्मादनेक-सत्त्वहितत्वाऽऽदिविशेषणस्तीर्थकरस्तस्माद्, एतस्य तीर्थकर-स्यानुष्ठानं सद्धर्मदेशनाऽऽदिकमेतदनुष्ठानम्। किमित्याह-हितं पथ्यम्, इष्टार्थसाधकत्वात् / किम्भूतम्? अनुपहतमप्रतिघातम् / इह स्थाने इति शब्दो द्रष्टव्यः / ततश्च इति प्रधानभावस्य एवम्भूतप्रवराध्यवसायस्य देहिनः, किम्भूतं तीर्थकरत्वप्रार्थनमित्याह-तस्मिन् धर्मदेशनाऽऽदिजिनानुष्ठाने, प्रवृत्तिस्वरूपं प्रवर्तनस्वभावम् / ननु तीर्थकरोऽहं भवेयमित्येतस्य प्रार्थनस्य तीर्थकरवृत्तिकत्वात कथमिदं धर्मदेशनाप्रवर्तनस्वभावम् ? इत्यत आह-अर्थापत्त्या न्यायतः। यद्यपि तत्प्रार्थन साक्षात्तीर्थकरत्ववृत्तिक, तथाऽप्यर्थापत्त्या धर्मदेशनाऽऽदावेव वर्तते, तीर्थकरत्वप्रार्थनाद्वारेण धर्मदेशनाऽऽदिजिनानुष्ठानस्यैव हिताऽऽदिविशेषणस्य प्रार्थितत्वादिति तीर्थकरत्वप्रार्थनमदुष्ट, न दूषणवदिति गाथाद्वयार्थः / / 38||36 // पञ्चा० 4 विव०। ("जाईपराइओ खलु, कासि नियाणं तु हत्थिणपुरम्म। चुलणीऍ बंभदत्तो, उववन्नो नलिणगुम्माओ॥१॥" (उत्त०१३ अ०) इति निदानकरणे ब्रह्मदत्तोदाहरणं 'बंभदत्त' शब्दे वक्ष्यते) (द्रोपद्याः पूर्वभवे निदानकरणं 'दुवई शब्देऽग्रे वक्ष्यते) स्वर्गावाप्त्यादिलक्षणेऽर्थे, सूत्र०१ श्रु०२ अ०३उ०। आकाङ्क्षायाम्, सूत्र०१ श्रु०१६ अ०। कारणे, बृ०१उ०। विशे०। सूत्र०ा उत्थानकारणे,बृ०१3०1 उत्पादने, आचा०१ श्रु०६ अ०१3०। णियाणंझाण न०(निदानध्यान) प्राकृतत्वादनुस्वारः / नन्दिषेणगङ्ग दत्तसम्भूतद्रौपद्यादीनामिव स्वर्गमाऽऽदिऋद्धिप्रार्थनध्याने, आतु० णियाणकरण न० (निदानकरण) चक्रवर्तीन्द्राऽऽदिप्रार्थने, स्था०२ टा०४उ णियाणकारि(ण) त्रि०(निदानकारिण) निदानकरणशीले, "नियाण कारी संग तु कुरुते उड्डदेहियं / " स्था०६ ठा०। णियाणमयग पुं०(निदानमृतक) निदानं कृत्वा बालतपश्चरणा ऽऽदिमत्त्वेन मृतेषु, औ०। णियाणमरण न०(निदानमरण) मरणभेदे, स्था०६ ठा०। (व्याख्याऽस्य 'मरण' शब्दे वक्ष्यते)