________________ णियाण 2106 - अभिधानराजेन्द्रः - भाग 4 णियाण श्रमणाः साधवो नेच्छन्त्येव भवं, परंस पुनर्भवो देवत्वरूपस्तेषाममीभिः कारणैर्भवेत्। तद्यथा-पूर्वं वीतरागापेक्षया प्राचीनावस्थाभावि यत्तपरतेन सरागावस्थाभाविना तपसा साधवो देवलोकेषूत्पद्यन्ते इत्यर्थः / एवं पूर्वसंयमेन सरागेण सामायिकाऽऽदिचारित्रेण साधूनां देवत्वं भवति / कुत इत्याह-(कम्म ति) पूर्वतपः संयमावस्थायां हि देवगतिप्रभृतिकं कर्म बध्यते, ततो भवति देवे-धूपपातः। एतदपि कर्म केन हेतुना बध्यते? इति चेदत आह-तदपि कर्म सङ्गेन संज्वलनक्रोधाऽऽदिरूपेण बध्यते। बृ०६ उ०॥ कित्तियवंदियमहिया, जे एलोगस्स उत्तमा सिद्धा। आरुग्गबोहिलाह, समाहिवरमुत्तमं किंतु / / 6 / / उत्तमं सर्वोत्कृष्ट, ददतु प्रयच्छस्तु। आह-किमिदं निदानम, उत नेति? यदि निदानम्, अलमनेन, सूत्रप्रतिषिद्धत्वात्। न चेत्, सार्थकमनर्थक वा? यद्याद्यः पक्षः, तेषां रागाऽऽदिमत्त्वप्रसङ्गः, प्रार्थनाप्रवीणे प्राणिनि तथादानात् / अथ चरमः, तत आरोग्याऽऽदिदानविकला एते इति जानानस्यापि प्रार्थनायां मृषावादप्रसङ्ग इति? अत्रोच्यते- न निदानमेतत्, तल्लक्षणायोगात् , द्वेषाभिष्वङ्गमोहगर्भ हि तत् , तथा तन्त्रप्रसिद्धत्वात् धर्माय हीनकुलाऽऽदि-प्रार्थनं मोहः, अतहेतुकत्वात्, ऋद्ध्यभिष्वङ्गतोधर्मप्रार्थनाऽपि मोहः, अतद्धेतुकत्वादेव। तीर्थकरत्वेऽप्येतदेवमेव प्रतिषिद्धमिति। अत एवेष्टभावबाधकृदेतत्, तथेच्छाया एव तद्विघ्नभूतत्यात्, तत्प्रधानतयेतरत्रोपसर्जनबुद्धिभावात् अतत्त्वदर्शनमेतत्, महदपायसाधनम्, अविशेषज्ञता हि गर्हितापृथग जनानामपि सिद्धमेतत्, योगिबुद्धिगम्योऽयं व्यवहारः, सार्थकानर्थकचिन्तायां भाज्यमेतत्, चतुर्थभाषारूपत्वात्। तदुक्तम्"भासा असचमोसा, णवरं भत्तीऍ भासिया एसा। ण हु खीणपेजदोसा, देंति समाहिं च बोहिं च / / 1 / / तप्पत्थणाएँ तह विय, ण मुसावाओ वि एत्थ विण्णेओ। तप्पणिहाणाओ चिय, तग्गुणओ हंदि फलभावा // 2 // चिंतामणिरयणादिहिँ,जहा उ भव्वा समीहियं वत्थु। पावंति तह जिणेहि, तेसि रागादभावे वि // 3 // वत्थुसहाओ एसो, अउव्वचिंतामणी महाभागो। थोऊणं तित्थयरे, पाविजइ बोहिलाभो त्ति ||4|| भत्तीऐं जिणवराणं, खिजंती पुव्वसंचिया कम्मा। गुणपगरिसबहुमाणो, कम्मवणदवाणलो जेण // 5 // " एतदुक्तं भवति-यद्यपि ते भगवन्तो वीतरागत्वादारोग्याऽऽदि न प्रयच्छन्ति, तथाऽप्येवंविधवाक्यप्रयोगतः प्रवचनाऽऽराधनतया सन्मार्गवर्तिनो महासत्त्वस्य तत्सत्तानिबन्धनमेव तदुपजायत इति गाथार्थः // 6 // लक। भत्तीऍ जिणवराणं, खिज्जंती पुव्वसंचिआ कम्मा। आरियणमुकारेणं, विज्जा मंताय सिज्झंति !|56| भक्त्याऽन्तःकरणाऽऽदिप्रणिधानलक्षणया, जिनवराणां तीर्थकराणां, संबन्धिन्या हेतुभूतया, किम्? क्षीयन्ते क्षयं प्रतिपद्यन्ते, पूर्वसञ्चितानि अनेकभवोपात्तानि, कर्माणि ज्ञानाऽऽवरणाऽऽदीनि, नि, इत्थं स्वभावत्वादेव तद्भक्तेरिति / अस्मिन्नेवार्थ दृष्टान्तमाह। तथाहिआचार्यनमस्कारेण विद्या, मन्त्राश्च सिद्ध्यन्ति, तद्भक्तिमतः सत्त्वस्य शुभपरिणामत्वात् तत्सिद्धिप्रतिबन्धककर्मक्षया-दिति भावना / अयं गाथाऽर्थः ||56 / / अतः साध्वी तद्भक्तिर्वस्तुतोऽभिलषितार्थप्रसाधकत्वादारोग्यबोधिलाभाऽऽदेरपि तन्निवर्त्य त्वात्तथा चाऽऽहभत्तीऍ जिणवराणं, परमाए खीणपेज्जदोसाणं। आरुग्गबोहिलाभ, समाहिमरणं च पावंति॥६०|| भक्त्या जिनवराणां, किंविशिष्ट्या? परमया प्रधानया, प्रावभक्त्येत्यर्थः / क्षीणप्रेमद्वेषाणां जिनाना, किम? आरोग्यबोधिलाभं समाधिमरां च प्राप्नुवन्ति प्राणिन इति / इयमत्र भावनाजिनभक्त्या कर्मक्षयः, ततः सकलकल्याणावाप्तिरित्याह-समाधिमरण च प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यम्, समाधिमरणप्राप्ती नियमत एव तत्प्राप्तेरिति गाथाऽर्थः // 60 // साम्प्रतं बोधिलाभप्राप्तावपि, जिनभक्तिमात्रादेव पुनयोंधिलाभो भविष्यत्येव किमनेन वर्तमानकालदुष्करणा-- नुष्टानेन? इत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वम धिकृत्यौपदेशिकमिदं गाथाद्वयमाह......................(आव०२अ०......................। ........................||611 // लद्धिल्लिअंच बोहिं, अकरितोऽणागयं च पत्थंतो। अन्नदाइं बोहिं, लब्मिसि कयरेण मुल्लेण? ||6|| (लद्धिल्लियं च त्ति) लब्धां च प्राप्तां च वर्तमानकालिकां बोधि जिनधर्मप्राप्तिमकुर्वन्निति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन, अनागतां चाऽऽयत्यामन्यां च प्रार्थयन् किं द्रक्ष्यसि? यथा-त्वं हे विहल ! जडप्रकृते ! इमं चान्यां च बोधिमधिकृत्य किं "चुक्किहिसि' इति देशीवचनतो भ्रश्यसि, न भविष्यसीत्यर्थः तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन् (अन्नदाई ति) निपातः, असूयायाम्, अन्ये तुव्याचक्षते-अन्याभिदानी बोधिं, किंलप्स्यसे कतरण मूल्येन? इयमत्र भावनाबोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्टानरहितस्य पुनर्वासनाभावात् कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः? स्यादेतत्, एवं सत्याद्यस्य बोधिलाभस्यासंभव एव उपन्यस्तवासनाभावान्न अनादिसंसारे राधाबेधोपमानेनानाभोपगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तिरिति। एतदावेदितमेवोपोद्घात इत्यलं विस्तरेणेति गाथाद्वयार्थः // 61 / / 62 / / तस्मात्सति बोधिलाभे तपःसंयमानुष्ठानपरेण भवितवं, न यत्किञ्चिचैत्याद्यालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्सयमोद्यमवतश्चैत्याऽऽदिषु कृत्याविराधकत्वात्। तथा चाऽऽह चेइयकुलगणसंघे, आयरियाणं च पवयणे सुए अ। सव्वेसु वि तेण कयं, तवसंजममुञ्जमतेणं / / 63 / / चैत्यकुलगणसङ्केषु, तथा आचार्याणां च, तथा प्रवचनश्रुतयोश्च, किम्? सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते / के न? तपःसंयमोद्यमवता साधुनेति। तत्र चैत्यान्यर्हत्प्रतिमालक्षणानि, कुलं विद्याधराऽऽदि, गणः कुलसमुदायः, सङ्घः समस्त एव साध्वादिसजातः / आचार्याः प्रतीताः, चशब्दादुपाध्यायाऽऽदिपरिग्रहः। भेदाभिधानं च प्राधान्यख्यापनार्थम् / एवमन्यत्रापि द्रष्टव्यम् / प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपं, श्रुतं सूत्रमेव। चशब्दः स्वगता