SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ णियाण 2105 - अभिधानराजेन्द्रः - भाग 4 णियाण ऽऽदिसुरान्तपरिषन्मध्यवर्ती , एवमाख्यातीति यथोक्तं कथयति, एवं भाषते वाग्योगेन, एवं प्रज्ञापयति अनुपालितस्य फलं प्रदर्शयति, एवं प्ररूपयति। किं तदित्याह-(आयातिट्ठाणे त्ति) आयति म उत्तरकालस्तस्य स्थानं पदमित्यभिधानम्। हे आर्याः! अध्ययनं (सअवमित्यादि) व्याख्यातार्थम् / इति धीमीति पूर्ववत दशा० 10 अ०) (मध्यस्थस्य केवलं वस्तुस्वभावपरस्य निदानमपि अनिदानमेवेति प्रथमभागे 236 पृष्ठे 'अट्टज्झाण' शब्दे उक्तम्) भिजा णिदाणकरणे मोक्खमग्गस्स परिमंथू, सव्वत्थ भगवया अणिदाणया पसत्था। 'भिज्ज त्ति' लोभः, तेन यन्निदानकरणं चक्रवर्तीन्द्राऽऽदिऋद्धिप्रार्थनं, तन्मोक्षमार्गस्य सम्यग्दर्शनाऽऽदिरूपस्य परिमन्थुरार्तध्यानरूपत्वात्। भिजाग्रहणाद्यत्पुनरलोभस्य भवनिर्वेदमार्गानुसारिताऽऽदिप्रार्थनं, तन्न मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति। स्था०६ ठा० ननुतीर्थकरत्वाऽऽदिप्रार्थनन राज्याऽऽदिप्रार्थनवदुष्टम; अतस्तद्विषयं निदानं मोक्षस्य परिमन्थुन भविष्यति? नैवम् / यत आह-(सव्वत्थेत्यादि) सर्वत्र तीर्थकरत्वचरमदेहत्वाऽऽदिविषयेऽपि, आस्तां राज्याऽऽदौ, अनिदानता अप्रार्थनमेव, भगवता समग्रैश्वर्याऽऽदिमता श्रीमन्महावीरस्वामिना (पसत्थ त्ति) प्रशंसिता श्लाघिता। एष सूत्रार्थः / (बृ०) अथ निदानकरणमाहअनियाणं निव्वाणं, काऊणमुवद्वितो भवे लहुओ। पावति धुवमायातिं, तम्हा अणियाणता सेया॥२५७|| अनिदानं निदानमन्तरेण साध्यं निर्वाणं भगवद्भिः प्रज्ञप्तं, ततो यो निदानं करोति, तस्य तत्कृत्वा पुनर्निदानकरणेनोपस्थितस्य लघुको मासः प्रायश्चित्तम् / अपि च यो निदानं करोति, स यद्यपि तेनैव भवग्रहणेन सिद्धि गन्तुकामः, तथापि धुवमवश्यमायातिं पुनरेवाऽऽगमनं प्राप्नोति, तस्मादनिदानता श्रेयसी। इदमेव व्याचष्टेइह परलोगनिमित्तं, अवि तित्थकरत्तचरिमदेहत्तं / सव्वत्थेसु भगवता, अणिदाणत्तं पसत्थं तु / / 258|| इहलोकनिमित्तमिहै व मनुष्यलोके-अस्य तपसः प्रभावेण चक्रवादिभोगानहं प्राप्नुयामिहैव भावविपुलान् भोगानासादयेयमितिरूपं, परलोकनिमित्तं मनुष्यापेक्षया देवभवाऽऽदिकः परलोकः, तत्र महर्द्धिक इन्द्रसामानिकाऽऽदिरहं भूयासमित्यादि-रूपं, सर्वमपि निदानं प्रतिषिद्धम् / किं बहूना? तीर्थकरत्वेन आर्हत्येन युक्तं चरमदेहत्वं मे भवान्तरे भूयादित्वेतदपि नाऽऽशंसनीयम्। कुतः? इत्याह-सर्वार्थेष्वप्यैहिकाऽऽमुष्मिकेषु प्रयोजनेषु अभिष्वङ्ग विषयेषु भगवता अनिदानत्वमेव प्रशस्तंश्लाधितम्, तुशब्द एवकारार्थः। सच यथास्थानयोजितः। (बृ०) आह-निदाने किमिति द्वितीयपदं नोक्तम्? उच्यते-नास्ति, कुतः? इति चेदत आहजा सालंबणसेवा, तं वीयपयं वयंति गीयत्था। आलंबणरहियं पुण, निसेवणं दप्पियं वेंति / / 266 / / या सालम्बनसेवा या ज्ञानाऽऽद्यालम्बनयुक्ता प्रतिसेवा, तां द्वितीयपदं गीतार्था वदन्ति, आलम्बनरहितां पुनर्निषेवणां प्रतिसेवांदर्पिका बुवतेतच्चाऽऽलम्बनमनिदानकरणे किमपि तद्विद्यते- "सव्वत्थ अनियाणया | भगवया पसत्था '' इति वचनात् / अथ भोगार्थ विधीयमानं निदानं तीव्रविपाकं भवतीति कृत्वा मा क्रियतां, यत्पुनरमुना प्रणिधानेन निदानं करोतिमाम ! मे राजाऽऽदिकुले उत्पन्नस्य भोगाभिष्वक्तस्य प्रव्रज्या न भविष्यतीत्यतो दरिद्रकुलेऽहमुत्पद्येयम्, तत्रोत्पन्नस्य भोगाभिष्वङ्गोन भविष्यति, एवं निदानकरणेऽदोषः? सूरिराहएवं सुनीहरो मे, होहिति अप्प त्ति तं परिहरंति। हंदि हुणेच्छंति भवं, भववोच्छित्तिं विमग्गंता // 267 / / एवमवधारणे, किमवधारयति-दरिद्रकुले उत्पन्नस्य मे ममाऽऽत्माअसंयमात् सुनिर्हरः सुनिर्गमो भविष्यति-सुखेनैव संयममगीकरिष्यामीत्यर्थः / इतीदृशमपि यन्निदानं, तदपि साधवः परिहरन्ते / कुतः? इत्याह-'हंदीति' नोदकाऽऽमन्त्रणे, हुरिति यस्मादर्थे / हे सौम्य ! यस्मान्निदानकरणेन भवानां परिवृद्धिर्भवति, सर्वोऽपि च प्रव्रज्याप्रयत्नोऽस्माकं भवव्यवच्छित्तिं कर्तुमिति विविधैः प्रकारैर्गियन्तः साधवो भवं नेच्छन्ति। अमुमेवार्थ दृष्टान्तेन द्रढयतिजो रयणमणग्घेयं, विकिज्जऽप्पेण तत्थ किं साहू? दुग्गयभवमिच्छत्ते, एसो चिय होति दिटुंतो।।२६८|| वोऽनयमिन्द्रनीलमरकताऽऽदिकं रत्नमल्पेन स्यल्पमूल्येन काचाssदिना विक्रीणीयात्तत्र किं साधु कि माम! शोभनम्? न किञ्चि दित्यर्थः / दुर्गतभवं दरिद्रकुलोत्पत्तिमिच्छत एष एव दृष्टान्त उपनेतव्यो भवति / तथाहि-अन_रत्नस्थानीयं चारित्रं, निरुपमानन्ताऽऽनन्दमयमोक्षफलसाधकत्वात्, काचशकलस्थानीयो दुर्गतभवः, तुच्छत्वात, ततो यचारित्रविक्रयेण तत्प्रार्थनं करोति, स मन्दभाग्योऽनय॑रत्न विक्रीय काचशकलं गृह्णातीति मन्तव्यम्। अपि चसंग अणिच्छमाणो, इह परलोए य मुचति अवस्सं। एसेव तस्स संगो, आसंसति तुच्छयं जंतू॥२६६।। इहलोकविषयं परलोकविषयं च सङ्ग मुक्तिपदप्रतिपक्षभूतम् अभिष्वङ्गमनिच्छन्नवश्यं मुच्यतेकर्मविमुक्तो भवति, कः पुनस्तस्य सङ्ग? इत्याह-एष एव तस्य सङ्गो यन्मोक्षाऽऽख्यविपुलफलदायिनः तपसः तुच्छकं फलमाशास्ते प्रार्थयति। तद्रूपोऽपि निदानस्यैव पर्यायकथनद्वारेण दोषमाहबंधो त्ति णियाणं ति य, आससजोगो य होति एगट्ठा। ते पुण ण बोहिहेऊ, बंधावचया भवे बोही // 270 / / बन्ध इति वा, निदानमिति वा, आशंसायोग इति वा एकार्थानि पदानि भवन्ति / ते पुनर्बन्धाऽऽदयो न बोधिहेतवो न ज्ञानाऽऽद्यवाप्तिकारणं भवन्ति, किं तु ये बन्धापचयाः, कारणे कार्योपचारात्कर्मबन्धस्यापचयहेतवोऽनिदानताऽऽदयः, तेभ्यो बोधिर्भवति। आह-यदि नाम साधवो भवं नेच्छन्ति, ततः कथं देवलोके त्पद्यन्ते इत्यर्थः? उच्यतेनेच्छंति भवं समणा, सो पुण तेसिं भवे इमेहिं तु / पुव्वतवसंजमेहिं, कम्मं तं चावि संगणं / / 271 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy