________________ णियाण 2103 - अभिधानराजेन्द्रः - भाग 4 णियाण उसो ! तस्स णिदाणस्स इमेयारूवे एवं फलविवागो जंणो / संचाएति सव्वतो सव्वत्ताए मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए।॥८॥ अष्टमे किमपि लिख्यते-(तत्थणं) तत्रपुत्राऽऽदिषु अहं श्रमणो-पासको भूयासं, विशिष्टोपदेशार्थ श्रमणानुपास्ते सेवते इति श्रमणो-पासकः। स च श्रमणोपासनतः (अहिगतजीवाजीये इत्यादि) अधिगतौ सम्यग्विज्ञाती जीवाजीवौ येन स तथा / यावत्करणात्- "उवलद्धपुन्नपावे' इत्यादिपदकदम्बकसग्रहः। उपलब्धे यथाऽवस्थितस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवानां प्राणातिपाताऽऽदीनां संवरस्य प्राणातिपाताऽऽदिप्रत्याख्यानरूपस्य निर्जरायां कर्मणा देशतो निर्जरणस्य क्रियाणां कायिक्यादीनामधिकरणानां खङ्गाऽऽदीनां बन्धस्य कर्म पुद्गलजीवप्रदेशान्योऽन्याऽऽगमरूपस्य मोक्षस्य सर्वाऽऽत्मना कर्मापगमरूपस्य कुशलः सम्यक्परिज्ञाता, आश्रवसंवरनिर्जराक्रियाऽधिकरणबन्धमोक्षकुशलः। एतेन चास्य ज्ञानसंपन्नतोक्ता / (असहेज्जे इति) अवद्यमानसहायः कुतीर्थिकप्रेरितसम्यक् त्वाविचलनं प्रति नपरसाहाय्यमपेक्षते इति भावः। तथा चाऽऽह-(देवासुरनागसुवनजक्खरक्खसकिं नरकिंपुरिसगरुडगंधव्वमहोरगाइएहिं देवगणेहिं निगंथाओ पावयणाओ अणतिक्कमणिज्जे) देवा वैमानिका असुर-कुमारा नागकुमारा राक्षसकिन्नरकिम्पुरुषा व्यन्तरभेदाः (गरुड त्ति) गरुडचिह्नाः सुवर्णकुमारा गन्धर्वमहोरगाश्व व्यन्तराः, तैः(अणति-कमणिले इति) अनतिक्रमणीया अचालनीयाः। एवं चैतत् / यतः-(निग्गंथे पावयणे निस्संकिए इत्यादि) निर्ग्रन्थे प्रावचने निःसंशयः (निक्कंखिए त्ति) दर्शनान्तराकाङ्क्षारहितः। (निव्वतिगिच्छे) फलं प्रति निःशङ् कः। (लद्धडे) अर्थश्रवणतः (गहियढे) ग्रहीतार्थो ऽवधारणतः (पुच्छियडे) प्रष्टार्थः, सांशयिकार्थप्रश्रकरणात्। (अहिगयढे त्ति) अधिगतोऽर्थो येन स तथा / अभिगतार्थो वा, अर्थावधारणात्। (विणिच्छियडे त्ति) विनिश्चितार्थः, एवं पर्याप्तोपलम्भात् / अत एव-(अद्विमिजापेम्माणुरागरत ति) अस्थीनिचकीकसाति। 'मिजाच'तन्मध्यवर्ती धातुविशेषः अस्थिमिजास्ताः प्रेमानुरागेण सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भाऽऽदिरागेण रक्ता इव रक्तायः सतथा। केनोल्लेखेनेत्यत आह-(अयमाउसो ! निगंथे पावयणे अढे अयं परमट्ठो, सेसे अणट्टे त्ति) अयमिति प्राकृतत्वादिदम्। (आउसो त्ति) आयुष्मन्निति पुत्राऽऽदेशमन्त्रणम्। (सेसे त्ति) शेषं निर्ग्रन्थप्रवचननेनातिरिक्तं धनधान्यकलत्रपुत्रमितकुप्रवचनाऽऽदिकम्, अनर्थोऽनर्थकारणत्वात् इति / (डच्छियफलिहे त्ति) उच्छ्रितोच्छ्रितमुन्नत स्फटिकमिव स्फटिकं चित्तं यस्यासौ उच्छ्रितस्फटिकः, मौनीन्द्रप्रवचनावाप्त्या परितुष्टमना इत्यर्थः / एषा वृद्धव्याख्या / अपरे त्वाहः-उच्छ्रितोऽर्गलाऽस्थानादपनीय ऊर्कीकृतो न तिरश्चीनः कटेः पश्चाद्भागादपनीत इत्यर्थः / उत्सृतो वा अपगतः परिघोऽर्गला गृहद्वारेयस्याः सा, व्युत्सृतपरिघो वा औदार्यातिरेकतोऽतिशयदानदायित्वेनानुकम्पया भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः / (अवंगयदुवारे) अप्रावृतद्वारः भिक्षुकप्रवेशार्थ कपाटानामपि पश्चात्करणात् / वृद्धानां तु भावनावाक्यमेव / सम्यग्दर्शनलाभे सति न कस्माचित्पाषण्डिकादबिभेति, शोभनमार्गपरि,ग्रहणे उद्घाटितशिरा स्तिष्ठतीति भावः। (चियंत्ततेउरघरप्पवेसे इति) (घियत्तोत्ति)लोकानां प्रतीत एवान्तःपुरे वा गृहे वा प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्राऽनाशङ्कनीय इत्यर्थः। (चियत्ते ति) नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः शिष्टजनप्रवेशनं यस्य स तथा, अनीालुताप्रतिपादनान्तरं चेत्थं विशेषणमिति। अथवा (चियत्तो त्ति) त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चित्प्रवेशे येन स तथा। (चाउद्दसट्टमिअमावसापुण्णमासिणीसु पडिपुन्नपोसहमणुपालेमाणे त्ति) चतुर्दशी पर्वविधिना प्रतीता, अष्टमी च, तयोः अमावास्यासु मासार्दोक्तपर्वत्वेन प्रत्याख्यानासु, पौर्णमासीषु च पूर्णमासत्वेन पूर्णचन्द्रोदयत्वेन मासान्तपर्वसु प्रसिद्धासु, एवंभूतेषु धर्मदिवसेषु शुद्धयतिशयेन प्रतिपूर्णो यः पौषधौ व्रताभिग्रहविशेषः, तं प्रति पूर्णमाहारशरीरसंस्कारी ब्रह्मचर्यव्यापाररूपं पौषधमनुपालयन्, संपूर्णश्चावकधर्ममनुचरति। तदनेन विशिष्टं देशचारित्रमावेदितं भवति। (समणे निग्गथे फासुएसणिज्जेणं असणपाणखाइमेणं वत्थपडिग्गहकंबलपायपुच्छणेणं) अत्र वस्त्रं प्रतीतम्, पतद्भक्तं पानं वा गृह्णाणतीति पतद्ग्रहः। लिहाऽऽदित्वादच् प्रत्ययः / पात्रं पादप्रोच्छनकं रजोहरणम्। (ओसहभेसजेणं ति) औषधमेकद्रव्याऽऽश्रयं यत्समुदायरूपम्।अथवौषधं त्रिफलाऽऽदिभैषज्यम् (पाडिहारिएणं पीठफलगसेज्जासंथारएणं पडिलाभेमाणे त्ति) प्रतिहरः प्रत्यर्पणं प्रयोजनमस्येति प्रातिहारिकं, पीठमासनं, फलकमवष्टाभनार्थः काष्ठविशेषः, शय्या वशतिः, शयनं च यत्र प्रसारितपादः सुप्यते, संस्तारको लघुतरशयनमेव / (बहुहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोवयासेहिं आहापरिग्गहि अप्पाणं भावेमाणे ति) शीलव्रतानि अणुव्रतानि, गुणा गुणव्रतानि, वि रमणानि रागाऽऽदिविरतिप्रकाराः, प्रत्याख्यानानि नमस्कारसहिताऽऽदीनि, पौषधोपवासो विशेषतोऽष्टम्यादिदिनेषवसनमाहाराऽऽदित्याग इत्यर्थः / (विहरिस्सामि त्ति) विचरिष्ये / क्वचिदेतानि पदानि अननुगमेनापि दृश्यन्ते। तान्यपि अनेन व्याख्याऽनुक्रमेण वाच्यानि। (सेणं मुंडे इत्यादि) स मुण्डो मस्तकलोचनेन भूत्वा, (आगाराओ त्ति) अगैर्दुमदृषदादिभिर्निवृत्तं, तस्मात् निष्क्रम्यतीति शेषः / अनगारितां साधुतां प्रव्रजेत् प्रतिपद्येत,शेष व्यक्तम्। (से णमित्यादि) सपूर्वोक्तनिदानकृता यथाशक्ति सदनु-छान विधा उत्पन्ने वा कारणे अनुत्पन्ने वा भक्तं प्रत्याख्यायानालोचितप्रतिक्रान्तः समाधिप्राप्तः सन् कालमासे कालं कृत्वा अन्यतरेषु लोकेषु उत्पद्यते इति / एतानि चाभिगतजीवाऽऽदिकानि पदानि हेतुमद्भावेन नेतव्यानि। तद्यथा यस्मादभिगतजीवाजीवः, तस्मादुपलब्धपुण्यपापः, यस्मादुपलब्धपुण्यपापस्तस्मादुच्छृतमनाः, एवमुच्छ्रतमनाः सन् श्रावकधर्म साधुधर्म्म वा प्रकाशयन् विहरति / अष्टमीचतुईश्यादिषु पौषधोपवासाऽऽदिपारणकेषु साधून प्रासुकेन प्रतिलाभयते / एतन्निदानस्यैतत्फलं, यजानन्नपि कटुकविपाकान् विषयान् विहाय न चारित्रं प्रतिपद्यते॥८॥ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते०जाव से य परक्कममाणे दिव्वमाणुस्सएहिं कामभोगे हिं निव्वेयं गच्छे जा, माणुस्सगा खलु कामभोगा अधुवा०जाव विप्पजहणिज्जा दिव्वा वि खलु कामभोगा अधुवा०जाव पुणरागमणिज्जा, जति इमस्स तवनियम०जाव वयमवि आगमेस्साणं जाई इमाइं अंतकुलाणि वा, तुच्छकुलाणि वा दरिदकु