________________ णियाण 2018 - अभिधानराजेन्द्रः - भाग 4 णियाण एच्छितं, किं भे आसगस्स सदति, जं पासित्ता णिग्गंथे णिदाणं करेति-जइ इमस्स तवनियमबंभचेरवासस्स तं चेव० जाव साहु / एवं खलु समाणाउसो ! णिग्गंथे णिदाणं किचा तस्स आणालोइय अपडिकं ते कालमासे कालं किच्चा अणुत्तरेसु देवलोएसु देवत्ताए उववत्तारो भवंति / महिडिएसु०जाव चिरद्वितीए, से णं तथा देवेसु भवति महिड्डिए०जाव चिरट्ठि--- तीए, ततो देवलोगा आउक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता जे इमे उग्गपुत्ता महामाउया, तेसिणं अण्णतरंसि कुलंसि पुमत्ताए पचायंति, से णं तत्थ दारए भवति,सुकुमालपाणिपाए जाव सुरूवे ! तते णं से दारए उम्मुक्कबालभावे विणयपरिणतमेत्ते त्ति जोव्यणगमणुप्पत्ते सयमेव पेत्तियं दायं पडिवजंति / तस्स णं अतिजायमाणस्स वा०जाव पुरतो महं दासी दास० जाव किं भे आसगस्स सदति। तस्स णं तहप्पगारस्स पुरिसस्स जातस्स तहारूवे समणे वा उभतो कल्लं केवलिपण्णत्तं धम्ममाइक्खेजा? हंता ! आइक्खेजा। एवं संपडिसुणेज्जा? णो इणढे समढे। से भगवं ! महिच्छे महारम्भे महापरिग्गहे अहम्मिए० जाव आगमे साणं दुल्ल भबोहिए यावि भवति / ते एवं खलु समणाउसो ! तस्स निदाणस्स इमेयारूवे पावए फलविवागे, जं णो संचाएति केवलिपण्णत्तं धम्म पडिसुणित्तए / / 1 / / क्वचिद् ''महामाउगा' इति पाठः, तत्र महती शीलरूपाऽऽदियुक्ता माता येषां ते महामातृका इति / एवं भोगपुत्राः, आदिदेवाऽवस्थापितगुरुवंशजपुत्राः। उपलक्षणं चैतत्-राजेक्ष्वाकुकौरवनागाऽऽदीनाम् / प्रकृतमाह-(तेसि णमित्यादि) तेषामुग्रपुत्राऽऽदीनामन्यतरस्य (अतिजायमाण त्ति) आगच्छतो बहिः प्रदेशात् स्वगृह प्रति। (निज्जायमाण त्ति) निर्गच्छतः स्वगृहाऽऽदेर्बहिः प्रदेश प्रति / कथमित्याहउभयतस्तेषाम् उग्रपुत्राऽऽदीनां (पुरतो महमित्यादि) पुरतोऽग्रतो महान्तो ये दास्यश्चेट्यो, दासाश्चेटकाः, किङ्कराः प्रतिकर्म प्रभोः पृच्छापूर्वकारिणः, कर्मकरास्तदन्यथाविधाः, ते च ते पुरुषाश्चेति समासः / पदात पदातिसमूहः, तैः परिक्षिप्त परिवृतं यत्तत्तथा। एवंविधं छत्रं, भृङ्गारं च (गहाय निग्गच्छति) इत्यनेनास्य प्रभुत्वमावेदितं भवति / (तया णमित्यादि) ततोऽनन्तरं पुरतोऽग्रतो महान्तो बृहत्तमा अश्वाः तुरङ्गाः, (आसवर त्ति) अश्ववरा अश्वानां मध्ये प्रधानाः, (नाग त्ति) नागा हस्तिनः, नागवराः नागानां प्रधानाः / एवं पृष्ठतो रथाः (रथसंगेल्लि त्ति) रथसमुदायः। (से णमित्यादि) सोऽनिर्दिष्टनामा। उद्धृतश्च तच्छत्रः। तथा (अब्भुग्गयभिंगारे त्ति) अभ्युद्गतोऽभिमुखमुद् गत उत्पाटितो भृङ्गारो यस्म स तथा। (पग्गहियतालिवेटे ति) प्रगृहीतं तालवृन्त यं प्रति तथा। वीज्यमानाः श्वेतचामरबालव्यजनिका यं प्रति स तथा। (अभिवखणं 2 ति) भूयो भूयः, एकवचनं निर्गमनसमयमङ्गीकृत्य तदेषामाह / कथम्भूतास्ते? (सप्पभा इति) सती शोभना प्रभा कान्तिर्येषां ते सत्प्रभाः / (सपुव्यावरण्हमित्यादि) सह पूर्वेसण पूर्वाणि कर्तव्येनापरेण वाऽपरालि कर्तव्येन / यदि वा पूर्व यत्क्रियतेऽन्नाऽऽदिकं, तथाऽपर च यत्क्रियते विलेपनभोजनाऽऽदिकं, तेन सहवर्तत इति सपूर्वापरम्। इदमुक्तं भवति-यद्यदा प्रार्थ्यते, तत्तदा संपद्यते, इत्यभिलषितार्थप्राप्तमेव दर्शयितुमाह-(पहाते इत्यादि) व्यक्तार्थम्। कृतवलिकर्मा यावत्करणात् / (कंठे मालाकडे ति) कण्ठे कृतमालम् / (कप्पिय त्ति) कल्पितश्चासौ माला प्रधानो मुकुलितः कमलसंचितो मुकुटश्च स तथा विद्यते यस्य स कल्पितमालामुकुलमुकुटः / (वग्धारितेत्यदि)प्रलम्बित श्रोणिसूत्रं मल्लदामकलापश्च येन स तथा / अहतं मूखिकाऽऽद्यनुपहतं यद्वस्त्रं तत्परिहितं येन स तथा। (चंदणोक्किण्णगातसरीरे त्ति) चन्दनेन प्रतीतेन उत्कीर्णमिवोत्कीर्ण , गात्राणि शरीरं च यस्य स तथा एवंविधम्। (महति महालयाए इत्यादि) महत्यामुचायां, महालयायां विस्तीर्णायां, कूटाकारशालायां, कूटस्येव या पर्वतशिखा तस्या इवाऽऽकारो यस्याः सा कूटाऽऽकारा, यस्या उपरि आच्छादनं शिखराऽऽकारं सा कूटाऽऽकारेति भावः / कूटाऽऽकारा चासौ शाला च कूटाऽऽकारशाला। यदि वा कूटाऽऽकारेण शिखराकृत्योपलक्षिता शाला कूटाऽऽकारशाला / उपलक्षणं चैतत्-प्रासादाऽऽदीनाम् / कूटाऽऽद्याकारशालाग्रहण निर्जनत्वाप्रधानभोगवृद्धिकारणत्वात् / (महति)महालये शयनीये (दुहतो) उभयतः, उभौ शिरोऽन्तपादान्तावाश्रित्य। (विव्वोयणि त्ति) उपधानं यत्तथा तस्मिन् / (दुहओ त्ति) उभयतः, उन्नते मध्ये ततं भिन्नत्वाद् गम्भीर च महत्वोन्नतं गम्भीरं तत्र / (वण्णओ त्ति) वर्णकग्रहणात् 'गंगापुलिणवालुयाअवदातसालिसए" इत्यादिपदकदम्बकपरिग्रहः / (सव्वराति त्ति) सर्वरात्रिकेण ज्योतिषदीपरूपेण ध्मायमानेन जाज्वल्यमानेन (इत्थीगुम्म त्ति) स्त्रीगुल्मेन युवतिजनेन सार्द्धमपरपरिवारेण संपरिवृतो वेष्टितः, तथा (महया हयेत्यादि) महता, रवेणेति योगः। (अहय इति) आख्यानकप्रतिबद्धानीति वृद्धाः। अथवाअहतानि, आहतानि, अव्याकृतानीति भावः। नाट्यगीतवादितानि च, तन्त्री वीणा, तला हस्ततालाः, ताला कांसिका, त्रुटितानि शेषतूर्याणि, तथा घनो धनसदृशो ध्वनिः सामर्थ्यात् यो मृदङ्गो मर्दलः, पटुना दक्षपुरुषेण, प्रवादितः, तत एतेषां पदाना द्वन्द्वः / तेषां यो रवस्तेन, उदारान् प्रधानान् २मानुष्यसंबन्धीन्। शेषव्याख्या प्राग्वत्। (तस्सेत्ति) तस्य क्वचित् प्रयोजने समुत्पन्ने सत्येकमपि पुरुषमाज्ञापयतो, यावचत्वारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते।तेच किंकुर्वाणाः? एतद्वक्ष्यमाणं जगुः / तद्यथा-भणाऽऽज्ञापय, हे स्वामिन्! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि (आहरामो त्ति) आनयामः, (किं उवणेमो त्ति) सदपि किमुपनयामः। किमातिष्ठामोऽन्नाऽऽदिपचनक्रियारूपम् (किं भे) किं युष्माकं हृदयेप्सितं, तथा किं च (भे) युष्माकमास्यकस्य स्वदते स्वादु प्रतिभाति। यदि वा यदेव भवदीयस्याऽऽस्यस्य स्वदति तदेव वयं कुर्मः। प्रस्तुतमाहयं पूर्वोक्तस्वरूप पुरुषम् (पासेत्ता) दृष्ट्वा निर्गन्थो निदान करोति।" जइ इमस्सेत्यादि' पूर्ववत् / (एवं खल्वित्यादि) एवमनन्तरोक्तप्रकरण हे श्रमण ! हे आयुष्मन् ! निर्गन्थो निदानं कृत्वा (तस्स त्ति) तस्य निदानरूपस्थानस्य, अनालोच्य गुरूणामतिचारजातमनिवेद्य, एवमप्रतिक्रम्य पुनःकरणेनाऽनभ्युत्थाय (अकरणयाए त्ति) क्रियते इति करणं, तस्य भावः करणता, तया, अनभ्युत्थाय / (अहारिहमिति) यथाऽर्हप्रायश्चित्तापनयनयोग्यं तपः कर्म निकाचिताऽऽदिकपापच्छेदकत्वात् पापच्छित, प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम् / अप्रतिपद्य ग्रैवेयकानां मध्ये अन्यतमेषु देवेषु देवतया उपपत्तारो भवस्ति। कथंभूतेष्वित्याह-(महिड्डिएसु ) इत्यादि प्राग्वत्। नवरं