________________ णियट्टि 2062 - अभिधानराजेन्द्रः - भाग 4 णियत एसो अणियट्टीए, निक्खेवो छविहो होइ। तत्र नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसाऽऽदीनां हलकृष्टऽऽदिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुध्या वक्तव्यो, यावत्प्रशस्तभावनिवृत्त्येहाधिकारः। आव०४ अ०। भावनिवृत्तिः प्रतिक्रमणम्। आ०चू०१ अ आ०म० इदानी निवृत्तौ दृष्टान्तः"एकत्र नगरे शाला-पतिः शालासु तस्य च / धूर्ता वसन्ति तेष्वेको, धूर्तो मधुरगीः सदा // 1| कुविन्दस्य सुता तस्य, तेन सार्द्धमयुज्यत। तेनोचे साऽथ नश्यामो, यावद्वेत्ति न कश्चन / / 2 / / तयोचे मे वयस्याऽस्ति, राजपुत्री तथा समम्। संकेतोऽस्ति यथा द्वाभ्या, पतिरेकः करिष्यते॥३॥ तामप्यानय तेनोचे, साऽथ तामप्यचालयत्। तदा प्रत्यूषे महति, गीत केनचनाऽप्यदः // 4 // " "जइ फुल्ला कणिआरया, चूअय! अहिमासयम्मि घुट्टम्मि। तुहनखडं फुल्लेउ,जइ पचंता करितिडमराई (न क्षमन युक्त, प्रत्यन्ता नीचकाः, डमराणि विल्पवरूपाणि, शेषं स्पष्टम्।।१।।" श्रुत्वैवं राजकन्यासा, दध्यौ चूतमहातरुः। उपालब्धो वसन्तेन, कर्णिकारोऽधमस्तरुः // 5 // पुष्पितो यदि किं युक्तं, तवोत्तम ! ततस्तया। अधिमासघोषणा किं, न श्रुतेत्यस्य गीः शुभा।।६।। चेत्कुविन्दी करोत्येवं, कर्त्तव्यं किं मयाऽपि तत् ? निवृत्ता सा मिषादन्न-करण्डो मेऽस्ति विस्मृतः॥७|| राजसूः कोऽपि तत्राऽहि,गोत्रजैस्वासितो निजैः। ततस्तं शरणीचक्रे, प्रदत्ता तेन तस्य सा / / 8 / / तेन श्वशुरसाहाय्या-निर्जिन्य निजगोत्रजान्। पुनर्लेभ निज राज्य, पट्टराज्ञी बभूव सा / / 6 / / निवृत्तिद्रव्यतोऽभाणि, भावे चोपनयः पुनः / कन्यास्थानीया मुनयो, विषया धूर्तसंनिभाः / / 10 / / यो गीतिगानाऽऽचार्योप-देशात्तेभ्यो निवर्तते / सुगते जनं स स्याद्, दुर्गतस्त्वपरः पुनः''||११|| "द्वितीयोऽप्यत्र दृष्टान्तो, द्रव्यभावनिवर्तने / क्वचिद् गच्छे यदा साधुः, क्षमो ग्रहणधारणे // 1 // इत्याचार्याः पाठयन्ति, तदादरपरायणाः। सोऽन्यदोदितदुःकर्मा, निर्गच्छामीति निःसृतः // 2|| तदा च तरुणाः शूराः, साभिमानमिदं जगुः। मङ्गलार्थ च तत्साधुः, सोपयोगः स शुश्रुवान्"|३|| "तरिअव्वा य पयन्निआ, मरिअव्वं वा समरे समत्थएण। असरिसजणउल्लावा, न हुसहिअव्वा कुलपसूएणं''|११॥ सूक्तं चैतत्केनापयुक्तम्"लज्जा गुणौघजननी जननीमिवार्या-- मत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम्''||१| गीत्यर्थकश्वायम्स्वमिसंमानिताः केऽपि, सुभटाः प्राप्तकीर्तयः। रणाद्भग्नाः प्रणश्यन्तो, निजपक्षयशोऽर्थिनः // 2 // ऊचिरे केनचिन्नैव, नष्टाः शोभिष्यथ क्वचित्। ततः प्रतिनिवृत्तास्ते, परानीकमभञ्जयन् / / 3 / / प्रभुसमानितास्तेऽथ, शोभन्ते स्म समन्ततः / एवं गीतार्थमाकर्ण्य, साधुरेवं व्यचिन्तयत्।।४|| रणस्थानीया प्रव्रज्या, भग्नोऽहं विदितोऽधुना। भ्रष्टोऽयमिति हीलिष्ये, जनैरसदृशैरपि // 5 // ततः प्रतिनिवृत्तोऽभूद्, दृढधर्मो विशेषतः। आलोचितप्रतिक्रान्तो,गुरोरिच्छामपूरयत्"||६|| आ००आव०। आचा०। आ०चू०। समकालप्रतिपन्नानां जीवानामध्यवसायभेदे, स०१४ सम०ा क्षीणमोहावस्थायाम्, सूत्र०१ श्रु० ११अग णियट्टिबायर पुं०(निवृत्तिबादर) निवृत्तिप्रधानो बादरो बादरसंपरायो निवृत्तिबादरः / स०१४ सम० / क्षपक श्रेण्यन्तर्गत क्षीणदर्शनसप्तके अपूर्वकरणाऽऽख्यसप्तमगुणस्थानवर्तिनिजीवग्रामे, आव०४ अ० "इदाणि नियट्टी-जदाजीवो मोहणिज्जं कम्मखवेतिवा, उवसमेति वा, तदा अप्पमत्तसंजतस्स अणंतरपमत्ततरेसुअज्झवसाणट्ठाणेसुवट्टमाणो दसणमोहणिजे कम्मे खवेति, उवसामितेवाजाव हासरतिअरतिसोगभवदुगुछाणं उदयवोच्छेदोन भवति, ताव सो भगवं अणगारो अंतोमुहत्तकालं नियट्टि त्ति भवति।" आ०चू०४अ० कर्मा ("अपुव्वकरण' शब्दे प्रथमभागे 611 पृष्ठे विस्तर उक्तः) णियडि स्त्री०(निकृति) नितरां करणं निकृतिः। आदरकरणेन परवञ्चने पूर्वकृतमायाप्रच्छादनार्थे मायान्तरकरणे, भ० १२श०५ उ०। प्रना आव०। स० आकारवचनाऽऽच्छादने, व्य०४ उ०। वकवृत्त्या कुक्कुचाऽऽदिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवञ्चनार्थ गलकर्तकानामिवाव स्थाने, सूत्र०२ श्रु०२ अ०॥ दशा०। आ०म० ज्ञा०ा स्था०ा तं०। वकवृत्त्या कुक्कुचाऽऽदिकरणे, अधिकोपचारकरणेन परच्छलने, (इत्यन्ये) मायाप्रच्छादनार्थ मायान्तरकरणे, (इत्यप्यन्ये) ज्ञा०१ श्रु०१८ अामायायाम्, आव०५ अ०। सूत्र०व्या दशा। णियडिल्लया स्वी०(निकृतिमत्ता) निकृतिर्वश्चनार्थं चेष्टा, माया प्रच्छादनार्थ मायान्तरमित्येके। अत्यादरकरणेन परवञ्चनमित्यन्ये / तद्वत्ता / भ० 8 श०६ उ निकृतिश्च वञ्चनार्थं कायचेष्टाऽऽधन्यथाकरणलक्षणाभ्युपचारलक्षणं वा, तद्वत्ता। निकृतौ, स्था०४ ठा०४ उ०। णियडिसार त्रि०(निकृतिसार) मायाप्रधाने, पं०व०३ द्वार। णियण न०(निदान) निर्दलने, "नियणाऽलुणणमहणवावारे बहुविहे दिया काउं।" बृ०१ उ० णियणिय त्रि०(निजनिज) स्वकीयस्वकीये, पञ्चा०२ विव०॥ णियणियकाल पुं०(निजनिजकाल) आत्मीयाऽऽत्मीयकाले , प०व०१द्वार। णियणियतित्थ न०(निजनिजतीर्थ) स्वकीयस्वकीयप्रवचनावसरे, पञ्चा०६ विव० णियत त्रि०(नियत) निश्चिते, विशे० / सूत्र०। उत्त०। प्रतिनियतस्वरूपे, आ०म०१ अ०१ खण्ड / परिच्छिन्ने, आव०४