________________ जमग 1366 - अभिधानराजेन्द्रः - भाग 4 जमग षट् क्रोशानवग्राह्य, उप-रितनषट्क्रोशान् वर्जयित्वेत्यर्थः / अधस्तादपि षट् क्रोशान् वर्जयित्वा मध्येऽर्धपञ्चमेषु योजनेषु इति गम्यम् (जिणसकहाउ त्ति) जिनसक्थीनि जिनास्थीनीत्यन्तर्जातीयानां जिनदंष्ट्राग्रहणेऽनधिकृतत्वात् सौधर्मेशानचरमबलीन्द्राणामेव तद्ग्रहणात प्रज्ञप्तानीति, शेषो वर्णकश्चात्र जीवाभिगमोक्तो ज्ञेयः। स चायम्-"तस्स णं माणवगचेइअस्स खंभस्स उवरिंछकोसे ओगाहित्ता हिट्ठा विछक्कोसे वजित्ता मज्झे अद्धपंचमेसु जोअणेसु, एत्थ णं बहवे सुवण्णरुप्पमया फलगा पण्णत्ता / तेसु णं बहवे वइरामया णागदंतया पण्णत्ता / तेसु णं बहवे रययमया सिक्वागा पण्णत्ता / तेसु ण बहवे वइरामया गोलबट्टया समुग्गया पण्णत्ता, तेसु णं बहवे जिणसकहाओ सणिक्खित्ताओ चिट्ठति / जाओ णं जमगाणं देवाणं अन्नेसिं च बहूण देवाण य देवीण य अचिजाओ वंदणिज्जाओ पूअणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगल देवयं चेइ पञ्जुवासणिज्जाओ" इति। अत्र व्याख्या"तस्स णं'' इत्याद्यारभ्य "वजित्ता'' इति पर्यन्त प्रायः प्रस्तुतसूत्रे साक्षाद् दृष्टत्वादनन्तरमेव व्याख्यातम, मध्येऽर्द्ध पञ्चमेषु योजनेषु, अवशिष्टयोजनेष्वित्यर्थः / अत्रान्तरे बहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञप्तानि, तेषु फलकेषु बहवो वजमया नागदन्तकाः प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि रजतमयानि शिक्यकानि प्रज्ञप्तानि, तेषु शिक्यकेषु बहवो वजमयाः गोलको वृत्तोपलस्तदवद् वृत्ताः समुद्गकाः प्रसिद्धाः प्रज्ञप्ताः, तेषु समुद्गकेषु बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति, यानि यमकयोर्देवयोरन्येषां च बहूनां यमकराजधानीवास्तव्यानां वाणमन्तराणा देवानां देवीनां च अर्चनीयानि चन्दनादिना, वन्दनीयानि स्तुत्यादिना, पूजनीयानि पुष्पादिना, सत्कारणीयानि वस्त्रादिना, समाननीयानि बहुमानकरणतः कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानीति / एतदाशातनाभीरुतयैव तस्मात्तेदेवा देवयुवतिभिर्न संभोगादिकमाद्रियन्ते, नापि मित्रदेवादिभिहस्यिक्रीडादिपराः स्युरिति / ननु जिनगृहादिषु जिनप्रतिमानां देवानामर्चनीयत्वादिकमाशातनात्यागश्च युक्तः, तासां सद्भावस्थापनारूपत्वेनाराध्यतासंकल्पप्रादुर्भावसंभवात्, न तथा जिनदंष्ट्रादिषु, तेन कथं तौ घटेते ? पूज्यानामङ्गानि पूज्या इव पूज्यानीति संकल्पस्यात्रापि प्रादुर्भावात् / पूज्यत्वं महावैरोप-शमकगुणवत्त्वेन च। अस्मिन्नर्थे पूज्यश्रीरत्नशेखरसूरीन्द्रोपज्ञश्रावकविधिवृत्तिसमतिः / तथाहि-परीक्षाप्राप्तनिर्लोभतागुणा रत्नसारकुमारं प्रति चन्द्रशेखरसुरेणोचे"हरिषेणाणीहरिणे- गमेष्यनिमिषाग्रणीः / युक्तमेव हि त्वत्श्लाघां, कुरुते सुरसाक्षिकम् / / 1 / / वक्ति स्म विस्मयस्मेरः, कुमारः स सुराग्रणीम्। मामश्लाघ्यं ग्लाधते किं. सोऽप्युवाच शृणु ब्रुवे // 2 // नवोत्पन्नतयाऽन्यर्हि, सौधर्मेशानुशक्रयोः। विवादोऽभूद्विमानार्थ, हार्थमित्र हर्मिणोः / / 3 / / विमानलक्षा द्वात्रिंशत, तथाऽष्टाविंशतिः क्रमात्। सन्त्येतयोस्तथाऽप्येतौ, विवदेते स्म धिग् भवम् / / 4 / / तयोरिवोवीश्वरयो-विमानर्द्धिप्रलुब्धयोः / नियुद्धादिमहायुद्धाः, अप्यभूवन्ननेकशः / / 5 / / निवार्यते हि कलह-स्तिरवां तरसा नरैः। नराणां च नराधीशै-नराधीशां सुरैः वचित्।।६।। सुराणां च सुराधीशां, कलहो वा पुनः कथम्। केन वा स निवार्येत, वज्राग्निरिव दुःशमः? |7|| माणवकाख्यस्तम्भस्था- ऽहंदंष्ट्राशान्तिवारिणा। साधिव्याधिमहादोष- महावैरनिवारिणा ||8|| कियत्कालव्यतिक्रान्ते, सिक्तौ महत्तरैः सुरैः। बभूवतुः प्रशान्तौ तौ, किं वा सिट्टयन्न तज्जलात् ? ||6|| युग्मम् ततस्तयोमिथस्त्यक्त-वैरयोः सचिवैर्द्वयोः। प्रोचे पूर्वव्यवस्थैवं सुधियां समये हि गीः // 10|| सा चैवम्दक्षिणस्या विमाना ये, सौधर्मेशस्य तेऽखिलाः। उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया / / 11 / / पूर्वस्थामपरस्यां च, वृत्ताः सर्वे विमानकाः / त्रयोदशापीन्द्रकाश्च, स्युः सौधर्मसुरेशितुः / / 12 / / पूर्वापरदिशोः त्र्यसा-श्वतुरस्राव ते पुनः / सौधर्माधिपतेर , ईशानचक्रिणः पुनः / / 13 / / सनत्कुमारमाहेन्द्रे-ऽप्येष एव भवेत्क्रमः। वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः / / 14 / / इत्थं व्यवस्थया चेतः- स्वाध्यमास्थाय सुस्थिरौ। विमत्सरौ गतक्रोधौ, जज्ञाते तौ सुरेश्वरौ / / 15 / / अथ प्रकृत प्रस्तूयते- 'माणवगस्स'' इत्यादि / माण-वकचैत्यस्तम्भस्य पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे स्तः, यमकदेवयोः प्रत्येकमेकैक-सद्भावात्। तस्मादेव पश्चिमायां दिशिशयनीये वर्णकश्चैतदीयः श्रीदेवीवर्णनाधिकारे उक्तः,शयनीययोरुत्तरपूर्वस्यां दिशि क्षुल्लकमहेन्द्रध्वजौ स्तः,तौ च मानतो महेन्द्रध्वजप्रमाणौ सार्द्धसप्तयोजनप्रमाणावुच्चत्वेन अर्द्धक्रोशमुद्वेधेन, बाहल्याभ्यामित्यर्थः / ननु यदीमौ प्रागुक्तमहेन्द्रध्वजतुल्यो तदा किमिमौ क्षुल्लकेन विशेषितौ ? उच्यते-मणिपीठिकाविहीनौ अत एव क्षुल्लकावित्यर्थः / द्वियोजनप्रमाणमणिपीठिकोपरिस्थितत्वेन पूर्वे महान्तौ महेन्द्रध्वजास्तदपेक्षया इमौ च क्षुल्लकावित्यर्थादागतमिति / तयोः क्षुल्लमहेन्द्रध्वजयोरेकैक-राजधानी संबन्धिनौ 2 परेण पश्चिमाया "चोप्फाला' नाम, प्रहरणकोशः प्रहरण-भाण्डागार, तत्र बहूनि परिघरत्नप्रमुखाणि यावत्पदात्प्रहरणरत्नानि संनिक्षिप्तानि तिष्ठन्तिता "सुहम्माण' इत्यादि। सुधर्मयोरुपर्यष्टाष्टमङ्गलकानि इत्यादितावद्वक्तव्यं यावबहवः सहस्रपत्रहस्तकाः सर्वरत्नमया इत्यादि। सुधर्मसभातः परं किमस्तीत्याह- "तासि णं' इत्या-दि। तयोः सुधर्मयोः सभयोरुत्तरपूर्वस्यां दिशि द्वे सिद्धायतने प्रज्ञप्ते, इति शेषः / प्रतिसभमेकैकसद्भावादिति / अत्र लाघवार्थमतिदेशमाह- एष एव सुधर्मासभोक्त एव जिनगृहाणामपिगमः पाठोऽवगन्तव्यः। स चायम्-"तेणं सिद्धाययणअद्धतेरसजोअणाई आयामेणं छस्सकोसाइं विक्खंभेणं णव जोअणाई उचउच्चत्तेणं अणेगखंभसय-सण्णिविट्ठा' इत्यादि / यथा सुधर्मायास्त्रीणि पूर्वदक्षिणोत्तरवर्तीनि द्वाराणि, तेषां च पुरतः प्रेक्षामण्डपाः, तेषां पुरतः स्तूपाः, तेषां पुरतीत्यवृक्षाः, तेषां पुरतो महेन्द्रध्वजाः, तेषां पुरती नन्दापुष्करिण्य उक्ताः तदनु सभायां षण्मनोगुलिकासहस्राणि, षडूगोमानसीसहस्राण्युक्तानि / एवमनेनैव क्रमेण सर्व वाच्यम् /