________________ जमग 1368 - अभिधानराजेन्द्रः - भाग 4 जमग कंदा वेरुलिअरुइलखंधा सुजायवरजायरूव-पढ़म-विसालसाला णाणामणिरयणविविहसाहप्पसाहवेरुलिअरत्ततवणिजपत्तवें टा जंबूणयरत्तमउअसुकुमालपवाल-पल्लवंकुरग्गधरा विचित्तमणिरयणसुरभिकुसुमफल-भरणमिअसाला सच्छाया सप्पभा सस्सिरीआ सउज्जोआ अमयरससमरसफला अहिअनयणमण-विणव्वुइकरा पासादी आ० जाव पडिरूवा 4' इति / अत्र व्याख्या- तेषां चैत्यवृक्षाणामयतेतद्रूपो वर्णावासः प्रज्ञप्तः। तद्यथा- 'वज्ररत्नमयानि मूलानि येषां तेवजमलाः तथा रजता रजतमया सुप्रतिष्ठिता विडिमा बहमध्यदेशभागे ऊर्द्ध-विनिर्गता शाखा येषां ते तथा / ततः पूर्वपदेन कर्मधारयः / रिष्टरत्नमयः कन्दो येषां ते, तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, सुजातं मूलद्रव्यशुद्धं वरं प्रधानं यजातरूपं रूप्यंतदात्मिकाः प्रथमिका मूलभूता विशाला शालाः शाखा येषां ते तथा, नानामणिरत्नात्मिका विविधाः शाखामूलशाखा विनिर्गतशाखाः प्रशाखा येषां ते तथा। तथा वैडूर्याणि वैडूर्यमयाणि पत्राणि येषां ते तथा। तथा तप्ततपनीयानि तपनीयमयानि पत्रवृन्तानि येषां ते तथा। ततः पूर्ववत् पदद्वयमीलनेन कर्मधारयः / जाम्बूनदा जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा अत्यन्तकोमलाः प्रवाला ईषदुन्मीलितपत्रभावाः पल्लवजातपूर्ण-प्रथमपत्रभावरूपा वराकुराः प्रथममुद्भिद्यमानास्तदग्रान् धरन्ति ते तथा। विचित्रमणिरत्नमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेणं नमिता नामग्राहिताः शाखा येषां तेतथा, सती शोभना छाया येषां ते सच्छायाः, एवं सत्प्रभाः। अत एव सच्छ्रीकाः / तथा सोद्योताः मणिरत्नानामुयोतभावात्। अमृतरससमरसानि फलानि येषां ते तथा। अधिक नयनमनोनिवृतिकराः, शेषं प्राग्वत्। "ते णं चेइअरुक्खा अन्नहिं बहूहि तिलयलवयछत्तोक्ग सिरीससत्तिवण्णदहिवण्णलोहधवचंदणनीवकुडयकयंवपणसतालमालपिआलपियंगुपारावयरायरुक्खनंदिरुक्खे हिं सव्वओ समंता संपरिक्खित्ता" इति / ते चैत्यवृक्षा अन्येबहुभिस्तिलकलवगछत्रोपगशिरीषसप्तपर्पदधिपर्णलोध्रधवचन्दननीपकुटजकदम्बपनसतालतमालप्रियालप्रियङ्गुपारापतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ताः। एते च वृक्षाः केचिन्नाम कोशतः केचिल्लोकतश्चावगन्तव्याः।"तेणं तिलया० जाव नंदिरुक्खा मूलवंतो कंदवंतो० जाव सुरम्मा' ते च तिलकादयो वृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्रथमोपाङ्गतोऽवसेयं, यावत् सुरभ्या इति। "ते णं तिलया० जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहि जाव सामलयाहिं सव्वओ समंता संपरिक्खित्ता !" ते च तिलकादयो वृक्षा अन्याभिर्बहुभिः पदालताभिर्यावच्छ्याभलताभिः सर्वतः समन्तात् संपरिक्षिताः। यावच्छब्दादत्र नागलताचम्पकलताद्या ग्राह्याः। "ताओ णं पउमलयाओ० जाव सामलयाओ निचं कुसुमिआओ० जाव पडिरूवाओ।" ताश्च पद्मलताद्या नित्य कुसुमिता इत्यादि लतावर्णनं यावत्प्रतिरूपाः " तेसि णं चेइअरुक्खाणं उप्पिं अट्ठमंगलया बहवे झया छत्ताइच्छत्ता'' तेषां चैत्य वृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजाः छत्रातिच्छत्राणि इत्यादि चैत्यस्तूपकवक्तव्यम् / गताश्चैत्यवृक्षाः। अथ महेन्द्रध्वजावसर:- "तेसिणं चेइअरुक-खाणं' इत्यादि / तेषां चैत्यवृक्षाणां पुरतस्तिस्रो मणिपीठिकाः प्रज्ञप्ताः / ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्याम अर्द्धयोजनं बाहल्येन, "तासि उप्पि पत्तेअं" इत्यादि। तासा मणिपीठिकानामुपरि प्रत्येक प्रत्येकं महेन्द्रध्वजाः प्रज्ञप्ताः / ते चार्धाष्टमनि सार्द्धसप्तयोजनानि ऊौं चत्वेन अर्द्धक्रोश धनुःसहस्रमुद्वेधेनो चत्वेन तदेव बाहल्येन ''वइरामथवट्ट'' इति पाठोपलक्षित परिपूर्णो जीवाभिगमायुक्तवर्णको ग्राह्यः / स चायम् "वइरामयवट्टलट्ठसंठिअसुसिलिट्ठपरिघट्टमट्टसुपइडिआ अणे गवरपंचवण्णकुंडलीसहस्सपरिमंडि आभिरामा वाउर्दू अविजयवे जयंतीपडागा छत्ताइच्छरा-कलिआ तुंगा गगणतलमभिलंघमाणा सिहरा पासादीआ० जाव पडिरूवा'" इति। अत्र व्याख्यावजमयाः तथा वृत्तं वर्तुलं लष्ट मनोज्ञ संस्थितं संस्थानं येषां तेतथा, तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टाः खरशाणपाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः, तथा मृष्टशः सुकुमारशाणया पाषाण प्रतिमेव तथा सुप्रतिष्ठिता मनागप्यचलनात् तथा अनेकैर्वरैः प्रधानैः पञ्चवर्णैः कुण्डलीनां लघुपताकाना सहनैः परिमण्डिताः सन्तोऽभिरामाः, शेषं प्राग्वत् / "ते सि णं महिंदज्झयाण उम्पि अट्ठमंगलयाझया छत्ताइच्छत्ता" इत्यादि सर्व तोरणवर्णक इव वाच्यं जीवाभिगमत इति। उक्ता मेहन्द्रध्वजाः / अथ पुष्करिण्यः / ताश्च- "चेइआवणसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते। तथाहि- "तेसिणं महिंदज्झयाणं पुरओ तिदिसिं तओ णंदापुक्खरिणीओ पण्णत्ताओ / अद्धतेरसजोअणाई आयामेवं छरसकोसाइं जोअणाई विक्खंभेण दस जोअणाई उव्वेहेणं अच्छाओ सण्हाओ पुक्खरिणीवण्णओ, पत्ते पत्ते पउमवरवेइआपरिक्खित्ताओ पत्तेअं पत्तेअं वणसंडपरिक्खित्ताओ वण्णओ'। तथा 'तासि णं णंदापुक्खरिणीणं पत्तेअंपत्तेअंतिदिसि तओ तिसोवाण पडिरूवगा पण्णत्ता / तेसि णं तिसोवाणपडिरूवगाणं वण्णओ, तोरणवण्णओ अ भाणिअव्वो० जाव छत्ताइच्छत्ता'' इति / अत्र जगतीगतपुष्करिणीवत् सर्व वाच्यम्। अथ सुधर्मसभायां यदस्ति तदाह "तासि णं'' इत्यादि / तयोः सभयोः सुधर्मयोः षट् मनोगुलिकानां पीठिकानां सहस्राणि प्रज्ञाप्तानि। तथाहि-पूर्वस्या द्वे सहस्रे, पश्चिमायांद्वे सहसे, दक्षिणस्यामेकं सहस्रम्, उत्तरस्यामेकं सहस्रम्, "जाव दामा" इत्यत्र यावत्पदादिदं ग्राह्यम- "तासु णं मणोगुलिआसु बहवे सुवण्णरुप्पमया फलगा पण्णत्ता / तेसि णं सुवण्णरुप्पमएसु फलगेसु बहवे वइरामया णागदतगा पण्णत्ता / तेसु णं वइरामएसु नागदतएसु बहवे किण्हसुत्तवग्धारिअमल्ल-दामकलावा० जाव सुकिल्लसुत्तवग्धारिअमल्लदामकलावा तेणंदामा तवणिज्जलंबूसगा चिट्ठति'' इति सर्व विजयद्वारवद् वाच्यम्। अनन्तरोक्तं गोमानसिकासूत्रेऽतिदिशति-"एवं गोमाणसिआओ' इत्यादि / एवं मनोगुलिकान्यायेन गोमानस्यः शय्यारूपाः स्थानविशेषा वाच्याः, नवरं दामस्थाने धूपवर्णको वाच्यः। अथास्या एव भूभागवर्णकमाह- "तासि णं" इत्यादि। तयोः सुधर्मयोः सभयोः अन्तर्बहुसमरणीयो भूमिभागः प्रज्ञप्तः / अत्र मणिवर्णादयो वाच्याः, उल्लोचाः पद्मलतादयोऽपि च चित्ररूपाः। अत्र विशेषतोयद्वक्तव्यं तदाह- "मणिपेढिआ'' इत्यादि। अत्र सुधर्मयोर्मध्यभागे प्रत्येक मणिपीठिका वाच्या, वे योजने आयामविष्कम्भाभ्यां, योजन बाहल्येन / "तासिणं" इत्यादि / तयोर्मणिपीठिकयोरुपरि प्रत्येक माणवकनाम्नि चेत्यस्तम्भमहेन्द्रध्वजसमाने प्रमाणतोऽष्टिमयोजनप्रमाणतोऽष्टिमयोजनप्रमाण इत्यर्थः / वर्णकतोऽपि महेन्द्रध्वजवत् उपरि