________________ जमग 1397 - अभिधानराजेन्द्रः - भाग 4 जमग 16 पङ्क्तित्रयं बोध्यम्। पङ्क्तित्रय-प्रासादसंग्रहश्चैवम् मूलप्रासादेन सह सर्वसंख्यया पञ्चाशीतिः प्रासादाः 85 / अथा-त्र सभा पञ्चकं प्रपञ्चयितुकामः सुधर्मसभास्वरूपं निरूपयति- "तेसिं णं" इत्यादि / तयोर्मूलप्रासादाव तंसकयोरुत्तरपूर्व-स्यामीशानकोणेऽतस्मिन् भागे मूल प्रा. 1 यमकयोर्दैवयोर्योग्ये सुधर्मनामे सभे प्रज्ञप्ते / सुधर्मासब सं. 85 शब्दार्थस्तुसुष्टु शोभनो धर्मो देवानां माणवकस्तम्भवर्तिजिनसक्थ्याशातनाभीरुकत्वेन देवाङ्ग नाभोगविरतिपरिणामरूपो यस्यांसा तथा / वस्तुतस्तुसुष्टु शोभनो धर्मो राजधर्मः, समन्तुनिर्मन्तुनिग्रहानुग्रहस्वरूपो यस्यां सा तथा / ते चार्द्धत्रयोदशयोजनान्यायामेन सक्रोशानिषट्योजनानि विष्कम्भेण नवयोजनान्यू चत्वेन। अत्र लाघवार्थ सभावर्णक सूत्रमतिदिशति-अनेक स्तम्भशत सन्निविष्टत्यादिपदसूचितः सभावर्णको जीवाभिगमोक्तो ज्ञेयः। स चैवम्"अणेगखंभसयसण्णिविट्ठाओ अब्भुग्गयसुकयवइरवेइआतोरणवररइअसालभंजिआसुसिलिट्टविसिट्ठ संठिअपसत्थवेरुलिअविमलखंभाओणाणामणिकणगरयणखचिअउज्जलबहुसमसुविभत्तभूमिभागाओ ईहामिगउसभतुरगणगरमगरविहगबालगकिंनररुरुसरभचमरकुंजर वणलयपउगलयभत्तिचित्तओ खंभुग्गय-वइरवेइ-आपरगियाभिरामाओ विजाहरजमलजुअल-जत्तजुत्ताओ विव अचासहस्समालणीआओ रूवणसहस्सकलिआओ भिसमाणीओ निम्भिसमाणीओ चवखुल्लोअणलेसाओ सुहफासाओ सस्सिरीअसुरूवाओ कंचणमणिरयणथूमिअग्गाओणाणाविहपंचवण्णघंटापडागपरिमंडिअअग्गसिहराओ धवलाओ भरीइकवयविणिम्मुअंतीओ लाउल्लोइअमहिआओ गोसीससरससुरभिरतचंदणददरदिण्ण पंचंगुलितलाओ उवचिअवंदणकलसाओ वंदणघडसुकयतोरण पडिदुवारदेसभागाओ आसत्तोसत्तविउलवट्टवग्घारिअनल्लकलावाओ पंचवण्ण-सरससु-रहिमुक्कपुप्फपुंजोवयारकलिआओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंतमघमघंतगंधधूआभिरामाओ सुगंधवरगंधिआओ गंधिवट्टिभूआओ अच्छरगणसंघविकिण्णाओ दिव्वतुडिअसद्दसंपण्णदिआओ सव्वरयणामईओ अच्छाओ० जाव पडिरूवाओ' इति / अत्र व्याख्या तु सिद्धायतनतोरणादिवर्णकषु उञ्छवृत्तिन्यायेन सुलभेतिन पुनरुच्यते, नवरम्अप्सरोगणानाम् अप्सरः परिवाराणां यः संघः समुदायस्तेन सम्यक् रमणीयतया विकीर्णा आकीर्णा दिव्यानां त्रुटितानामातोद्यानां ये शब्दास्तेः सम्यक्श्रोत्रमनोहारितया प्रकर्षण नदिता शब्दवती, शेष प्राग्वत् / अथास्तां कति द्वाराणीत्याह- "तासि ण सभाणं" इत्यादि। तयोः सभयोः सुधर्मयोस्विदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, पश्चिमायां द्वाराभा-वात् / तानि द्वाराणि प्रत्येक द्वे योजने ऊोचत्वेन योजनमेकं प्रवेशेन, श्वेता इत्यादिपदेन सूचितः परिपूर्णो द्वारवर्णको वाच्यो यावद्वनमाला। अथ मुखमण्डपपरिषनिरूपणामाह- "तेसिणंदाराण'' इत्यादि / तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं त्रयो मुखमण्डपाः प्रज्ञप्ताः सभाद्वाराग्रवर्तिनो मण्डपा इत्यर्थः / ते च मण्डपा अर्द्धत्रयोदशयोजनान्यायामेन षट् सक्रोशानि योजनानि विष्कम्भेण सातिरेके द्वे योजने ऊर्बोचत्वेन / एतेषामपि "अणेगखंभसयसण्णिविट्ठा'' इत्यादिवर्णनं सुधर्मासभा इव निरवशेषं द्रष्टव्यं यावहाराणां भूमिभागानां च वर्णनं, यद्यप्यत्र द्वारान्तमेव सभावर्णनं, तदतिदेशेन मुखमण्डपसूत्रेऽपि तावन्मात्रमे वायाति, तथापि जीवाभिगमादिषु मुखमण्डपवर्ण के भूमिभागवर्णकस्य दृष्टत्वात् अत्रातिदेशः / अथ प्रेक्षामण्डपवर्णक लाघवादाह- "पेच्छाघरमंडवाणं" इत्यादि / प्रेक्षागृहमण्डपानां रङ्गमण्डपानां तदेव मुखमण्डपोक्तमेव प्रमाणं भूमिभाग इति पदेन सर्व द्वारादिकं भूमिभागपर्यन्तं वाच्यम् / एषु च मणिपीठिका वाच्या / एतावदर्थसूचकमिदं सूत्रम्- "तेसिणं मुहमंडवाणं पुरओ पत्तेअंपत्तेअं पेच्छाघरमंडवा पण्णता, ते णं पेच्छाघरमंडवा अद्धतेरसं जोअणाई आयामेण० जाव दो जोअणाई उड्ढें उच्चत्तेण० जाव मणिफासा, तेसिणं बहुमज्झदेसभाए पत्तेअंपत्तेअंवइरामया अक्खाड्या पण्णत्ता, तेसिणं बहुमज्झदेसभाएपत्तेअंपत्तेअंमणिपेढिआओ पण्णत्ताओ ति" उक्तप्रायं, नवरमक्षपाटः चतुरस्राकारो मणिपीठिकाधार विशेषः। अस्याः प्रमाणाद्यर्थमाह-"ताओणं मणिपेढिआओ जोअणं आयामविक्खंभेणं अद्धजोअण बाहल्लेणं सव्वमणिमईओ सीहासणा भाणिअव्वा'' इति। अत्र सिंहासनानि भणितव्यानि, सपरिवाराणीत्यर्थः। शेषव्यक्तम्। अथ स्तूपावसर:- "तेसि ण" इत्यादि / तेषां प्रेक्षागृहमण्डपानां पुरतो मणिपीठिकाः, अत्र बहुवचनं न प्राकृतशैलीभवं, यथा द्विवचनस्थाने बहुवचनं 'हत्था पाया" इत्यादिषु, किंतु बहुत्वविवक्षार्थ, तेनात्र तिसृषु प्रेक्षा-गृहमण्डपद्वारदिक्षु एकैकसद्भावात् तिस्रो ग्राह्याः, अन्यत्र जीवाभिगमादिषु तथादर्शनात् / अथैतासां मानमाह- "ताओ णं'' इत्यादि कण्ठ्यम्, यद्यप्येतत्सूत्रादशेषु "जोअणं आया-मविक्खभेण अद्धजोअण बाहल्लेणं" इति पाठो दृश्यते, तथाऽपि जीवाभिगमपाठदृष्टत्वेन राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः स्तूपमणिपीठिकाया द्विगुणमानत्वेन दृष्टत्वाचायं सम्यक् पाठः संभाव्यते। आदर्शेषु लिपिप्रमादस्तु सुप्रसिद्ध एव / अथ स्तूपवर्णनायाह- "तासि ण'' इत्यादि / तासा मणिपीठिकानामुपरि प्रत्येक प्रत्येकं त्रयः स्तूपाः प्रज्ञप्ताः / जीवाभिगमादौ तु चैत्यस्तूपा इति योजने' ऊर्बोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्या, व्याख्यातो विशेषप्रतिपत्तिरिति देशोने द्वे योजने आयामविष्कम्भाभ्यां ग्राह्यः, अन्यथा मणिपी-ठिकास्तूपयोरभेद एव स्यात्। जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वमित्यर्थः। तेच श्वेताः, श्वेतत्वमेवोपमया द्रढयति-(संखदल त्ति) यावत्करणात् - "संखदलविमलनिम्मलदधिघणगोखीरफे णययनिअरप्पगासा सव्वरयणामया अच्छा० जाव पडिरूवा'' इति प्राग्वत्। कियद् दूर ग्राह्यमित्याह-याव-दष्टाष्टमङ्गलकानीति / अथ तचतुर्दिशि यदस्ति तदाह-"तेसिणंथूभाण" इत्यादि। तेषां स्तूपानां प्रत्येकं चतुर्दिक्षुचतस्रो मणिपीठिकाः प्रज्ञाप्ताः / ताश्च मणिपीठिका योजनमाया-मविष्कम्भेण अर्द्धयोजनं बाहल्येन अत्र जिनप्रतिमावक्तव्याः, ततसूत्रं चेदम्- "तासि ण मणिपीढिआणं उप्पि पत्ते अं पत्ते अं चत्तारि जिणपडिमाओ जिणुस्सेहप्पमाणमेत्ताओ पलिअंकणिसण्णाओ थूभाभिमुहीओ सण्णिक्खित्ताओ चिट्ठति / तं जहा- उसभा वद्धमाणा चंदाणणा वारिसेणा'' इति / एतद्वर्णनादिकं वैताढ्ये सिद्धायतनाधिकारे प्रागुक्तम्। गताः स्तूपाः। 'चेइअक्खाण'' इत्यादि व्यक्तम् / अत्र चैत्य-वृक्षवर्णको जीवाभिगमोक्तो वाच्यः। स चायम्-"तेसिणंचेइअरुक्खाणं अयमेआरूवे वण्णावासे पण्णत्ते / तं जहावइरमूलरययसुपइट्ठिअविडिमारिट्ठामय