________________ णिमंतणा 2051 - अभिधानराजेन्द्रः - भाग 4 णिमित्त गुरुमापृच्छ्य साधुनिमन्त्रणा कार्येत्युक्तम्, अथ तमनापृ च्छयैव प्रत्यासन्नताऽऽदिकारणात् साधवो निमन्त्रितास्तदा को विधिः? इत्याहइयरेसिं परिक्खित्ते, गुरुपुच्छाए णिओगकरणं ति। एवमिणं परिसुद्धं, वेयावच्चे तु अकए वि / / 11 / / इतरेषामपि गुर्वपेक्षया शेषसाधूनामपि, आक्षिप्ते उपन्यस्ते निमन्त्रणे, गुरुपृच्छाया रत्नाधिकप्रश्रस्य, नियोगकरणमवश्यंतया विधानम्, युक्तमिति शेषः / इदमुक्तं भवति-यद्यपि शेषसाधुविषया निमन्त्रणोपन्यस्ता, तथाऽपि न तद्वचनादेव प्रवर्तितव्यम्, अपि तु गुरुपृच्छाऽवश्य विधेयेति / इतिशब्दो वाक्यार्थसमाप्तौ / कस्मादेवमित्याह-एवमुक्तन्यायेन गुरुप्रश्नपूर्वलक्षणेन, इदं शेषसाधुनिमन्त्रणं, परिशुद्धमेव निर्दोषमेव, भवतीति गम्यम् / “सो विहिना य'इत्यादिपूर्वोक्तप्रामाण्यात् / ननु यदि पृष्टो गुरुवारयेल्लाभो वा न भवेत्तदा भक्ताऽऽदेरसंपादनेन निमन्त्रणस्य निष्फलत्वात् कथं परिशुद्धताऽस्येत्याह-वैयावृत्त्ये भक्ताऽऽदिदाने, तुशब्द एवकारार्थो योजित एव / अकृतेऽप्यविहितेऽपि,आस्ता विहिते। भावतस्तस्य कृतत्वात्, गुर्वाज्ञाकरणस्यैव च महाफलत्वात्, गुरोरपि पुष्टाऽऽलम्बनतस्तन्निषेधनान्न यथाकथञ्चित् / क्वचित् "वेयावच्चं तु" इति पठ्यते / तत्र वैयावृत्यमेव तन्निमन्त्रणमिति प्रक्रमः, अकृतेऽपि वैयावृत्त्ये / इति गाथाऽर्थः // 41 // पञ्चा० 12 विवा णिमंतेमाण त्रि०(निमन्त्रयत्) निमन्त्रणं कुर्वाणे, "तओ पच्छा तस्स गिहेणिमंतेमाणस्स अणिमंतेमाणस्स।" आचा०२ श्रु०१चू०२ अ०३ उ०। णिमंसू (देशी) तरुणे, देना० 4 वर्ग 32 गाथा। णिमग्ग त्रि०(निमग्न) अधोजलगमनानि कुर्वाणे, प्रश्न०३ आश्र० द्वार। पकाऽऽद्यवसन्ने, औ०। आ०म०। णिमग्गजला स्त्री०(निमग्नजला) निमज्जयत्यस्मिन् तृणाऽऽदिकमखिलं वस्तुजातमिति निमग्नम्, बहुलवचनादधिकरणे क्तप्रत्ययः निमग्नं जलं यस्यां सा तथा / तमिस्नगुहाया मध्ये वहन्त्यां नद्याम्, जं०३ वक्ष। आ०चू० णिमज्जग पुं०(निमज्जक) वानप्रस्थभेदेषु, ये स्नानार्थ निमग्ना एव क्षणं तिष्ठन्ति। नि०१ श्रु०४ वर्ग 1 अ०। औ०। भ०। णिमजण न०(निमज्जन) जलप्रवेशे, ग०२ अधि० 0 / णिमिअ त्रि०(स्थापित) "क्तेनाप्फुण्णाऽऽदयः"||4||२५८|| इति स्थापितस्य निमिआदेशः / न्यस्ते, प्रा०४ पाद। णिमित्त न०(निमित्त) हेतौ, कारणे, विशेष सहकारिकारणे, निमित्तकारणे च। सूत्र०२ श्रु०२ अ०॥ अष्ट०। उपष्टम्भकारणे, विशे०ा आ०म०ा व्य०। द्वे शब्दस्य निमित्ते / तद्यथा-व्युत्पत्तिनिमित्त, प्रवृत्तिनिमित्तं च / यथा गोशब्दस्य। तथाहि गोशब्दस्य व्युत्पत्तिनिमित्तं गमनक्रिया, गच्छतीति गौरिति व्युत्पादनात् / तेन च गमनेनैकार्थिसमवायतया यदुपलक्षित सास्नाऽऽदिमत्त्वं, तत्प्रवृत्तिनिमित्तं, तेन गच्छति, अगच्छति वा गोपिण्डे गोशब्दः प्रवर्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तभावात्। अश्वाऽऽदौ तुन प्रवर्तते, यथोक्तरूपस्य प्रवृत्तिनिमित्तस्य तत्राभावात्। व्य०१ उ० प्रयोजने, फले, संघा०१ अधि०१ प्रस्ता०। अतीतानागतवर्तमानवस्तुपरिज्ञानहेतौ ज्ञानविशेषे, प्रव०७३ द्वार। निमित्तमाहतिविहं होइ निमित्तं, तीयपडप्पन्नऽणागयं चेव। तेण न विणा उ नेयं, नज्जइ तेणं निमित्तं तु॥ त्रिविधं भवति निमित्तम् / तद्यथा--अतीतं, प्रत्युत्पन्नम्, अनागतं च / कालत्रयवर्तिलाभालाभाऽऽदिपरिज्ञानहेतुश्चूडामणिप्रभृतिकः, शास्त्रविशेष इत्यर्थः / कृत? इत्याह-तेन विवक्षितशास्त्रविशेषेण, विना ज्ञेयं लाभालाभाऽऽदिकं, न ज्ञायत इति लाभाऽऽदिज्ञाननिमित्तत्वान्निमित्तमुच्यते / एतानि कौतुकाऽऽदीनि य आजीवति स तत्तदाजीवको मन्तव्य इति / बृ०१ उ०। आ०म० आव०। ग०। पं०व०ाधादर्शका जे भिक्खू तीतं निमित्तं करेइ, करंतं वा साइज्जइ / / 7 / / जे भिक्खू पडुप्पण्णं निमित्तं वागरइ, वागरंतं वा साइजइ।।॥ जे भिक्खू अणागयं निमित्तं करेइ, करंतं वा साइजइ / / 6 / / जे भिक्खू पडुप्पण्णं णिमित्तं वागरति आगमस्स काले लाभादि वागरेति। छव्विहं णिमित्तं इमलाभालाभं सुहदुक्खं जीवितमरणऽतीतवज्जाई। गिहिअण्णतित्थियाण व, जे भिक्खू वागरिजा णं / / 2 / / लाभालाभं सुहं दुक्खं जीवितं मरणं / एतानि छ अतीतकाल-वजाणि वागरेति, वट्टमाणे एस्से चेत्यर्थः / गिहीणं, अण्णतित्थियाणं वा जो वागरेज भिक्खू सो आणादी दोसा पावेज। छव्विवट्टमाणगप्रदर्शनार्थं गाहा-- पट्टविओ मे अमुओ,लभति ण लभति व तस्सिमा वेला। सीमं सा दुक्खी हं,सुही ति अमुअंव ते दुक्खं / / 3 / / अमुगो मया अमुगसमीव पेसितो लाभणिमित्तं, सो तत्थ तं लभेज वा, णो लभेजा? अधवा इमा तस्स आगमणवेला, सो लद्धलाभो अलद्धलाभो वा आगच्छति,ण वा? सीमं सड्ढा वा कोइ पुच्छेज्ज-किमहं सुही,दुक्खी वा? अहवा–वट्टमाणकाले चेव वागरेति-इमंतेसारीरंदुक्खं, माणसं वा वट्टति। गाहाजीवति मओ त्ति वा सं-कितम्मि एगतरगस्स णिद्देसे। एवं होहिति तुज्झं, तस्स व लाभाऽऽदओ एस्सो ||4|| कोइ विदेसत्थो ण णजति–जीवति, मतो वा? एरिसे संकिते पुच्छितो एगतरणिद्देसं करेज, एवं वट्टमाणे.एस्सेवा जस्स पुच्छिज्जति सोपचक्खो, परोक्खो वा / पचक्खो भण्णतितुझं एस्सकाले एवं होहितिलाभो, अलाभो वा, सुह, दुक्खं वा, जीवियं, मरणं वा / परोक्खेतस्स एस्से काले इमो लाभो, अलाभो वा, सुहं, दुक्खं जीवितं मरणं वा भविस्सइ। जीवइ त्ति भणिते गाहाआणंद अपडिहयं, संखडिकरणं च उभयधा होति। खिन्नादिमरणकोट्टण, अधिकरणमणागए वा वि।।८।। आणंद अपडि हयं करेति, वर्द्धमानक इत्यर्थः / मतो त्ति भणिते संखडि करणं करेज / एवं उभयहा अविधे अधिक रणदोसो भवति / अहवा-- मतो ति भणिते खिन्नचित्तो भवे, मरति जापू