SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ णिद्देस 2076 - अभिधानराजेन्द्रः - भाग 4 णिद्देस दुपयुक्तः स्त्र्युपयुक्तः,तदुपयुक्तस्य सर्वथैव पुंस्त्वविरोधात्। किंबहुना? यः स्त्रीविज्ञानमयः स्त्र्युपयोगोपयुक्तोऽपि न स्त्री, किं तु पुमान्नपुंसकं वा, स एवम्भूतः पदार्थः सर्वथा नस्तिअसन्नेव, खरविषाणवदिति।।१५२५।। अर्थानुपयुक्तः स्त्रियं भाषमाणोऽपि पुरुषो भविष्यति, इत्याश-याऽऽह भासइ वाऽणुवउत्तो, जइ अन्नाणी तओ न तव्वयणं। निद्देसो जेण मयं, निच्छियदेसो त्ति निद्देसो।।१५२६।। यदि वा उच्यते भवता-अनुपयुक्तोऽसौ पुरुषः स्त्रियं भाषतेऽतो न स्त्रीरूपतां प्रतिपद्यते / तदयुक्तम्, यत एवं सति तकोऽसावनुपयुतभाषकोऽज्ञानी, उपयोगशून्यत्वात्, घटाऽऽदिवत्, ततश्च न तद्वचन निर्देशः, उपयोगपूर्वकत्वाभावात्, उन्मत्ताऽऽदिवचनवत् / कुतः? इत्याह-येनैतन्मतं सम्भत विपश्चिताम् / किम् ? इत्याह-उपयोगपूर्वकतया निश्चित्य देशनं भाषणं देशो निर्देशः। अथवा-निश्चितो देशो भाषणंयत्रासौ निर्देशोभण्यते।नच निरुपयोगभाषणकस्यैवं सम्भवतीति / / 1526|| एतदेव भावयतिसो जइ नाणुवउत्तो-ऽणुवउत्तो वा न नाम निद्देसो। निद्देसोऽणुवउत्तो, य वेइ सद्दो नतं वत्थु / / 1527 / / हन्त ! स यदि निश्चितदेशो निर्देशोऽभ्युपगम्यते, तर्हि तद्वान देवदत्ताऽऽदिर्नाऽनुपयुक्तो युज्यते। अथानुपयुक्तोऽसौ, तर्हि न तस्य निर्देशः, निश्चितज्ञानपूर्वकत्वात्तस्य / किं बहुना? निर्देशः, अनुपयुक्तश्च तद्वानित्येवंभूतं यन्मतंतच्छब्दनयोऽवस्त्वेव बूते, विरुद्धत्वात्, अचेतन आत्मा, अश्रावणः शब्दः, इत्यादिवदिति।।१५२७|| __ अथोपसंहरन्नाहतम्हा जं जं निद्दि-स्सइ तदुवउतो स तम्मओ होइ। वत्ता वयणिज्जाओ, अणण्णो त्ति समाणलिंगो सो॥१५२८|| तस्मादेतच्छब्दनयमतस्य तात्पर्य,यः पुरुषाऽऽदिर्वक्ता यं यं स्त्र्यादिकमर्थं तदुपयुक्तः स्त्र्याधुपयुक्तो निर्दिशति वक्ति, स तन्मयो वाच्यार्थाऽऽत्मको भवति / कुतः? इत्याह-वक्ता वाच्योपयुक्तो वचनीयादनन्य एव भवतीति कृत्वा / ततो वक्तृवचनीयसमानलिङ्गोऽयमस्य निर्देश इति स्थितम् / / 1528 // प्रकृतमुपदर्शयन्नाहसामाइओवउत्तो, जीवो सामाइयं सयं चेव। निद्दिसइ जओ सव्वो, समाणलिंगो स तेणेव / / 1526 / / इह प्रस्तुते सामायिके निर्देश्य उपयुक्तो निर्देष्टा जीवः सामायिकमेव, भवतीति शेषः ततश्चाऽसौ सामायिक निर्दिशन् स्वकमेवाऽऽत्मानमेव निर्दिशति। कुतः? इत्याह-यतो यस्मात्स्त्रीपुंनपुंसकरूपः सर्वोऽप्यसौ निर्देष्टा तदुपयुक्तत्वात् तेनैव निर्देश्येन सामायिकेन समानलिङ्गो भवति, सामायिकार्थस्य रूढितो नपुंसकत्वात्, स्त्रियाः, पुंसो नपुंसकस्य वा सामायिकमभिदधानस्य नपुंसकलिङ्गनिर्देश एव भवतीति / आह-यदि पुनर्भावस्य द्वैविध्यान्निर्देश्यनिर्देशकोभयवशतोऽपि निर्देशः स्यात् तर्हि को दोषः? तथाहि--द्विविधो भावोऽर्थस्य विज्ञानं, परिणतिश्च, भावाभिधायिनश्च शुद्धनयाः / तत्र यदा पुमानुपयुक्तः सामायिक नपुंसकमाह, तदा वक्तुन पुसकविज्ञानानन्यत्वान्नपुंसकनिर्देशोऽस्तु,निर्देष्टु श्व मुखरोमाऽऽदिरूपपुरुष परिणतिमयत्वात् पुंनिर्देशोऽपि भवत्विति। अत्रोच्यते-भावस्य द्वैविध्ये सत्यपि वस्तुनो विज्ञानमेवेहोपयोगरूपमधिक्रियते , न पुनस्तत्परिणतिः, विज्ञानरूपस्यैदेह निर्देशस्याभिप्रेतत्वात् / आह-ननु शब्दोऽपि पुद्गलद्रव्यरूपो, निर्दिश्यत इति कृत्वा निर्देश एवोच्यते, तत्किमिति तदुपयोगरूप एव निर्देशोऽधिक्रियते / नैतदेवं, शब्दस्य द्रव्यमात्रत्वात् , ज्ञानलक्षणभावग्राहिणश्च शब्दनयाः। अत एव पुरुषपरिणतेः सत्यपि भावत्वे न तस्या इह ग्रहणम्, किंतु विज्ञानरूप एवात्र निर्देशो गृह्यते / तत्रैतत्स्यात्, शब्दप्रधान एव हि शब्दनयः,तत्कथमिह शब्दरूपो निर्देशो नेष्यते? तदयुक्तम्, भावार्थापरिज्ञानात् / शब्दनयो हि शब्दादेवार्थज्ञानमभ्युपगच्छति, तद्भावभावित्वात्तस्या एवं च सति शब्दस्यज्ञानकारणत्वात्, कारणस्य च द्रव्यत्वात्, द्रव्यस्य च भावशून्यत्वात्, शब्दनयस्य च भावग्राहित्वाद् न शब्दमात्रप्रधानता युक्तेति। अत्रापरस्त्वाह-ननु यधुपयुक्तो वक्ता यमर्थमाह, तद्वशान्निर्देश इष्यते, ततो निर्देश्यवशान्निर्देश इति प्राप्तम,एवं च सति संग्रहव्यवहारयोः शब्दनयस्य च को विशेषः? अत्रोच्यतेसंग्रहव्यवहारयोरुपयुक्तस्यानुपयुक्तस्य वा वक्तुरात्मनिरपेक्षोऽभिधेयमात्रवशाच्छब्दमात्रमेव निर्देशः, इह तु बाह्यवस्तुप्रत्ययमात्रमुररीकृत्य य उपयोगस्तस्मादनन्यत्वादभिधातुजीवस्योपयोगरूपं स्वरूपमेव निर्देशोऽङ्गीक्रियते। आह-यद्येवम्, ऋजुसूत्रादस्य को विशेषः, तस्याऽपि हि निर्देशकवशाद् निर्देशः, स एवेहाप्यापन्नः? अत्राप्युच्यतेऋजुसूत्राभिप्रायेणाऽनुपयुक्तस्याऽपि वक्तुः शब्दमात्रं निर्देशः, अत्र तु वाच्योपयोग एव निर्देश इति विशेषः, इत्यलं प्रसङ्गेनेति।।१५२६।। तदेव नयमतान्यभिधाय सम्यग्मिथ्याविभागमाहइह सव्वनयमयाई, परित्तविसयाई समुदियाइंतु। जइणं वज्झऽभंतर-निद्देसनिमित्तसंगाही।।१५३०।। इत्येवमुक्तप्रकारेण सर्वाण्यपि नैगमाऽऽदिनयमतानि परीत्तविषयाण्यन्योन्यनिरपेक्षतया एकैकांशग्राहीणि, अतो मिथ्यारूपत्वात् तान्यप्रमाणमिति भावः / समुदितानि पुनस्तान्येवाऽन्योन्यसापे–क्षतया संपूर्णवस्तुग्राहित्वाज्जैन मतं भवति / कथम्भूतं जैन मतम् ? इत्याह(बज्झेत्यादि) बाह्याऽऽभ्यन्तराणि निर्देशस्य वचनस्य शब्दस्य निमित्तानि संग्रहीतुमभ्युपगन्तुं शीलं यस्य तद् बाह्याऽऽभ्यन्तरनिर्देशनिमित्तसंग्राहि / तत्र बाह्यान्यभिधेयघटपटशकटाऽऽदीनि, आभ्यन्तराणि तु स्वरनामकर्मोदयताल्वादिकरणप्रयत्नादीनि निर्देशस्य निमित्तानि द्रष्टव्यानि / समस्ततत्सामग्रीजन्यनिर्देशाभ्युपगमपरत्वेन सम्यग्रूपत्वाज्जैन मतंप्रमाणमितीह भावार्थः। आह-बाह्यो घटाऽऽदिरर्थः शब्दस्य कथं निमित्तम्, संबन्धाभावात्? तदयुक्तं शब्दार्थयोर्वाच्यवाचकसंबन्धस्य विद्यमानत्वात्। यद्यर्थस्य शब्दोवाचकः,तहगृहीतसंकेतस्यापिम्लेच्छाऽऽदेरसावर्थं प्रतिपादयेदिति चेत्। नैवम्, कर्मक्षयोपशमसव्यपेक्षस्यैव तस्य तत्प्रतिपादकत्वात्, क्षयोपशमस्य च सङ्केताऽऽदिसापेक्षत्वात्। न हि प्रदीपः प्रकाशक इत्येतावन्मात्रेणैवान्धाऽऽदीनामप्यर्थ प्रकाशयति / ननु यदि क्षयोपशमापेक्षः शब्दोऽर्थ प्रकाशयति, तर्हि संके तक रणेऽपि तदप्रकाशनप्रसङ्गः, न चैतदस्ति, गृहीतसङ्केतानामविगानेनार्थप्रतिपत्तिदर्शनात्, ततः किमन्तर्गडुकल्पक्षयोपशमकल्पनेन? तदयुक्तम्, तथाहि-केषा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy