________________ णिद्देस 2075 - अभिधानराजेन्द्रः - भाग 4 णिद्देस ग्रहोपघातौ तस्य तदात्मीयम्, यथा देवदत्ताऽऽदेरिन्द्रियम्, दृश्येते वचनसूक्तत्वदुरुक्तत्वाभ्यां वक्तुरनुग्रहोपघातौ, तस्मात्तत्तस्याऽऽत्मीयम्। विपर्यये बाधकमाह-इतरथा अन्यथा वचनस्य वक्तुरसंबन्धित्वे तस्याऽनुग्रहोपघातयोरकृताभ्यागम एव स्यादिति / / 1517 / / अत्र परः प्राऽऽहनिविट्ठस्स वि कस्सचि, नणूवघायाइओ तयं जुत्तं ! ते तस्स सकारणओ, इहरा थाणुस्स वि हवेज्जा // 1518|| ननुन केवल निर्देशकस्य, किंतु निर्दिष्टस्याप्यभिधेयस्यापिकस्यचित् तस्कराऽऽदेर्वचनादुपघाताऽऽदयो दृश्यन्ते, यथा-'वध्यता, हन्यता चाय तस्करः, मुच्यता चायमित्याधुक्ते तस्य विषादाऽऽद्युत्पत्तेरुपघाताssदयोऽध्यक्षत एवोपलभ्यन्ते / अतस्तद्दर्शनान्निर्दिष्टस्याऽपि संबन्धि तद्वचनं वक्तुं युज्यते / अत्रोत्तरमाह-(ते इत्यादि) ये इष्टाऽनिष्टवचनश्रवणात्तस्कराऽऽदेः निर्दिष्टस्यानुग्रहाऽऽदयो दृश्यन्ते, तेतस्य स्वकीयश्रवणेन्द्रियमनः पुण्यपापाऽऽदिकात्कारणादेव मन्तव्याः, न त्विष्टानिष्टवचनोक्तिमात्राद्, अन्यथा श्रोत्राऽऽदिकरणविकलानां स्थाण्वादीनामपि तदुक्तिमात्रात्ते भवेयुरिति / / 1518 / / वक्तृधर्मत्वमेव वचनस्य हेत्वन्तरोक्तेः समर्थयन्नाहसरनामोदयजणियं, वयणं देहो व्य वत्थुपञ्जाओ। तं नाभिधेयधम्मो, जुत्तमभावाभिहाणाओ॥१५१६।। 'वक्तृपर्यायो वचनम्' इति प्रतिज्ञा, स्वररूपनामकर्मोदयजन्यत्वात, इह यन्नामकर्मोदयजन्यं तत्तस्यैव वक्तुर्देवदत्ताऽऽदेः पर्यायः, यथा तस्यैव देहः, नामकर्मोदयजन्यं च वचनं, तस्मात्तस्यैव वक्तुः पर्यायः / तत्तस्मान्न वचनमभिधेयधर्मो युक्तम्, किं त्वभिधातुरेव / उपचयमाह-अभावस्यापि वचनेनाभिधानात् / इदमुक्तं भवतिअभावोऽपि हि वचनेनाभिधीयते, न च वचनं तद्धर्म इति वक्तुं शक्यते, अभावस्यासत्त्वात्, यदि च वचनं तद्धर्मः स्यात्, तदा सोऽपि भावः स्याद्, वचनाऽऽश्रयत्वात्, देवदत्ताऽऽदिवदिति / / 1516 / / यस्यापि च घटाऽऽदिशब्दाभिधेयस्य घटाऽऽदे भविस्य वचनं, तत्प्रत्ययकारणत्वाद्धर्मत्वेनाभ्युपगम्यते, तत्रापि पृच्छ्यते / किम्? इत्याहभावम्मि विसंबद्धं, तमसंबद्धं व तं पगासेजा। जइ संबद्धं तिहुयण-वावि त्ति तयं पगासेउ।।१५२०।। भावेऽपि घटाऽऽदिके वचनाभिधेये पृच्छामो भवन्तम्-तद्वचनं तत्र भावे किं संबद्धसत्तं भावंप्रकाशयति, आहोस्विदसंबद्धम् ? इति। यदि संबद्ध, तर्हि "चउहि समएहिं लोगो, भासाए निरंतरं तु होइ फुडो।" (376) इत्यादिवचनात् त्रिभुवनव्यापित्वात्तद्गतं समस्तमपि पदार्थजातं प्रकाशयतु, संबद्धत्वाविशेषादिति॥१५२०॥ अथासंबद्धं प्रकाशयति, तत्राऽऽहनिविण्णाणत्तणओ, नासंबद्धं तयं पईवो व्व / भासयइ असंबद्धं, अह तो सव्वं पगासेउ॥१५२१।। नासंबद्धं तत्पदार्थान् प्रभासयति। कुतः? इत्याह-निर्विज्ञा-नत्वात्, विज्ञानादन्यत्वे सत्यसंबन्धत्वादिति भावः / अयंच हेतुः / प्रदीपवदिति | दृष्टान्तः। विज्ञानमसंबद्धमपि वस्तुप्रकाशयति, नच वचनं विज्ञानरूपम्, अतो नासंबद्धमर्थ प्रकाशयति, प्रदीपवद् / अथासंबद्धमपि तद्वस्तु प्रकाशयति, तर्हि सर्वमपि प्रकाशस्तु, असंबद्धत्वाविशेषात् / तस्माद्वाच्यप्रत्ययकारणत्वेन तद्धो वचनमिति॥१५२१।। आह-ननूक्तं वचनमर्थादात्मलाभ लभते, प्रदीपवद्, अतः कथमिदं वक्तुरेवेष्यते? इत्याहजइ विवयणिज्ज वत्ता, बज्झऽभंतरनिमित्तसामण्णं / वत्ता तह वि पहाणो, निमित्तमभंतरं जं सो॥१५२२| इह यद्यपि वचनीयं वक्ता च यथासंख्यं बाह्यमभ्यन्तरं च वचनस्य सामान्य निमित्त कारणम्, तथाऽपि वक्ता प्रधानः / कुतः? इत्याहयद्यस्मादन्तरङ्ग प्रत्यासन्नं निमित्तमसौ। तस्माद्वचनस्य, वाधीनत्वात्, यदेव वक्तुर्लिङ्ग तदेव सामायिकस्य ऋजुसूत्रनयमतेन लिङ्ग मिति स्थितम् // 1522 // "उभयसरिच्छंच सदस्स।" (1505) इत्येतद्व्याचिख्यासुराहसद्दो समाणलिंगं, निघसं भणइ विसरिसमवत्थु / उवउत्तो निद्दिट्ठा, निद्दिस्साओ जओऽणण्णो // 1523|| शब्दप्रधानो नयः शब्दो निर्देशं वचनमिच्छति किंविशिष्टम? इत्याहसमानलिङ्ग निर्देश्यनिर्देशकयोस्तुल्यमेव लिङ्गमसाविच्छतीत्यर्थः / विसदृशं त्वसमानलिङ्ग निर्देशमघटमानकत्वादवस्तुत्वेनैव मन्यते / कुतः? इत्याह-उपयुक्तः निर्देश्येऽर्थेऽर्पितान्तःकरणो निर्देष्टा यद् यस्मानिर्देश्यादनन्योऽभिन्नः / इदमुक्तं भवतिवक्तुस्विलिङ्गवतोऽपि पुमांसमभिदधतः पुंनिर्देश एव, स्त्रियं प्रतिपादयतः स्त्रीनिर्देश एव,नपुंसक निर्दिशतो नपुंसकनिर्देश एव, वाच्ये उपयुक्तस्य वक्तुच्यत्वादभिन्नत्वादिति / / 1523 / / तथा चाऽऽहथीं निद्दिसइ जइ पुमं,थी चेव तओ जओ तदुवउत्तो। थीविण्णाणाणन्नो, निद्दिट्ठसमाणलिंगो त्ति॥१५२४॥ स्त्र्यादेः समानलिङ्ग स्त्र्यादिकं निर्दिशतः स्यादिनिर्देश इति तावत्किल प्रतीतमेव / यद्यपि च पुमान् कर्ता स्त्रियं कर्मताऽऽपन्ना निर्दिशति / यथा-वासवदत्ते ! इदमित्थं विधेहीति, तदपि तकोऽसौ निर्देष्टा पुरुषः स्त्र्येव भवति / कुतः? इत्याह-यतो यस्मात्तदुपयुक्तः स्त्र्युपयुक्तः स्त्रीविज्ञानाद्वासवदत्ताऽध्यवसायादनन्योऽभिन्नः सन्निर्दिष्ट्या स्त्रिया समानलिङ्गः पुरुषो भवति / ततश्च यदा पुरुषो नपुंसकमभिधत्ते, तदाऽपि निर्दिष्टसमानलिङ्गत्वान्नपुंसकमेवाऽसौ। एवं स्त्रियां नपुंसके च निर्देष्टरि निर्दिष्टसमानलिङ्गता योजनीयेति / / 1524 // ननु कथं स्त्रीविज्ञानादनन्यः स पुरुषोऽपि स्त्र्येव भवति, न पुरुषोऽपि स्यात्? इत्याहजइ स पुडं तो नत्थी, अह थी न पुमं न वा तदुवउत्तो। जो थीविण्णाणमओ, नो थी सोसव्वहानस्थि॥१५२५।। यदि स निर्देष्टा पुंमान, ततो न स्वीन खल्वसौं स्त्र्युपयोगवानित्यर्थः / अथासौ स्त्र्युपयोगोपयुक्तत्वात् स्त्रीत्यभ्युपगम्यते, तर्हि न पुमान्न पुंस्त्येनायमेष्टव्यः, किं तु स्त्र्युपयोगोपयुक्तत्वात् स्त्र्येवासौ मन्तव्य इत्यर्थः / अथ नैवं, तर्हि न वा न खल्वसौ,त