________________ णिद्देस 2074 - अभिधानराजेन्द्रः - भाग 4 णिद्देस त्यादौ निर्देशकवशानिर्देशः, तथाऽत्रापि योषित्पुरुषनपुंसकलक्षणत्रिविधनिर्देशकवशात् तदेव सामायिक स्वीपुंनपुंसकं भवति / स्त्र्यादित्रिविधनिर्देशकवशाद् नन्दसंहितामनुकापिलीयाऽऽदिवत् त्रिष्वपि लिङ्गेषु सामायिकस्य निर्देशप्रवृत्तिः, यथा--'सामायिक स्त्री' इत्यादि / / 1506 / / अथ प्रकारान्तरेणाऽपि लोकव्यवहारोपदर्शनेन प्रकृतं सम र्थयन्नाहजह वा घडाभिहाणं, घडसद्दो देवदत्तसद्दो त्ति। उभयमविरुद्धमेवं, सामइयं नेगभनयस्स / / 1510 / / इयं च गाथा-यथा वा देवदत्ताऽऽदिना घटाऽऽदिशब्दे समुच्चारिते इत्यादिना व्याख्यातैवेति // 1510 // "निद्दिष्ठं संगहो य ववहारो"(१५०५) इत्येतद्व्याख्यातुमाहअत्थाउ चिय वयणं,लहइ सरुवं जओ पईवो व्व / तो संगहववहारा, भणंति निद्दिट्ठवसगं तं // 1511|| यतो यरमादर्थादेव वाच्याद् घटाऽऽदेः सकाशाद्वाचकं वचनं स्वरूपमात्मलाभ लभते, नान्यथा, यथा प्रदीपः / प्रदीपो हि प्रकाश्यमेवार्थ प्रकाशयन् प्रदीपो भण्यते, यदि तु प्रकाश्यं वस्तु न स्यात् तदा किमपेक्षोऽसौ प्रदीपः स्यात्? तस्माद्यथा प्रकाश्यादेवार्थात्प्रदीप आत्मलाभ लभते, तथा वाच्यादेवार्थाद् वचनमात्मस्वरूपमाप्नोति। ततस्तस्मात्संग्रहव्यवहारनयौ निर्दिश्यते इति निर्दिष्ट वाच्यं वस्तु तदशगतं तदधीनमेव तद्वचन भणतो ब्रूतः / वाच्यं चेह सामायिकशब्दस्य सावद्यविरतिरूपः,तदभिधेयोऽर्थः / स च रूढितो नपुंसकतया प्रसिद्ध इति / अतः सामायिकस्य नपुंसकलिङ्गतामेव संग्रहव्यवहारावभ्युपगच्छतः। अथवा सामायिकवतां सत्त्वानां स्त्रीपुंनपुंसकत्वात् तत्परिणामानन्यत्वेन च सामायिकार्थस्य स्त्र्यादिरूपत्वाद्वाच्यवशेन त्रिलिङ्गताऽपिसामायिकस्य संग्रहव्यवहारनयमतेन द्रष्टव्येति॥१५११।। प्रकारान्तरेणाऽपि निर्दिष्टवशानिर्देशं समर्थयन्नाहअहवा निविद्वत्थ-स्स पञ्जओ चेवतं सधम्म व्व। तप्पच्चयकारणओ, घडस्स रूवाइ धम्म व्व।।१५१२।। अथवा तद्वचनं निर्दिष्टार्थस्य वाध्यवस्तुनः पर्याय एव, प्रत्ययकारणत्वात्-वाच्यार्थप्रतीतिहेतुत्वात्, यथा तस्यैव निर्दशस्य घटाऽऽदेरन्ये संस्थानाऽऽदयो धाः। इह यद्यस्य प्रत्ययकारणं तत्तस्य स्वपर्यायः, यथा घटस्य रूपाऽऽदयः, वचनं च वाच्यार्थस्य प्रत्ययकारणम्, अतस्तत्पर्यायः, पर्यायश्च पर्यायिणोऽधीन एवेति युक्तो निर्देश्यवशानिर्देश इति // 1512 // स्यादेतदसिद्धोऽयं हेतुः, एतत्प्रत्ययकारणत्वाद्वच नस्य,इत्येतन्निराकरणार्थमाहवयणं विन्नाणफलं, जइ तं भणिए वि नत्थि किं तेणं? अन्नत्थ पच्चए वा, सव्वत्थ दिपचओ पत्तो // 1513 / / अभिवेयसंकरो वा, वत्तरि पचओऽणभिहिए वि। तम्हा निविट्ठवसा, नपुंसगं वेंति सामइयं / / 1514|| अर्थविज्ञानफलं हि वचनं,यदि भणितेऽप्युदीरितेऽपि वचने (तं ति) तदर्थविज्ञानं, नास्ति न भवति, तर्हि कण्ठोष्ठशोषमात्रविधायिना किं तेनोक्तेन, निष्फलत्वात्? स्यादेतद्वाच्यादर्थादन्यत्र वक्तृलक्षणेऽर्थे विज्ञानं जनयिष्यति वचनम्, ततश्च विज्ञानफलं च तद्भविष्यति, वाच्येऽर्थे विज्ञानं च न जनयिष्यति, तथा च सति वाच्यार्थपर्यायो वचनं न भविष्यतीत्याशङ्कयाऽऽह-(सव्वत्थे-त्यादि) यदि हि वाच्यमर्थ विहाय वक्तृलक्षणेऽर्थान्तरे प्रत्ययं वचनं जनयेत्तीविशेषेणैव सर्वत्राऽर्थे प्रत्ययः प्राप्तः, न वा क्वचिदप्यर्थेऽसौ भवेत्, अविशेषादिति-अतत्पर्यायत्वेऽपि तत्प्रत्ययहेतुत्वे सर्वत्राऽसौ भवेत्, नवा क्वचिद्भवेदिति भावः / स्यादेतद्वचनाद्वक्तरि प्रत्ययो भवत्येव, यथाऽनेनेदमभिहितमिति, तत्किभुच्यते''जइ त भणिए वि नस्थि किं तेणं?" इति / इत्याशड्क्याऽऽह-- "अभिधेयसंकरो वेत्यादि / " अथ वा वाच्यादर्थादन्यत्र प्रत्ययेऽभ्युपगम्यमाने सर्वत्राऽपि प्रत्ययो न भवेदित्येको दोष उक्तः / अथ दोषान्तरमभिधित्सुराह-(अभिधेयसं करो वेत्यादि) यदि हि वक्तर्यनभिहितेऽपि वचनात्तत्र प्रत्ययोऽभ्युपगम्यते, हन्त ! तर्हि वक्तृवदनभिहितानि खरोष्ट्रढेङ्कवकाऽऽदीनि बहूनिवस्तूनि सन्ति, ततो वक्तृवत्तेषामपि श्रोतुः प्रत्यये सत्यभिधेयानां सर्वेषाम्, अभिधेयेन वा घटाऽऽदिना सह वक्त्रादीनाममन्येषां सङ्करः, एकस्यां श्रोतृप्रतीतौ साङ्कय युगपत्तदाकारसंक्रमणं प्राप्नोति, न चैतदस्ति, एकस्माद्वचनादेकरयैव प्रतिनियतस्य घटाऽऽद्याकारस्य संवेदनादिति। तस्मादभिधेयपर्याय एव वचनम्, तत्प्रत्ययकारणत्वात् / अतो निर्दिष्टमाह सामायिकशब्दस्यार्थरूपं सामायिक रूढितो नपुंसकम्, तद्वशात्सामायिकशब्दः संग्रहव्यवहारयोर्नपुंसकलिङ्गवृत्ति / अथवा सामायिकवतः स्वीपुंनपुंसकत्वात्, तत्परिणामानन्यत्वाच सामायिकार्थस्य त्रिलिङ्गतामपि संग्रहव्यवहारावभ्यपगच्छतः। ततो निर्दिष्टस्य सामायिकार्थस्य त्रिलिङ्गत्वान्निर्देश्यवशादपि सङ्गहव्यवहारमतेन सामायिकस्य त्रिलिङ्गताऽपि भवति; यथा-'सामायिकं स्त्री' इत्यादि / एतच्च स्वयमेव द्रष्टव्यम् // 1513 // 1514 // "निद्देसगमुजुसुओ' (1505) इति व्याचिख्यासुराहउज्जुसुओ निद्देसग-वसेण सामाइयं विणिदिसइ। वयणं वत्तुरहीणं, तप्पज्जाओ यतं जम्हा // 1515 / / ऋजुसूत्रनयो निर्देशकवशेनाभिधातृपारतन्त्र्येण सामायिकं निर्दिशति, यदेव निर्देशकस्य लिङ्ग तदेव सामायिकस्यासौ मन्यते, यथा'सामायिकं स्त्री' इत्यादि, वचनस्य वक्त्रधीनत्वात्, तत्पर्यायत्वाच्च, विज्ञानवदिति। अथ वचनस्य वक्त्रधीनत्वे युक्तिमाहकरणत्तणओ मण इव, सपज्जयाओ घडाऽऽइरूवमिव / साहीणतणओ वि य, सधणं व वओ वयंतस्स // 1516 / / वदत एव संबन्धिवचः, इति पर्यन्ते प्रतिज्ञा। अत्र सदृष्टान्तान् हेतूनाहकरणत्वात, मनोवत; तथा--स्वपर्यायत्वात्, घटाऽऽदे रूपाऽऽदिवत् तथा-स्वाधीनत्वात्, स्वधनवदिति / / 1516|| युक्त्यन्तरमाहतह सुत्तदुरुत्ताओ, तस्सेवाणुरगहोवघायाओ। तस्स तयमिंदियं पि व, इहरा अकयाऽऽगमो होज्जा / / 1517|| तस्यैव वक्तुस्तद्वच इति पक्षः, वचनस्य सूक्त त्वदुरुक्तत्वाभ्यां वक्तुरेवानुग्रहापघातदर्शनात् / इह यस्य यन्निमित्तावन--